________________
मन्त्रितपूर्विणीभ्यामुक्तम् यत्रेदानी द्वाराणि उद्घाटितानि तत्र व्रज! तत्श्रुत्वा क्रुद्धः चतुष्पथं गतः । तत्रोद्घाटे हट्टे उपविष्टान् सूरिमन्त्रस्मरणपरान् श्रीहरिभद्रान् दृष्टवान् । सान्द्रचन्द्रके नभसि देशना, बोधः, व्रतम्, सर्वविद्यता, दिव्यं कवित्वम् । हंस-परमहंसवद् विशेषतर्कान् जिघृक्षुबौद्धान्तिकं जिगमिषुर्गुनवादीत्→ प्रेषयताद् बौद्धपार्श्वे । गुरुभिर्गदितम्-तत्र मा गाः, मनःपरावर्तो भावी! ऊचे-युगान्तेऽपि नैवं स्यात् । पुनर्गुरवः प्रोचुः- तत्र गतः परावर्त्यसे चेत् तदाऽस्मद्दत्तं वेषमत्राऽऽगत्याऽस्मभ्यं ददीथाः । उररीचक्रे सः । गतस्तत्र, पठितुं लग्नः । सुघटितैस्तत्कुतः परावर्तितं मनः । तद्दीक्षां ललौ । वेषं दातुमुपश्रीहरिभद्रं ययौ । तैरपि आगच्छन् झटितः (?)। एवं वेषद्वयप्रदानेन एहिरेयाहिराः २१ । द्वाविंशवेलायां गुरुभिश्चिन्तितम्-माऽस्य वराकस्य आयुःक्षयेण मिथ्यादृष्टित्वे मृतस्य दीर्घभवभ्रमणं भूत् । पुरापि २१ वारं वादैर्जितोऽसौ, अधुना वादेनाऽलम्, ललितविस्तराख्या चैत्यवन्दनवृत्तिः सतर्का कृता । तदागमे पुस्तिकां पादपीठे मुक्त्वा गुरवो बहिरगुः । तत्पुस्तिकापरमर्शाबोधः सम्यक् । ततस्तुष्टो निश्चलमनाः प्राह -
___नमोऽस्तु हरिभद्राय तस्मै प्रवरसूरये । मदर्थं निर्मिता येन वृत्तिललितविस्तरा ॥" (२) श्राद्धप्रतिक्रमणार्थदीपिकाटीकायां श्रीरत्नशेखरसूरय :
"मिथ्यादृष्टिसंस्तवे हरिभद्रसूरिशिष्यसिद्धसाधुव्रतम्-स सौगतमतरहस्यमर्मग्रहणार्थं गतः । ततस्तैर्भावितो गुस्दत्तवचनत्वान्मुकलापनायागतो गुसभिर्बोधितो बौद्धानामपि दत्तवचनत्वान्मुत्कलापनार्थं गतः । पुनस्तैर्भावितः । एवमेकविंशतिवारान्गतागतमकारीति । तत्प्रतिबोधनार्थं गुस्कृतललितविस्तराख्यशक्रस्तववृत्त्या दृढं प्रतिबुद्धः श्रीगुरुपार्श्वे तस्थौ" इति ।
(३) पाडीवालगच्छीयपट्टावल्याम् -
12"गग्गायरिआ य एकया सिरीमालपुरे गया । तत्थ धनी नाम सिट्ठी जिणसावओ । तस्स गिहे सिद्धो णाम रायपुत्तो । सो गग्गरिसिआयरिएण दिक्खिओ । अईवतक्कबुद्धिओ अण्णया भणइ→अओ परं तकं अत्थि ण वा? दुग्गायरिएण (गग्गायरिएण?) कहिअं-बुद्धमए अत्थि । गंतुमाढत्तो । गग्गरिसिणा कहिअं→मा गच्छ, सद्धाभंसो भावी! । तेण कहिअं→इत्थ आगमिस्सामि । गओ, समत्तहीणो आगओ । दुग्गा (गग्गा) यरिएण बोहिओ पुणो गओ । एवं पुणो पुणो गमणागमणं । तदा गग्गायरिएण विजयाणंदसूरिपरंपरासीसो हरिभद्दायरिओ महत्तरो बोहमयजाणगो बुद्धिमंतो विण्णविओ-सिद्धो ण ठाति' । हरिभद्देण कहिअं→को वि उवाओ (कमवि उवाय) करिस्सामि । सो आगओ बोहिओ ण ठाति । ताधे हरिभद्देण बोहणत्थं ललिअवित्थरा वित्ती रइआ तक्कमंथरा । हरिभद्दो णिअकालं णच्चा गग्गायरियस्स समप्पिआ (अ) अणसणेण देवलोयं पत्तो । तओ कालंतरेण आगओ । गग्गेण दिण्णा । सो वि लट्ठो→अहो! अइपंडिओ हरिभद्दगुरू । सम्मत्तं पडिवन्नो जिणवयणे भावियप्पा उग्गतवं चरमाणो विहरइ।" द्वितीयपक्षप्रसाधकानि प्रमाणानि पुनरेतानि -
(१) मेस्तुङ्गसूरीणां विचारश्रेणिप्रकरणे - "पंचसए पणसीए विक्कमकालाउ झत्ति अत्थमिओ । हरिभद्दसूरिसूरो निव्वुओ (निव्वुअओ) दिसउ सिवसुक्खं ॥" . (२) प्रद्युम्नसूरीणां विचारसारप्रकरणे -
"पंचसए पणत्तीए (सीए) विक्कमभूवाओ झत्ति अत्थमिओ । हरिभद्दसूरिसूरो धम्मरओ देउ मुक्खसुहं ॥३०॥" अहवा, "पणपन्नदससएहिं हरिसूरी आसि तत्थ पुवकई । तेरसवरिससएहिं अईएहिं बप्पभट्टिपहू" ॥३१॥" (३) केषाञ्चिद् जीर्णपत्रेषु -
"वीराउ वयरो वासाण पणसए दससएण हरिभद्दो । तेरसहिं बप्पभट्टी अट्टहिं पणयाल वलहिखओ3० ॥" (४) समयसुन्दरगणीनां गाथासहस्रयाम् -
१२७. -गर्गाचार्याश्चैकदा श्रीमालपुरे गताः । तत्र धनी नाम श्रेष्ठी जिनश्रावकः । तस्य गृहे सिद्धो नाम राजपुत्रः । स गर्गाचार्येण दीक्षितः । अतीवतर्कबुद्धिकोऽन्यदा भणति-अतः परं तर्कोऽस्ति न वा? । दुर्गाचार्येण (गर्गाचार्येण) कथितम्-बुद्धमतेऽस्ति । गन्तुमारब्धः । गर्षिणा कथितम्-मा गाः, श्रद्धाभ्रंशो भावी ! । तेन कथितम्-अत्राऽऽगमिष्यामि । गतः, सम्यक्त्वहीन आगतः । दुर्गा (गर्गा) चार्येण बोधितः पुनर्गतः । एवं पुनः पुनर्गमनाऽऽगमनम् । तदा गर्गाचार्येण विजयानन्दसूरिपरम्पराशिष्यो हरिभद्राचार्यों महत्तरो बौद्धमतज्ञायको बुद्धिमान् विज्ञप्तः- "सिद्धो न तिष्ठति' । हरिभद्रेण कथितम्-कोप्युपायः (कमप्युपायं) करिष्यामि । स आगतो बोधितो न तिष्ठति । तदा हरिभद्रेण बोधनार्थ ललितविस्तरावृत्ती रचिता तर्कमन्थरा । हरिभद्रो निजकालं ज्ञात्वा गर्गाचार्यस्य समर्पिता (समय) अनशनेन देवलोकं प्राप्तः । ततः कालान्तरेणाऽऽगतः । गर्गेण दत्ता । सोऽपि लब्धार्थः अहो ! अतिपण्डितो हरिभद्रगुरुः । सम्यक्त्वं प्रतिपन्नो जिनवचने भावितात्मा उग्रतपश्चरन् विहरति ।" १२८. -"पञ्चशते पञ्चाशीते विक्रमकालाद् झगित्यस्तमितः । हरिभद्रसूरिसूरो निर्वृतो दिशतु शिवसौख्यम् ॥" १२९. -“पञ्चशते पञ्चत्रिंशे (पञ्चाशीते) विक्रमभूपाद् झगित्यस्तमितः । हरिभद्रसूरिसूरो धर्मरतो ददातु मोक्षसुखम् ॥३०॥
अथवा, “पञ्चपञ्चाशद्दशशतैर्हरिसूरिरासीत् तत्र पूर्वकविः (कृती) । त्रयोदशवर्षशतैरतीतैर्बप्पभट्टिप्रभुः ॥३१॥" १३०. -अस्याश्छाया पूर्वमलेखि (प. १२ पृ. २) ।