________________
धर्मकीर्तेरभिधानमिव मल्लवादिनामपि हरिभद्रसूरिग्रन्थेष्ववलोक्यमानं तेषां प्राच्यत्वे विसंवादमुपस्थापयति'50 । कोऽयं मल्लवादी ? कदाचाऽयं बभूव? इत्यनयोरनुयोगयोरतिदुष्करमसंदिग्धोत्तरम् । यद्यपि धर्मोत्तरटिप्पणकारमल्लवादिनामितिवृत्तमुपलभ्यते जैनपुस्तकेषु'51 तथापि वीरसंवद् ८८४ रूपस्तत्रोक्तस्तत्सत्तासमयो नाधुनिकानां विश्वासस्थानम् । यस्याष्टिप्पणं मल्लवादिकृतिस्तस्या न्यायबिन्दुटीकायाः कर्तुर्धर्मोत्तराचार्यस्य समयः इ. सं. ७४७ रूपो निर्धार्यते, एतत्संबन्धेन मल्लवादिनोऽपि ई. सं. अष्टमशतके समाकृष्यन्ते स्माऽन्वेषककोविदैः। समुपस्थितमिमं विसंवादमपाकर्तुमबाध्यं साधनं यद्यपि दुर्लभं तथापि न सर्वथा तदसंभवः । हरिभद्रसूरिभिरनेकान्तजयपताकायां मल्लवादिनामग्रहणमक्रियतेति सत्यं परं तत् सम्मतिकारत्वेन न तु धर्मोत्तरीय-न्यायबिन्दुटीका-टिप्पणकृत्त्वेन । ततश्चैवमङ्गीकर्तव्यं यदनेकान्तजयपताकोल्लिखितनामा सम्मतिकारतया विख्यातो वादिमुख्यो मल्लवादी धर्मोत्तरटिप्पणकारमल्लवादितो भिन्न एव स्यात्। दिग्नाग-महादिग्नागवत्' धर्मोत्तर-वृद्धधर्मोत्तरवच्च'5मल्लवादिद्वयमपि नाऽसङ्गतिमश्रुते । परमार्थतश्चैवमङ्गीकरणमेव निस्तारो-पायः । ७४७ ईसवीयाब्दभवत्वं धर्मोत्तरस्याङ्गीकृत्य तद्ग्रन्थटिप्पणकारं च मल्लवादिनमभिप्रेत्य हारिभद्रीयग्रन्थेषु तन्नामप्रेक्षणमध्यक्षबाधितमेव।
तदेवमनेकप्रमाणोपदर्शनेन बाधकनिरसनेन च विचारिते हारिभद्रीयसत्तासमये मन्ये द्वितीयमतमेव सौष्ठवमाप्नुयात् । अयं च विषयो यथा यथा विचार्यते तथा तथा विशालतामुपयाति प्रौढतां च भजते तथाप्यतिविस्तरभयात् साम्प्रतमस्मात्प्रकरणाद् विरमणमेव रमणीयम् ।
टीकाकाराः अथास्या धर्मसंग्रहणेष्टीकाकाराः सिद्धान्तादिवृत्तिकरणतो विख्यातकीर्तयोऽप्यविख्यातेतिवृत्ताः श्रीमन्तो मलयगिरिसूरयः कदेमं मानवलोकम्-विशेषतया जैनसमालम्-अनन्यसाधरणेन स्वजीवनेनोपाकृषत ? इति प्रश्रोऽप्यवसरप्राप्तः, एतदुत्तरार्थं च बहुकृतेऽप्यन्वेषणप्रयासे न मनस्तोषावहं कुतोऽप्यापि पुरावृत्तम्, तथापि, 'मलयगिरिव्याकरण'- नाना विश्रुते एतदीये एव शब्दानुशासने "अरुणदरातीन् कुमारपाल:'155 इति दृश्यार्थत्यादिविभक्त्यन्तोदाहरणोपन्यासेन स्वस्य कुमारपालराज्यकालभवत्वं निवेदितमेभिः । कुमारपालप्रबन्धेष्वप्येकस्मिन्कथाभागे एषां हेमचन्द्रसूरिभिः समं विहारः श्रीसिद्धचक्राधिष्ठायकविमलेश्वरदेवतः सिद्धान्तवृत्तिनिर्माणवरदानप्राप्तिश्च समुपवर्णिता, तथा च जिनमण्डनीयकुमारपालप्रबन्धे
"एकदा श्रीगुरुनापृच्छ्याऽन्यगच्छयदेवेन्द्रसूरि'58-मलयगिरिभ्यां सह कलाकलापकौशलाद्यर्थं गौडदेशं प्रति प्रस्थिताः । खिल्लूरग्रामे च त्रयो जना गताः । तत्र ग्लानो मुनिर्वैयावृत्त्यादिना प्रतिचरितः । स श्रीरैवतकतीर्थे देवनमस्करणकृतार्तिः । यावद्ग्रामाध्यक्षश्राद्धेभ्यः सुखासनं तद्वाहकांश्च प्रगुणीकृत्य सुप्तास्तावतत्प्रत्यूषे प्रबुद्धाः स्वं रैवतके पश्यन्ति । शासनदेवता प्रत्यक्षीभूय कृतगुणस्तुतिर्भाग्यवतां भवतामत्र स्थितानां
