________________
एते च सूरयः प्रायः सर्वामपि स्वकृतिं "कुशल"-शब्देन समलमकार्षः । एतादृशानि च कतिचित् स्थलानीह निदर्शनतया निर्देष्टुमुचितानि - "एतामतिगम्भीरां कर्मप्रकृतिं विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाऽश्रुतां लोकः॥" इति कर्मप्रकृतिवृत्ती, "इममतिगम्भीरतरं क्षेत्रसमासं विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाऽश्रुतां लोकः॥" इति क्षेत्रसमासवृत्ती, "जीवाजीवाभिगमं विवृण्वताऽवापि मलयगिरिणेह । कुशलं तेन लभन्तां मुनयः सिद्धान्तसद्बोधम्॥" इति जीवाभिगमवृत्तौ, "विषमगभीरपदार्थों यदिमा व्याख्याय धर्मसंग्रहणिम् । मलयगिरिणाऽऽपि कुशलं सिद्धिं तेनाऽश्रुतां लोकः॥" इति धर्मसंग्रहणिवृत्ती, "बह्वर्थमल्पशब्दं नन्द्यध्ययनं विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाऽश्रुतां लोकः॥" इति नन्द्यध्ययनवृत्तौ, "इमां च पिण्डनियुक्तिमतिगम्भीरां विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाऽश्रुतां लोकः॥” इति पिण्डनियुक्तिवृत्तौ, "प्रकरणमेतद्विषमं सप्ततिकाख्यं विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाऽ श्रुतां लोकः॥" इति सप्ततिकावृत्तौ च । एतेषामपि सूरिप्रवराणामप्रतिमवैदुष्यप्रख्यापका अनेके विद्वत्प्रवादाः श्रूयन्ते । निदर्शनभूताः पुनरिमे -
__"आगमदुर्गमपदसंशयादितापो विलीयते विदुषाम् । यद्वचनचन्दनरसैमलयगिरिः स जयति यथार्थः॥" "शब्दानुशासनादिविश्वविद्यामयज्योतिःपुञ्जपरमाणुघटितमूर्तिभिः श्रीमलयगिरिमुनीन्द्रर्षिपादैविवरणकरणमुपचक्रमे"
(बृहत्कल्पटीकायां श्रीक्षेमकीर्तिसूरयः) "परं श्रीमलयगिरिपादै तद्विवक्षितं, द्वयोरपि वनखण्डयोरेकमेव मानमुक्तम् । तत्त्वं पुनर्बहुश्रुता विदन्ति।"
(जम्बूद्वीपसंग्रहणीटीकायां प्रभानन्दसूरयः) "जयति श्रीमलयगिरिर्यत्कृतविवरणबलेन सूत्रार्थम् । गुरुादितमिव व्यक्तं बुद्धयन्ते मन्दमतयोऽपि ॥३॥" __"यद्बाढं मूढधियाऽप्यदो विवरणं मया किमपि लिखितम् । तत्र सकलः प्रसादष्टीकाकारस्य मलयगिरेः ॥२॥ . मलयगिरिवचनचन्दनतर्वनुभावेन विवरणं होतत्। गौरवपदं भविष्यति निम्बकदम्बादितुल्यमपि ॥३॥"
___ (लघुक्षेत्रसमासविवरणे रत्नशेखरसूरयः) एवमेताभ्यां सूरिपुङ्गवाभ्यां रचितटीकितस्याऽस्य शास्त्रस्य योग्यतायां प्रामाणिकतायां च किमपि प्रमाणपरितर्कणं भानुमति चित्रभानूपयोगकल्पमेव प्रतिभायादिति परित्यज्ये तद्विषया चर्चा । अत्र ग्रन्थकृता विविधयुक्तिकल्पनाप्रमाणैर्निम्नलिखिता विषयाः सविस्तरं समुपवर्णिताः__"नमिऊण वीयरागं" इत्यतः समारभ्य पञ्चत्रिंशता गाथाभिर्मङ्गलपूर्वकममिधेयप्रयोजनाद्युपवर्णनमुपादायि ।
"जीवो उ नत्थि केई" ३६ इति गाथामादाय १५८ तमी यावत् त्रयोविंशत्यधिकेन गाथाशतकेन चार्वाकाऽपरपर्यायाणां भौतिकपुरुषवादिनां मतं समीक्ष्य तन्निराकरणपूर्वकं 'जीवसत्ता' प्रसाधिता ।
"जम्हा ण कित्तिमो सो" १५९ इमां गाथामुपक्रम्य १९१ तमीपर्यन्ताभिस्त्रयस्त्रिंशता गाथाभिर्जीवस्य 'अनादिनिधनत्वम्' उपपादितम्। "कम्मविमुक्कसरूवो" १९२ इत्यादिगाथायुगलेन तस्य 'अमूर्तत्वम्' अभिहितम् । "परिणामी खलु जीवो" १९४ इत्येतामारभ्य ४७५ तमी यावद् व्यशीत्यधिकगाथाद्विशत्या तस्य 'परिणामित्वम्' संसाधितम् । "णाता संवित्तीउ" ४७६ इतीमामुपादाय ५४५ यावत् सप्तत्या गाथाभिरात्मनो 'ज्ञायकत्वम्' समर्थितम् । "कत्त त्ति दारमहुणा" ५४६ इत्यतः प्रक्रम्य पञ्चत्रिंशता गाथाभिस्तस्य 'कर्तृत्वम्' समुपपादितम् । "भोत्ता सकडफलस्स य" ५८१ एतामारभ्य ६०५ पर्यन्तया गाथापञ्चविंशत्या 'भोक्तृत्वम्' प्रसाधितम् । "नाणादिपरिणति." ६०६ इत्यादितः ७४८ यावत् त्रिचत्वारिंशदधिकगाथाशतेन जीव-कर्मणोः संयोगसिद्धिरुपपादिता । "सम्मत्त-नाण-चरणा" ७४९ इत्यतः ११३७ पर्यन्तया एकोननवत्यधिकया गाथात्रिशत्या भावधर्मः प्ररूपितः ।
"चोएति कहं रागादि." ११३८ इत्येतामादीकृत्य १३७५ यावद् अष्टत्रिंशदधिकेन गाथानां शतकद्वयेन 'वीतराग-सर्वज्ञसिद्धी' व्युत्पादिते ।
"काऊण इमं धम्म" १३७६ इमां गाथामुपक्रम्य १३९६ तमी यावद् एकविंशत्या गाथाभिः पूर्वप्रतिपादितस्य भावधर्मस्य फलनिर्वचनपुरःसरं प्रकरणमिदं परिसमाप्ति प्रापितम् ।
निर्दिष्टविषयेषु चानेकेऽवान्तरविषयाः प्रचर्चिताः प्रसाधिताच, तदर्थं च पृथगुपन्यस्तो विस्तृतविषयानुक्रमो विलोकनीयः । - एतत्संशोधनक्रियायां च कृतेऽपि विशेष प्रयत्ने पुस्तकद्वयमेव समासादितम् । प्रथमं श्रीमदुपाध्यायश्रीवीरविजयपादानां ज्ञानभाण्डागारसंबन्धि, १९५५ वर्षे लिखितम्, २३४ पत्रात्मकं शुद्धप्रायं च । इदमत्र 'क' संज्ञया व्यवहृतम् । द्वितीयं च श्रीमतां हंसविजयमुनिवराणां भाण्डागारीयं १९४७ तमे विक्रमवर्षे लिखितं ३१४ पत्रमयमशुद्धप्रायं च । एतच्च 'ख' संज्ञया निर्दिष्टम् । अन्यदपि
20