________________
'लक्षणानुसार'-शास्त्रस्य प्रणेता गुणमतिराचार्यो वसुबन्धुं नामग्राहमुल्लिखति स्म । अस्य वलभिनिवासिनो बौद्धाचार्यस्य स्थिरमतिनामा सतीर्थ्यः समभवत् । तेन स्थिरमतिना महायानमतादर्शभूतः कोऽपि ग्रन्थो विनिर्ममे । तस्य च ४०० तमख्रिष्टाब्दे चीनभाषायां प्रतिफलनमभवत् । अनयापि गणनया वसुबन्धोर्विद्यमानतासमयस्तृतीयशतक एवापतति । यश्च वसुबन्धोरस्तित्वसमयः स एवैतस्य गुस्बन्धोरार्याऽसङ्गस्य तच्छिष्ययोराचार्यदिग्नाग - धर्मकीयोश्च । केवलं वयोविशेषकृतो विभेदः संभवति । दिग्नागो हि वसुबन्धोः पश्चादस्यैव प्रमाणशास्त्रगुरुणा मनोहितेन प्रमाणशास्त्रं पाठितः । ततश्च वक्तुमिदं सुशकं, वसुबन्धुमपेक्ष्य दिग्नागो वयसा लघुरासीत्, ततोऽपि च धर्मकीर्तिरिति । यतोऽयमाचार्यदिग्नागस्य ग्रन्थान्व्याख्यातुं प्रख्यापयितुं च ततोऽपि चिरमललम्बत् स्वजीवनसूत्रम् । एतद्गणनाधारण आर्याऽसङ्गस्य २५०-३००, वसुबन्धोः २६०-३४०, दिग्नागस्य ३२०, धर्मकीर्तेश्च ३४९ तमः ख्रिष्टसमयो लभ्यते ।
सुबन्धुकृतौ वासवदत्तायां धर्मकीर्तिकृताऽलङ्कारनाम्नो ग्रन्थस्योल्लेखः संप्राप्यते । वासवदत्तानिर्माणकालश्च ईसवीयपञ्चमशतस्य तृतीयं चरणम् । यतोऽस्याः प्रारम्भे विक्रमादित्यस्य मरणजं रसवत्तावसानसंभवं च शोकं कविरुपवर्णयति ।
___ अयं च विक्रमादित्यो न गुप्तवंशीयः प्रथमचन्द्रगुप्तः स्कन्दगुप्तो वा संभवति । विक्रमादित्योपाधिधारित्वेपि नैतयोरेतादृशी विद्यारसिकत्वप्रसिद्धिरभवत् । सा हि द्वितीयचन्द्रगुप्तेन समलभ्यत । समुद्रगुप्तकुलाम्बरशशाङ्कस्य विद्याविलासिनोऽस्य द्वितीयविक्रमादित्यस्य राजत्वकालस्तु ईसवीयचतुर्थशतकस्य चरमं चरणं निर्धारितम् । एवमपि चतुर्थशतकान्त्यभागे पञ्चमशतस्य च प्रथमपादे लब्धसत्ताकात्सुबन्धोः पूर्वभवस्य धर्मकीर्तेश्चतुर्थशतकमध्यभागे विद्यमानत्वं न विबाध्यते । न्यायवार्त्तिकप्रणेतुर्भारद्वाजोद्योतकरस्यापि नामनिर्देशः सुबन्धुकृतवासवदत्तायामुपलभ्यते । सुबन्धोः समयः पूर्वोक्तानुमानमनुसृत्य ३७५-४२५ रूपो निर्णीयते । ततश्चोद्योतकरकालः ईसवीयचतुर्थशतकमध्यभागः समापतति स एव च तत्समकालभवस्य धर्मकीर्तेरप्यस्तित्वसमय:49 ।
तदेवम् ई. सं. चतुर्थशतकमध्यभवस्य धर्मकीर्तेरभिधानं हारिभद्रीयग्रन्थेषूपलभ्यमानमपि न तेषां षष्ठशतात्मकस्य सत्तासमयस्य विबाधकं विरोधकं वा समुत्पश्यामः । १४५. -प्रो. के. ह. ध्रुवमतेन धर्मकीर्तीयसत्तासमयः ४५० ख्रिष्टाब्दात्मकः । १४६. -"बौद्धसङ्गतिमिवालंकारभूषिताम्" (-वासवदत्ता) "बोद्धसङ्गतिमिवालंकारो धर्मकीर्तिकृतो ग्रन्थविशेषस्तेन