________________
"पंचसए पणसीए विक्कमकालाउ झत्ति अथमिओ । हरिभद्दसूरिसूरो निव्वुओ (अओ) दिसउ सिवसोक्खं 31 ॥" (५) कुलमण्डनसूरीणां विचारामृतसंग्रहे -
"वीरनिर्वाणाद् सहस्रवर्षे पूर्वश्रुतं व्यवच्छिन्नं, श्रीहरिभद्रसूरयस्तदनु पञ्चपञ्चाशता वर्दिवं प्राप्ताः ॥" (६) श्रीधर्मसागरोपाध्यायानां तपागच्छपट्टावल्याम् - "श्रीवीरात्पञ्चपञ्चाशदधिकसहस्रवर्षे, विक्रमात् पञ्चाशीत्यधिकपञ्चशतवर्षे याकिनीसूनुः श्रीहरिभद्रसूरिः स्वर्गभाक् ।" (७) श्रीहरिभद्रसूरीणां लघुक्षेत्रसमासवृत्तौ -
_ "लघुक्षेत्रसमासस्य वृत्तिरेषा समासतः रचिताऽबुधबोधार्थं श्रीहरिभद्रसूरिभिः ॥
"पञ्चाशीतिकवर्षे विक्रमतो व्रजति शुक्लपञ्चम्याम् । शुक्रस्य शुक्रवारे पुष्ये शस्ये भनक्षत्रे ॥" अर्थतन्मतद्वयमपि साधक-बाधकप्रमाणपरिचालनपुरस्सरं पर्यालोचनामुपस्थाप्यते । तत्र प्रथमोपन्यस्तं कथानकद्वितयं पट्टावलीपाठश्च हरिभद्रसूरिसमीपे सिद्धर्षेर्दीक्षाप्रतिपत्तिमनुमन्यते, ध्वनयति चैवं हरिभद्रसमयं सिद्धर्षिकालादभिन्नस्वरूपम् । एतच्च न केनापि पुराणविदुषाऽनुज्ञायते । विबाधितं च मन्तव्यमिदं सिद्धर्षिवचनेन । स हि गर्गर्षीनेवाङ्गीकरोति स्वदीक्षादातृत्वेन न तु हरिभद्रसूरीन् । तथा चेदमुपमितिभवप्रपञ्चायां तद्वच :
"सद्दीक्षादायकं तस्य स्वस्य चाहं गुरुतमम् । नमस्यामि महाभागं गर्गर्षिमुनिपुङ्गवम् ॥" एवं हरिभद्रसूरीणां स्वसमकालभवत्वमपि सिद्धर्षिणैवोपन्यस्तेन -
___"अनागतं परिज्ञाय चैत्यवन्दनसंश्रया । मदथैव कृता येन वृत्तिललितविस्तरा ॥" -- इत्युपमितिभवप्रपञ्चापद्येन निरस्तं भवति । अपि च, निजोपमितिभवप्रपञ्चायां प्रथमप्रस्तावे द्रमकरूपेण वर्णितं निष्पुण्यकजन्तुं निजात्मानमङ्गोकुर्वता तस्य भगवदवलोकनयोग्यत्वदर्शकं धर्मबोधकराभिधानं महानसनियुक्तं च विशिष्टज्ञानं स्वमार्गोपदेशकमादर्शयताऽपि तेन स्वधर्मबोधकराणां हरिभद्रसूरीणां स्वस्मात् पूर्वभवत्वमावेदितम् । तथा च तत्रत्यपाठलेशः- “यस्तु तत्र नगरे निष्पुण्यको नाम द्रमकः कथितः सोऽत्र संसारनगरे सर्वज्ञशासनप्राप्तेः पूर्वं पुण्यरहिततया यथार्थाभिधानो मदीयजीवो द्रष्टव्यः । यथा च तां महाराजदृष्टिं तत्र रोरे निपतन्तीं धर्मबोधकराभिधानो महानसनियुक्तो निरीक्षितवान् इत्युक्तं तथा परमेश्वरावलोकनां मज्जीवे भवन्तीं धर्मबोधकरणशीलो धर्मबोधकर इति यथार्थाभिधानो मन्मार्गोपदेशकः सूरिः स निरीक्षते स्म । तथाहि→सयानबलेन विमलीभूतात्मानः परहितैकनिरतचित्ता भगवन्तो ये योगिनः पश्यन्त्येव देशकालव्यवहितानामपि जन्तूनां छद्मस्थावस्थायामपि वर्तमाना दत्तोपयोगा भगवदवलोकनायोग्यतां, पुरोवर्तिनां पुनः