SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ पुनस्तत्र भ्रमो यत् सिद्धर्षिकथासंबन्धित्वेन ललितविस्तरादिकृत्त्वेन च तेऽवर्ण्यन्त इति । दुर्निवारश्चाऽयं नामसादृश्यादिनिबन्धनछद्मस्थानामिति । द्वितीयपक्षे पुनरुपलभामहे विश्वसनीयप्रमाणोपसंग्रहं विबाधकप्रमाणविरहं च, तथा हि . श्रीमदभयदेवसूरयः पञ्चाशकटीकाप्रारम्भे - " इह हि विस्फुरन्निखिलातिशयधामनि दुःषमाकालविपुलजलदपटलावलुप्यमानमहिमनि नितरामनुपलक्ष्यीभूतपूर्वगतादिबहुतमग्रन्थसार्थतारतारकानिकरे पारङ्गतगदिताऽऽगमाम्बरे पटुतमबोधलोचनतया सुगृहीतनामधेयो भगवान् श्री विवक्षितार्थ हरिभद्रसूरिस्तथाविधपुरुषार्थसिद्ध्यर्थिनामपट्टदृष्टीनामुन्नमितजिज्ञासाबुद्धिकन्धराणामैदंयुगीनमानवानामात्मनोपलक्ष्यमाणान् सार्थसाधनसमर्थान्कतिपयप्रवचनार्थतारतारकविशेषानुपदिदर्शयिषुः पञ्चाशद्गाथापरिमाणतया पञ्चाशकाभिधानानि प्रकरणानि चिकीर्षु ........ स्पष्टमेवाऽनेन रूपकबन्धेन भगवतां हरिभद्रसूरीणां समये पूर्वश्रुतस्य विलुप्यमानाऽवस्था, तां विप्रकीर्णदशामनुभवतस्तस्य कतिपयांशोपसंग्रहेण पञ्चाशकादिग्रन्थनिर्माणं च निवेद्यते, अथ चेदं तेषां विक्रमस्य षष्ठशतके एव विद्यमानत्वे संघटते नाऽन्यत्र । किंच, वीरप्रभोः सप्तविंशे पट्टे समारूढस्य उपरितनसमयाधारकस्य द्वितीयमानदेवसूरेर्मित्रत्वेन प्रकृतहरिभद्रसूरीन् वर्णयन्त्यनेके ग्रन्थकाराः, पट्टावल्यादिवचनान्यपि एतन्मतानुकूलानि । तथा च क्रियारत्नसमुच्चये गुणरत्नसूरय :- "ख्यातः श्रीहरिभद्रमित्रमभवत्श्रीमानदेवस्ततः " ॥ गुवाल्यां मुनिसुन्दरसूरय' 34: - अञ्चल - पौर्णमिकगच्छपट्टावल्यो: "अभूद् गुरुः श्रीहरिभद्रमित्रं श्रीमानदेवः पुनरेव सूरिः । यो मान्द्यतो विस्मृतसूरिमन्त्रं लेभेऽम्बिकाऽऽस्यात्तपसोज्जयन्ते ॥" “विद्यासमुद्रहरिभद्रमुनीन्द्रमित्रं सूरिर्बभूव पुनरेव हि मानदेवः । "मान्द्यात् प्रयातमपि योऽनघसूरिमन्त्रं लेभेऽम्बिकामुखगिरा तपसोज्जयन्ते ॥" तपागच्छजीर्णपट्टावल्याम् 35 : " २७ श्रीमानदेवसूरिः, अम्बिकावचनाद् विस्मृतसूरिमन्त्रं लेभे । याकिनीसूनुहरिभद्रसूरिस्तदा जातः । तच्छिष्यौ हंस- परमहंसौ ।" अपि च, दाक्षिण्याङ्काः श्रीमदुद्द्योतनसूरयोऽपि " शालिवाहनस्य सप्तमशताब्द्यां विनिर्मितायां स्व "कुवलयमाला 37 कथायां सूरीनिमानित्थंकारं गाथाद्वयेन संसस्मरुः "जो इच्छइ भवविरहं भवविरहं को न वंधए (वंदए ) सुयणो । समयसयसत्थगुरुणो समरमिअंका (?) कहा जस्स ॥" "सो सिद्धंतगुरुपमाणनाएण जस्स हरिभदो ( ? ) । बहुगंथसत्थवित्थरपयडसव्वत्थो ( ? ) ।। 