भूषिताम्" (वासवदत्ता-टीका) प्रो. के. ह. ध्रुवमहाशयस्तु 'अलंकार' इत्यस्य संपूर्ण नाम 'सूत्रालंकार' इत्याचष्टे । अस्य विरचयितारं चाश्वघोष प्रतिपादयति । परम् अयमलंकारोऽश्वघोषस्य 'सूत्रालंकारः' स्यादिति न श्रद्धापथमवतरति । कविना प्रयुक्तः 'सङ्गति'-शब्द एव स्फुटमिदमावेदयति यदुत-अलंकारनामकं कमपि बौद्धन्यायग्रन्थमुद्दिश्य कवेरियमुक्तिः । अश्वघोषस्य न्यायग्रन्थविनिर्माणे नाद्ययावत् किमपि प्रमाणमुपलब्धम् । ततश्च सूत्रालंकारस्यैतत्कर्तृकत्वेऽपि स धार्मिक एव ग्रन्थः स्यादित्यस्माकं मतिः । धार्मिकेण च ग्रन्थेन बौद्धदर्शनसंगतिं भूषितां कविरुपवर्णयेदित्यश्रद्धेयमिदम् । तेन शक्यमिदं वक्तुं वासवदत्ताया 'अलंकारो' नाश्वघोषस्य कृतिः 'सूत्रालंकारो' नाम धार्मिकग्रन्थः, अपि तु 'न्यायावतार'-वृत्तिटिप्पणादिषु “यद्वौद्धालंकार:-कथं तर्हि क्रमेण ग्रहणं न भवति? युगपद् विषयसंनिधानात् । नहि वर्णविकल्पकाले प्रत्यक्षप्रत्ययार्थो न संनिहित इति " (न्यायावतारवृत्तिटिप्पण पृ. ७ ) “मनसो" रित्येतत्कारिकाविवरणे “विशेषतस्त्वेतत्कारिकार्थो बौद्धालंकारादेरवसेयः ।" (-न्यायावतारवृत्तिटि. पृ. ७) इत्यादिनोल्लिखितो 'बौद्धालंकाराख्यः' प्रमाणग्रन्थ एव संभाव्यते । अस्य कर्ता च वासवदत्ताटीकाकृतः शिवरामस्य कथनानुसारेण धर्मकीतिरेव स्यादिति। . १४७. -"सा-रसवत्ता विहतान-बका विलसन्ति चरति नो कं-कः । सरसीव कीर्तिशेष गतवति भुवि विक्रमादित्ये ॥" (वासवदत्ता) १४८, -"न्यायस्थितिमिवोद्योतकरस्वरूपाम् ।" (-वासवदत्ता) १४९ -यद्यपि बहूनामितिवृत्तविदुषामयं विश्वासो यत्खलु न्यायभाष्यस्य दिमागेन प्रमाणसमुच्चयादौ खण्डनमकारि । दिमागमतं च उद्द्योतकरेण न्यायवार्त्तिके निरस्तम् । न्यायवार्तिकं पुनर्धर्मकीर्तिना स्वग्रन्थेष्वपाकृतमिति । परमत्र वयमन्यद्विजानीमः, दिग्नागेन न्यायभाष्यमपाचक्रे इति सत्यम्, दिग्नागोक्तमुद्द्योतकरेण निरासीत्यपि प्रमाणसिद्धम्, पश्यामः खल्वत्र प्रमाणं तथाहि-"मनश्च (मनसश्च) इन्द्रियभावान्न वाच्यं लक्षणान्तरमिति, तन्त्रान्तरसमाचाराच्चैतत् प्रत्येतव्यमिति । परमतमप्रतिषिद्धमनुमतमिति हि तन्त्रयुक्तिः ।" (न्यायभाष्यम् १-१-४) अस्य खण्डनं प्रमाणसमुच्चये- “अनिषेधादुपात्तं चेदन्येन्द्रियरुतं वृथा ।" (-प्रमाणसमुच्चयः) ।
