________________
सर्व भावीति गौडदेशे गमनं निषिध्य महौषधीरनेकान्मन्त्रान् नामप्रभावाद्याख्यानपूर्वकमाख्याय स्वस्थानं जगाम । एकदा श्रीगुरुभिः सुमुहूर्ते दीपोत्सवचतुर्दशीरात्रौ श्रीसिद्धचक्रमन्त्रस्साम्नायः समुपदिष्टः । स च पद्मिनीस्त्रीकृतोत्तरसाधकत्वेन साध्यते ततः सिद्ध्यति, याचितं वरं दत्ते नाऽन्यथा । ततोऽन्यदा कुमारग्रामे धौतां शोषणार्थं विस्तारितां शाटिकां परिमलाकर्षितभ्रमरकुलसंकुलामालोक्य पृष्टो रजकस्तैः- 'कस्या इयं शाटिका?' इति । सोऽवग्-ग्रामाध्यक्षपन्या इयम् । ततो गतास्तस्मिन् ग्रामे । ग्रामाध्यक्षप्रदत्तोपाश्रये स्थिताः । स च प्रत्यहं समायाति, धर्मदेशनां शृणोति । तेषां ज्ञानक्रियावैराग्याऽप्रमत्तत्वादिगुणान् दृष्ट्वा तथाविधभव्यत्वपरिपाकाद्गुणानुरागरञ्जितस्वान्तः प्रमुदितः प्राह-यूयमनिच्छवः परमेश्वराः किमपि कार्य मत्साध्यं समादिशन्तु । ततस्ते तं स्वान्तनिवेदिनं गुणानुरागगम्भीरवेदिनं ज्ञात्वा प्राहुः- अस्माकं श्रीसिद्धचक्रमन्त्रः साधयितुमिष्टोऽस्ति । स च पद्मिनीस्त्रीकृतोत्तरसाधकत्वेन सिध्यति नाऽन्यथा, तेन तव या पद्मिनी स्त्री वर्तते तां लात्वा त्वं कृष्णचतुर्दशोरात्रौ रैवतकाचले समागच्छ, अस्माकमुत्तरसाधकत्वं कुरु । विकारदर्शने शिरच्छेदस्त्वयैव विधेयः । इत्याकर्ण्य ग्रामाध्यक्षो विस्मयस्मेरमना मनाग विमृश्य चिन्तयाञ्चकार - एते तावन्महर्षयः समतृणमणिलोष्टकाञ्चनाः परब्रह्मसमाधिसाधकास्त.तेषामिदं कार्य वयं समर्यादमनया स्त्रिया चेद् भवति तदा तथाऽस्तु, किं बहुविचारणेनेति विचिन्त्य तैरुते दिने तैः समं सस्त्रीकः सुतरां निर्भीकः स श्रीरैवताचलमौलिमलञ्चकार । ते च त्रयः कृतपूर्वकृत्याः श्रीअम्बिकाकृतसांनिध्याः शुभध्यानधीरधियः श्रीरैवतदैवतदृष्टौ त्रियामिन्यामाह्वानावगुण्ठनमुद्राकरणमन्त्रन्यासविसर्जनादिभिरुपचारैर्गुरूक्तविधिना समीपस्थितपद्मिनीस्त्रीकृतोत्तरसाधकक्रियाः श्रीसिद्धचक्रमसाधयन् । तत इन्द्रसामानिकदेवोऽस्याधिष्ठाता श्रीविमलेश्वरनामा प्रत्यक्षीभूय पुष्पवृष्टिं विधाय स्वेप्सितं वृणुतेत्युवाच । ततः श्रीहेमसूरिणा राजप्रतिबोधः, श्रीदेवेन्द्रसूरिणा निजावदातकरणाय कान्तीनगर्याः प्रासाद एकरात्रौ ध्यानबलेन सेरीसकग्रामे समानीत इति जनप्रसिद्धिः, मलयगिरिसूरिणा सिद्धान्तवृत्तिकरणवरः, इत त्रयाणां वरं दत्त्वा देवः स्वस्थानमगात् । प्रमुदितो ग्रामाधीशः प्रत्यूषे बहुवित्तव्ययेन प्रभावनां विधाय त्रयाणां ध्यानस्थैर्य ब्रह्मदाढयं देवकृतप्रशंसां वरप्रदानं च जनेषु प्रकटीकृत्य निजभायाँ गृहीत्वा स्वग्राम जगाम।"
एतदतिरिक्तं च न किमप्येषामितिहासप्रकाशकं प्रमाणमुपलभामहे । तथाप्येतेन एतत्तु निश्चीयते एव यदुत-एते टीकयितारः कुमारपालभूपालराज्ये हेमचन्द्रसूरिसमसामयिकाः समभूवन् । उपरिवर्णितकथानकसूचिता सिद्धान्तवृत्तिकरणवरप्राप्तिरपि न खल्वसम्भविनी, यतो दृश्यन्त एव बहवः सिद्धान्ततत्त्वनिरूपणप्रवणाः प्रवीणहृदयहारिणष्टीकाग्रन्था एतैर्निर्मिताः । तेषु चाद्ययावत् श्रुता दृग्गोचरीभूताश्चेमे परिकथ्यन्ते -