38 दिन्नगणिक्षमाश्रमणात् चतुर्थपट्टधरो भास्वामिनश्च शिष्यः सिद्धसेनगणिरपि यस्य सत्ताधारभूतः समयः पाश्चात्यैरेतद्देशीयैश्च विद्वद्भिर्विक्रमस्य षष्ठाब्दशतीप्रान्तभागोऽभ्युपगम्यते - तत्त्वार्थवृत्तौ "संज्ञिनः समनस्का: " एतत्सूत्रव्याख्याने हारिभद्रीयनन्दीव्याख्यानस्य 'हेतुः - काल- दृष्टिवादोपदेशक्रममुत्तरोत्तरविशुद्धमपहाय किं कारणं कालिक्यादौ व्यवस्थापिते" त्यादिकमंशं प्रमाणत्वेनोपन्यस्यन् सूरीणामेषां प्राचीनत्वं साधितवान् । तथा च तत्रत्यं स्थलम् - " निरूपितमिदं नन्द्यां सूत्रव्याख्याने 'हेतुकालदृष्टिवादोपदेशक्रममुत्तरोत्तरविशुद्धमपहाय किं कारणं कालिक्यादौ व्यवस्थापिते' त्येवमाक्षिप्तेऽभिहितमुत्तरं संज्ञ्यसंज्ञीति । ” पाश्चात्यदेशीयो याकोबीपण्डितस्तु हरिभद्रसूरीणां जिनभद्रशिष्यत्वं जिनभद्राणां च साध्यमानसमयादर्वाग्भवत्वमुररीकुर्वन्निदं द्वितीयमतं विप्रतिपद्यते, स्वीकरोति च सिद्धर्षिसमसमयभवत्वप्रतिपादनपरमाद्यमेव पक्षम् । तदिदं पूर्वमेव - "आचार्यजिनभटस्य हि " "विद्याधरकुलति१३३. - अस्य निर्माणकालोपदेशकं पद्यं पूर्वमुपदिष्टम् (प. ११ पृ. १) । १३४. – अस्या रचनाकालस्तु ग्रन्थकारेणेत्थमुपन्यस्तः " रस-रस- मनुमितवर्षे १४६६ मुनिसुन्दरसूरिणा कृता पूर्वम् । मध्यस्थैरवधार्या गुर्वालीयं जय श्रीदा ॥ ९३ ॥ " १३५. - कर्तृनामविरहितापि सुमतिसाधुसूरिपर्यन्ततपागच्छीयाचार्यनामावलीविभूषितत्वेन तत्समयलिखितेयमिति संभाव्यते । १३६. - एते आचार्यपुङ्गवा वटेश्वरक्षमाश्रमणपादानां प्रशिष्यास्तत्त्वाचार्याणां च शिष्या हीदेवीप्रसादभाजश्चाऽऽसन्निति कुवलयमालाप्रशस्तिगतेनाऽमुना पद्यचतुष्टयेन विज्ञायते १३८. " आगासवप्पनयरे वडेसरो आसि जो खमासमणो । तस्स मुहदंसणे च्चिय अवि पसमइ जो अहव्वो वि । तस्स य आयारधरो तत्तायरिओ त्ति नामसारगुणो । आसि तवतेयनिज्जिअपावतमोहो दिणयरो व्व ॥ जो दूसमसलिलपवाहवेयहीरन्तगुणसहस्साणं । सीलंगविउलसालो लग्गणखंभो व्व निक्कंपो । सीसेण तस्स एसा हिरिदेवीदिनदंसणमणेण । रइया कुवलयमाला विलसिरदक्खिनइंधेण ॥" १३७. - अस्या रचनाकालस्तु तत्रैव कविनैवमुपदिष्टः " संगकाले वोलीणे वरिसाण सएहिं सत्तहिं गएहिं । एगदिणेणूणेहिं एस समत्ताऽवरहम्मि ||" - य इच्छति भवविरहं भवविरहं को न बधाति (वन्दते) सुजनः । समयशतशास्त्रगुरोः समरमृगाङ्का (?) कथा यस्य । " "स सिद्धान्तगुरुप्रमाणन्यायेन यस्य हरिभद्रः । बहुग्रन्थसार्थविस्तर प्रकटसर्वार्थः ( ? ) ॥" 15
SR No.006034
Book TitleDharm Sangrahani Part 02
Original Sutra AuthorN/A
AuthorAjitshekharsuri
PublisherAdinath Jain Shwetambar Jain Mandir Trust
Publication Year1996
Total Pages392
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy