________________
लकाचार्यजिनदत्तशिष्यस्य" "एयं जिणदत्तायरियस्स"-इत्यादिभिर्जिनभद्रशिष्यत्वनिराकरणपरैर्हरिभद्रसूरिवचनैरेव निराकृतम् ।
अत्र हरिभद्रसूरीणां सत्तासमयनिर्णयप्रसङ्गे बौद्धाचार्यधर्मकीर्तेः कालनिरूपणमप्यावश्यकम् । हरिभद्रसूरयो हि शास्त्रवार्तासमुच्चयाऽनेकान्तजयपताकावृत्तिप्रभृतिषु स्वीयग्रन्थेषु धर्मकीर्ते मग्रहणमनेकशोऽकार्यु: । एतद्व्यवहारवशेन पण्डितसतीशचन्द्रादिभिनिर्धारितो धर्मकीर्तेरनेहाः पट्टावल्यादिषु प्रसिद्धायां विक्रमाब्द ५८५ रूपायां हरिभद्रसूरिकालविनिश्चितौ महतीं विरोधबाधामुपढौकयति। पण्डितसतीशचन्द्रमहोदयस्य कथनानुसारेण ६३५-६५० तमख्रिष्टाब्दासन्नो धर्मकीर्तेः सत्तासमयः । परमेतन्निर्णयसत्यतायामदृढ श्रद्धा वयम् । यद्वृत्ताधारेणानन्तरोक्तः समयो विनिश्चितस्तद्वृत्तं यथार्थं स्यादिति हि मनो नाङ्गोकुस्ते । कुमारिलस्य धर्मकीर्ति प्रति पितृव्यता, सौगतवेशत्यागपूर्वकं धर्मकीर्तेाह्मणकुमारिलाभ्यणे तदीयमतशास्त्राध्ययनं, पश्चाद् वादे धर्मकीर्तिना पराजितस्य कुमारिलस्य बौद्धधर्मस्वीकारः इत्येवमादयस्तत्रोक्ताः प्रोल्लापाः केवलं बौद्धकल्पनालब्धजन्मानः प्रतिभान्ति'५० । एवंभूताच्च कर्णोपकर्णिकवृत्तान्ताद्विचारितनिश्चितो धर्मकीर्तिसत्ताकालनिर्णयोऽपि न विश्वासास्पदम् ।
एवं संक्षेपतो विद्याभूषणमहाशयस्य लेखं समालोच्य साम्प्रतं प्रकृतविषयोपयुक्तनि प्रमाणान्तराणि समन्वेषयामः ।
शंकराचार्य-कुमारिलयोः प्रयागे समापन्नस्य समागमनस्योदन्तः शंकरदिग्विजयादौ सुप्रसिद्धः । तस्यैव भट्टकुमारिलस्य शिष्यो मण्डनमिश्राख्यः शंकराचार्यपाश्वे संन्यासं संप्रतिपद्य सुरेश्वराचार्यनामा विख्यातिमाप्तवान् । स निजे बृहदारण्यकोपनिषद्वार्तिके धर्मकीर्ते मोदलिखत्" । त्र्यम्बकात्मज-पण्डितकाशीनाथतैलंगमहाशयानामन्वेषणानुसारेण पूर्णवर्मभूपतिसमसमयकत्वे शंकराचार्या ईसवीयषष्ठशताब्द्यां विद्यमाना आसन् ।
- स एव च समयस्तत्पट्टमधितस्थुषः सुरेश्वराचार्यस्य43 । एवं च धर्मकीर्तिस्ततोऽपि प्राचीन इति निस्संशयमसिध्यत् ।
'भगवदूद्धजीवनचरित' - नाग्नि तिबेटन्पुस्तके धर्मरत्नराजः समुल्लिखति-'दिग्नागो धर्मकीर्तिश्च आर्याऽसङ्गस्य शिष्यावास्ताम, प्रमाणशास्त्रं च ताभ्यामध्यगाहि तत्पार्श्वे ।' योगाचारमतस्याऽद्वितीयो नेता आर्याऽसङ्गोऽयमभिधर्मकोषविधातुर्भदन्तवसुबन्धोरय्यबन्धुः । अस्य सत्ताकालच ख्रिष्टाब्दानां तृतीयशतकस्योत्तरभागो निर्धार्यते । यतोऽस्य लघुबन्धुना भदन्तवसुबन्धुना प्रायः स्वीयमधं वयस्तृतीयशतके व्यतिक्रम्य पश्चिमेन वयसा सह चतुर्थे शते प्रावेशि । वसुबन्धोरभिधर्मकोषः ४०४-५ तमख्रिष्टाब्देषु चीनभाषायां प्रतिफलितः । स्वस्थाने प्रचारमासाद्य दवीयःप्रदेशे तल्लाभाय वर्षाणां पञ्चाशतः षष्टेर्वाऽन्तरस्वीकारेऽभिधर्मकोषस्य निर्माणसमयः ३४५ तमख्रिष्टाब्दासन्नः समापद्यते। अस्मिंश्च समये वसुबन्धुरशीतिवर्षदेशीयः संभाव्यते । यतोऽमुं भदन्तसंघभद्रो वादाय