(१) आवश्यकवृत्तिः59 (२) ओघनियुक्तिवृत्तिः160 (३) कर्मप्रकृतिवृत्तिः1 (४) क्षेत्रसमासवृत्तिः162 (५) चन्द्रप्रज्ञप्तिवृत्तिः63 (६) . जीवाभिगमवृत्तिः14 (७) ज्यौतिषकरण्डकवृत्तिः15 (८) धर्मसंग्रहणीवृत्तिः166 (९) धर्मसारटीका' (१०) नन्दीबृहद्वृत्तिः168 (११) पञ्चसंग्रहवृत्तिः69 (१२) पिण्डनियुक्तिवृत्तिः० (१३) प्रज्ञापनावृत्तिः” (१४) बृहत्कल्पवृत्तिः (१५) भगवतीद्वितीयशतकवृत्तिः73 (१६) राजप्रश्नीयवृत्तिः74 (१७) विशेषावश्यकवृत्तिः175 (१८) व्यवहारवृत्तिः176 (१९) शब्दानुशासनं सवृत्ति” (२०) षडशीतिवृत्तिः73 (२१) संग्रहणीवृत्तिः179 (२२) सप्ततिकावृत्तिः10 (२३) सूर्यप्रज्ञप्तिवृत्तिः ।
एतदतिरिक्ता अप्यनेके श्रीमत्कृता ग्रन्था अविज्ञातनाम-धामानः प्रकटीभवेयुर्यदि नाम भवेद् गवेषणायासः । केचित्तु सूरीनिमान् एकादशाङ्गीवृत्तिकर्तृकतयाऽप्युदलिखन्, न चाऽत्र किमपि प्रमाणमिति जोषमास्यते ।
१५९. अनतिप्रसिद्धा, १८००० प्रमितश्लोका च १६०. सुलभा, ७५०० प्रमाणश्लोका च १६१. प्रसिद्धा, मुद्रिता च जैनधर्मप्रसारकसभया, इयं ८000 श्लोकसंकलिता १६२. जिनभद्रीयक्षेत्रसमासस्य विस्तृतविवरणस्पा, ७८८७ श्लोकमाना च १६३. प्रसिद्धा, ९५00 प्रमितश्लोका १६४. प्रसिद्धा मुद्रिता, १६०००-श्लोकप्रमाणा च १६५. ससूत्रायाः श्लोकसंख्या ५००० १६६. इयं प्रकाश्यमाना, एषा च नन्दीटीकानिर्माणात्पूर्वमेव जातरचना इति तत्कत्रैव नन्दीवृत्तौ-"अत्र बहु वक्तव्यं तच्च प्रायः प्रागेवोक्तमन्यत्र-धर्मसंग्रहणीटीकादाविति नोच्यते"-इति वचनेन सूचितम् । श्लोकमानं चास्याः ११००० १६७. धर्मसंग्रहणीटीकायामुपलभ्यमानेन-“यथा चाऽपुरुषार्थता अर्थकामयोस्तथा धर्मसारटीकायामभिहितमिति नेह प्रतायते"-इत्युल्लेखेन ज्ञातसद्भावा १६८. प्रसिद्धा मुद्रिता च, प्रमाणतश्च ७७३२ श्लोकात्मिका १६९. प्रसिद्धा मुद्रिता च, प्रमाणमस्याः १८८५० प्रमितश्लोकाः १७०. ६७०० संख्याक-श्लोका १७१. मुद्रिता, १४५०० संख्याकश्लोकपरिकलिता १७२. अस्याः ४२००० श्लोकमानायाः ४६०० श्लोकात्मकः पीठिकाभाग एव प्रकृतसूरिकर्तृकः, अग्रेतनस्तु तपाक्षेमकीर्तिपूरितः । तदाहुः क्षेमकीर्तिसूरयोप्येतट्टीकायाम्
___ "श्रीमलयगिरिप्रभवो यां कर्तुमुपाक्रमन्त मतिमन्तः । सा कल्पशास्त्रटीका मयाऽनुसंधीयतेऽल्पधिया ॥" . १७३. श्लोकसंख्या ३७५० १७४. मुद्रिता ३७०० श्लोकप्रमिता च, १७५. अस्याः श्लोकसंख्या ९००० प्रमाणा १७६. प्रसिद्धा, ३३६२५ संख्याकश्लोका च, १७७. इदं कैश्चित् "मुष्टिव्याकरणम्" इति नामापि व्यवहृतं दृश्यते, "मलयगिरिव्याकरणम्" इत्यपि च केचन व्याजहुः । “मलयगिरिप्रभृतिव्याकरणप्रणीतेन लक्षणेन संस्कारमापादितं वचनं संस्कृतम् ।" (बृहत्कल्पटीका) सवृत्तिकस्याऽस्य श्लोकमानं च ४३०० रूपम् १७८. प्रसिद्धा, २००० श्लोकप्रमाणा १७९. जिनभद्रीयबृहत्संग्रहण्या विस्तृतव्याख्यानरूपा, ५००० श्लोकप्रमिता च, १८०. इयमपि सुप्रसिद्धा मुद्रिता ३७८० श्लोकमाना च, १८१. प्रसिद्धा, ९००० श्लोकसंख्याका च ।