प्राणिनां भगवदागमपरिकर्मितमतयोऽपि योग्यतां लक्षयन्ति, तिष्ठन्तु विशिष्टज्ञाना इति । ये च मम सदुपदेशदायिनो भगवन्तः सूरयस्ते विशिष्टज्ञाना एव, यतः कालव्यवहितैरनागतमेव तैतिः समस्तोऽपि मदीयवृत्तान्तः । स्वसंवेदनसिद्धमेतदस्माकमिति ।" निर्दिष्टोपनयसंदर्भस्य हरिभद्रवर्णनपरत्वं च ग्रन्थकारेणैवोपदर्शितं तत्प्रान्तभागनिबद्धेनाऽमुना श्लोकेन -
“आचार्यहरिभद्रो मे धर्मबोधकरो गुरुः । प्रस्तावे भावतो हन्त स एवाये निवेदितः ॥" एवं च हरिभद्रसूरीणां सिद्धर्षिसमसामयिकत्वे - 'ये च मम सदुपदेशदायिनो भगवन्तः सूरयस्ते विशिष्टज्ञाना एव यतः कालव्यवहितैरनागतमेव तैतिः समस्तोऽपि मदीयवृत्तान्त":- इत्यनेन साध्यमानं विशिष्टज्ञानवत्त्वमसंगतमेवाऽऽपद्येत, आगमपरिकर्मितमतीनामपि पुरोवर्तिप्राणिनिकरस्य योग्यताया लक्षकत्वाभिधानात् । एतेन 'अनागतम्' इत्यस्य बौद्धपुरादनागतं, जैनमतानभिज्ञं, बौद्धशास्त्रपरिभावितमतिर्भविष्यतीत्यनागतकालं, द्वाविंशवारं बौद्धलोकादनागतम्, असंपूर्णबोधं वा इत्याद्यर्थविकल्पनमपि निराकृतं भवति, "कालव्यवहितैः" इति वचनात, सर्वस्वकीयवृत्तान्तान्वयिक्रियाविशेषणत्वेनाऽनागतशब्दप्रयोगाच्च उक्तविकल्पानुपपत्तेः । एवं प्रभावकचरित्रे प्रभाचन्द्रसूरिभिः सिद्धर्षिमुखेनोपवर्णितं हरिभद्रसूरीणां पूर्वसूरित्वमप्यत्राऽनुसंधेयम्, तच्चेदम् -
"का स्पर्धा समरादित्यकवित्वे पूर्वसूरिणा । खद्योतस्येव सूर्येण मादृग्मन्दमतेरिह॥" एतेन हरिभद्रसूरेः सिद्धर्षेश्चाऽभिन्नं समयं निरूपयन् पट्टावलीपाठोऽपि विबाधितो भवति । तेनोल्लिखितं विजयान्दसूरिपरम्पराशिष्यत्वमपि न घटते एतेषु । एते हि भगवन्तो विद्याधरकुलाऽलङ्काराणां जिनदत्तसूरीणां शिष्या इति पूर्वमेव साधितम् । विजया (जया)नन्दसूरिपरम्पराशिष्यत्वेन वर्ण्यमानहरिभद्रसूरयश्च चन्द्रकुलपरम्परायां लब्धप्रतिष्ठा इति स्पष्टमेव खरतरजिनरङ्गीयपट्टावल्यादिसाधनैरवबुध्यते । १०८८ मितविक्रमवर्षे विद्यमानाजिनेश्वरसूरेरधस्तनषष्ठपट्टधरतया निरूप्यमाणाश्चैते विक्रमस्य नवमशतकप्रान्तभवा इत्यनुमानमपि नाऽसंगतिमङ्गति । इत्थं च प्रबन्धकोशादिषु वर्णितं हरिभद्रसूरीणां सिद्धर्षिसमानसमयभवत्वमपि सकारणमापद्यते । अयं १३१. -पञ्चशते पञ्चाशोते विक्रमकालाद् झगित्यस्तमितः । हरिभद्रसूरिसूरो निर्वृतो दिशतु शिवसौख्यम् ॥" १३२. -जेसलमेस्दुर्गस्थबृहज्ज्ञानकोशे हरिभद्रसूरिकृतकतिपयलघुग्रन्थानां प्राचीनताडपत्राणि वर्तन्ते । तत्र हरिभद्रसूरिरचितायां लघुक्षेत्रसमासवृत्ताविदं श्लोकद्वयं दृश्यते । अस्यार्थश्च "विक्रमतः पंचशताधिकपञ्चाशीतिके वर्षे वृत्तिरियं निर्मिता' इत्येव प्रतिभाति ।
14