समाजुहाव । अयं च स्ववार्धकं पुरस्कृत्य तदाह्वानं न्यषेधयत्, न्यवेदयच्च-'यद्यावयोर्वादः समापन्नः, तत्र चाहं पराजितो भवेयं तथापि ममाभिधर्मकोषस्य न लेशतोऽपि क्षतिरिति सुतरामवधेयम्।' अनेन ज्ञायते यदसौ वसुबन्धुरीसवीयतृतीयशतकस्य तृतीयचरणादारभ्य चतुर्थशतकस्य पूर्वाद्धं यावद् विद्यमान आसीत् । श्रूयते किलायमशीतिवर्षायुष्को भूत्वा परलोकमसाधयत् । १३९. -"तन्निवृत्तौ न चोपायो विनातीन्द्रियवेदनम् । एवं च कृत्वा साध्वेततत्कीर्तितं धर्मकीर्तिना ॥"
(-"शास्त्रवार्तासमुच्चय-स्तबक १० श्लो. २४ पृ. ३७२) "उक्तं च धर्मकीर्तिना-न तत्र किञ्चिद् भवति न भवत्येव केवलम् ।" (-अनेकान्तजयपताका-परिच्छेद २ पृ. ९०) “आह च न्यायवादी
धर्मकीर्तिर्वार्तिके-" (-अनेकान्तजयप. प. ३ पृ. १७७) १४०. –'बाहिरनिदानवण्णना-' प्रभृतिबौद्धधार्मिकग्रन्थपाठकैर्विदितचरमेव स्यात् यदुत, स्वधार्मिकोत्कर्षप्रसिद्धये निस्सीमातिशयोक्तिपूर्णकथाकल्पना
स्वप्रतिहतवैदुष्या आसन् बौद्धलेखकाः । १४१. -"त्रिष्वेव त्वविनाभावादिति यद्धर्मकीर्तिना । प्रत्यज्ञायि प्रतिज्ञेयं हीयेताऽसौ न संशयः ॥" (बृहदारण्यकोपनिषद्वार्तिकम् ।) १४२. -यद्यपि तत्संप्रदायग्रन्थेषु गतकल्यब्द-३८८९ (विक्रमसंवत् ८४५, ई. स. ७८८) स्पः शंकराचार्याणां जन्मसमयो निरूपितः । यथा शंकरमन्दारसौरभे
"प्रासूत तिष्यशरदामतियातवत्यामेकादशाधिकशतोनचतुःसहभ्याम् ।" अन्यत्रापि
"निधिनागेभवयब्दे विभवे मासि माधवे । शुक्ले तिथौ दशम्यां तु शंकरार्योदयः स्मृतः ॥" इत्यादि, परमत्र विश्वासकारणं न लभामहे । शंकराचार्य-भट्टकुमारिलौ समकालभवाविति हि शंकरानुयायिनां दृढविश्वासः । भट्टकुमारिलश्च न कथंचनापि ई. स. सप्तमशतात्पश्चाद्भवत्वमर्हति । यतोऽस्य मतनिरसनं शान्तरक्षितस्य तत्त्वसंग्रहे कमलशीलकृतायां तत्पञ्जिकायां च पदे पदे निरीक्ष्यते । कुमारिलस्य श्लोकवार्तिकव्याख्यातुरोम्बेयकस्यापि नामोल्लेखस्तत्त्वसंग्रहपञ्जिकायाम्-"उम्बेयकस्त्वाह" (तत्त्वसंग्रहपञ्जिकापत्र २६६ पृ. २) इत्यादिस्थलेषु विलोक्यते । अपि च तत्रैव पुस्तके "ननु चेत्यादिना शंकरस्वामिनः परिहारमाशङ्कते" (तत्त्वसं. पञ्जि. पत्र ७३ पृ. १) "शंकरस्वामी प्राह न ज्ञानस्वभावाः सुखादयः" (तत्त्व. पञ्जि. प. १३९ पृ. १) इत्यादिस्थलेषु 'शंकरस्वामि' नामा व्यवहतानां शंकराचार्याणामपि नामग्राहं मतनिराकरणं विधीयते स्म । उपर्युक्तग्रन्थयोर्निर्माणसमयश्च यथाक्रम ७४९ तमः ७५० तमश्च ख्रिष्टाब्दात्मक इति स्पष्टमेव पूर्वोक्तः शंकराचार्याणामुररीकर्तव्यम् । श्रृङ्गेरीमठाधीश्वरशंकराचार्याणां पट्टावल्यां पुनरादिशंकराचार्याणां संन्यासग्रहणकालो विक्रमाब्द २२ रूपः समाधिसमयश्च ४६ वर्षात्मको निरूपितः । १४३. -पूर्वोल्लिखितपट्टावल्यनुसारेण सुरेश्वराचार्यस्य संन्यासादानसमयो विक्रमसंवत् ३०, समाधिकालस्य विक्रमसंवत् ६९५ वर्षात्मकः (१) । १४४. –द्रष्टव्यम्-पण्डित-गोपाल-रघुनाथसम्पादितरघुवंशभूमिकायाम् ।
16