यते, युक्त्यातमुपति बौद्धांत
१५०. -"उक्तं च वादिमुख्येन मल्लवादिना सम्मतौ-स्वपरेत्यादि" (-अनेकान्तजयप. पृ. ४८) "उक्तं च वादिमुख्येन मल्लवादिना सम्मतौ- किमित्याह-न विषयग्रहणपरिणामादृतेऽपरः संवेदने विषयप्रतिभासो युज्यते, युक्त्ययोगात् ।" (-अनेकान्तजयप. पृ. ९९) । १५१. - प्रभावकचरित-प्रबन्धामृतदीर्घिकादिजैनग्रन्थेषु मल्लवादिचरितमुपवर्णितम् । १५२. - श्रीवीरवत्सरादथ शताष्टके चतुरशीतिसंयुक्ते । जिग्ये स मल्लवादी बौद्धास्तव्यन्तरांश्चापि । (-प्रभावकचरितम्) १५३. -"महादिग्नागादिभेदेनाऽनेके दिग्नागाः संजाताः, वार्तिककारेण कस्य दिग्नागस्य मतं खण्डितम् ? ।" (-न्यायवार्तिकभूमिका पृ. १२) १५४. -"अत्राह धर्मोत्तरः (स्याद्वादरत्नाकर परिच्छेदः १ पृ. १०) इत्यनेन धर्मोत्तरमधिकृत्य "बलदेवबलं स्वीयं दर्शयन् न निदर्शनम् । वृद्धधर्मोत्तरस्यैव भावमत्र न्यस्पयत् ॥" (स्या. प. १ पृ. ११)
“वृद्धसेवाप्रसिद्धोऽपि ब्रुवन्नेवं विशङ्कितः । बालवत्स्यादुपालभ्यस्त्रविद्यविदुषामयम् ॥ तथा हि सोऽयं वृद्धधर्मोत्तरानुसार्यप्यलोकवाचालतया तुल्यस्वस्पोरपि व्युत्पत्तिव्यवहारकालयोरतुल्यतामुपकल्पयन् बाल इवैकामप्यङ्गुलिं वेगवत्तया चालयन् द्वयीकृत्य दर्शयतीत्येवमुपालभ्यते त्रैविद्यकोविदैः ।" (स्या. पृ. १२) "सोऽयं साहित्यज्ञताभिमानात् तत्र वृद्धधर्मोत्तरमधरयति ।" (स्या. पृ. १३) इत्याद्युल्लेखैधर्मकीर्तिगन्धटीकयितारं धर्मोत्तराचार्य वृद्धधर्मोत्तरानुयायित्वेन निर्दिशन्तो भूतपूर्व वृद्धधर्मोत्तरास्तित्वमुपदिशन्ति स्याद्वादरत्नाकरकाराः । १५५. ('अदहदरातोन् कुमारपालः' इति) -पिटर्सनकार्यविवरणपुस्तके । १५६. -कुमारपालराज्यकालस्तु कुमारपालप्रबन्धादिषु-"संवत् ११९९ वर्षे मागीर्षे चतुर्थ्यां श्यामायां पुष्या सर्वग्रहोपेते मीनलग्ने सर्वे सामन्ताः कुमारं राज्येऽभ्यषिञ्चन्त ।"-इति प्रतिपादितसिंहासनप्राप्तेरारभ्य त्रिंशदधिकवर्षद्वादशशतं यावत् । १५७. -एतद्रचनासमयः प्रबन्धका तत्प्रान्तभागे एवं प्रत्यपादि
"प्रबन्धो योजितः श्रीमत्कुमारनृपतेरयम् । गद्यपद्यैर्नवैः कैश्चित् कैश्चित् प्राक्तननिर्मितैः ॥१॥
श्रीसोमसुन्दरगुरोः शिष्येण यथाश्रुतानुसारेण । श्रीजिनमण्डनगणिना व्यकमनु-१४९२-प्रमितवत्सरे रुचिरः ॥२॥" १५८. -जिनप्रभसूरयस्तीर्थकल्पे-“नवंगवित्तिकारसाहासमुब्भवेहि सिरिदेविंदसूरोहिं चत्तारि महाबिंबाइं दिव्वसत्तीए गयणमग्गेण आणिआई"-इत्यनेन वचनसंदर्भेण सूरीणामेषां नवाङ्गवृत्तिकारश्रीमदभयदेवसूरिसंतानीयत्वं बिम्बचतुष्टयमात्रानयनं च प्रत्यपत्सत ।
18