अस्य निराकरणं च न्यायवार्त्तिके एवम्-"तन्त्रान्तरसमाचाराच्च तन्त्रान्तरे मन इन्द्रियमिति पठ्यते तच्चेह न प्रतिषिध्यते । अप्रतिषेधादुपात्तं तदिति । न । शेषाभिधानवैयर्थ्यात् । शेषाण्यपीन्द्रियाणि तैः परिपठितानि तस्मात् तान्यपि न वक्तव्यानि यद्यप्रतिषेधादुपात्तं स्यादिति । न । तन्त्रयुक्त्यनवबोधात् । न भवता तन्त्रयुक्तिः परिज्ञायते । परमतमप्रतिषिद्धमनुमतमिति हि तन्त्रयुक्तिः । न च यस्य स्वमतपरिग्रहो नास्ति तस्य स्वमतं परमतं वा भिद्यते भवता च परमतानुरोधेन सर्व स्वमतं निवार्यत इति । तन्निवारणात् स्वमतं परमतमित्येव न स्यात् । तस्मादस्ति मन इन्द्रियं चेति ।" (-न्यायवार्तिकम् १-१-४ पृ. ३९) न चैवंविधं धर्मकीर्तिग्रन्थेषु न्यायवार्तिकस्य निराकरणमुपलभामहे न्यायवार्त्तिके च धर्मकीर्तीयग्रन्थानाम् । यद्येतयोरेकतरः पूर्वभवश्चेत् स्यादेवेतरग्रन्थेषु तन्मतोद्धरणं यथोक्तं प्राक् । ततश्चैवमनुमीयते यदेनौ समकालसंभवाविति । उद्योतकरो हि स्वजन्मना मिथिलामण्डलमुद्द्योतयामास इत्यन्वेषकाणां मतम् । धर्मकीर्तिश्च प्रायोऽधिकं तिबेटदेशमध्युवास इत्यपि प्रसिद्धम् । एवं चाल्पसाधने तदानींसमये तयोस्तद्रन्थानां च समागमस्य दुर्लभतया परस्परनिराकरणाभावोऽपि यौक्तिकतामश्नुते इति ।
किंच, दिग्नागाभिमतस्य विरुद्धाव्यभिचारिणः संशयहेतुत्वमनैकान्तिकत्वं च उद्द्योतकरेण न्यायवार्तिके-"एके त्वनेकधर्म इत्यन्यथा व्याचक्षते, एकस्मादन्योऽनेकधर्म इति । एवं च विरुद्धाव्यभिचारिधर्मद्वयोपनिपातो लभ्यते यं प्रति तर्कमाहुः स च संशयहेतुः यथाश्रावणत्वकृतकत्वे शब्दस्येति । तदयुक्तम् ।" (-न्यायवार्तिकम् १-१-२३ पृ. ९३) “केचित्तु विरुद्धाव्यभिचारिणमनैकान्तिकं वर्णयन्ति । तन्न, असत्त्वात् । नाऽयमस्तीत्युक्तम् ।" (-न्यायवार्तिकम् १-२-५ पृ. १६९) इत्यादिना निरस्तम् । धर्मकीर्तिनाप्यस्य हेत्वाभासत्वं न्यायबिन्दौ-" विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः स इह कस्मान्नोक्तोऽनुमानविषयेऽसंभवात् ।" (-न्यायबिन्दुपरिच्छेदः ३ पृ. ११५) इत्यनेन तिरोहितम् । अथ चेद्धर्मकीर्तिस्द्योतकरात्पश्चाद्भवस्तदपाकृतदिग्नागमतमण्डनोद्यतश्च तदा स उद्योतकरकृतनिरासं दिमागमतं मण्डयेदेव न चैवं दृश्यते, प्रत्युत स्वयमपि तत्स्थलमेव क्वचिनिराकरोति । तदेतेनानुमीयते यद् उद्द्योतकरकृतं दिग्नागमतखण्डनं नाऽदर्शि धर्मकीर्तिना, दृष्टं स्याच्चेत् स्यादेव तत्कृतं तदुद्धरणम् । “यदपि हेतुवार्तिकं बुवाणेनोक्तम्-सप्तिकासंभवे षट्प्रतिषेधादेकद्विपदपर्युदासेन त्रिलक्षणो हेतुरिति । एतदप्ययुक्तम् ।" (-न्यायवार्त्तिकम् १-१-३५ पृ. १२८) इत्यत्र न्यायवार्तिककारेण निरस्तमन्तव्यो बौद्धवार्तिककारश्च यदि अन्यस्य वार्तिककारत्वेनाऽश्रवणात् धर्मकीतिरेव स्यात्तदा तु सिद्धमेव धर्मकीर्तेस्द्योतकरप्राग्भवत्वम् ।
17