Book Title: Dharm Sangrahani Part 02
Author(s): Ajitshekharsuri
Publisher: Adinath Jain Shwetambar Jain Mandir Trust

Previous | Next

Page 29
________________ (२७) दर्शनसप्ततिका' (२८) दशवैकालिकलघुवृत्तिः (२९) दशवैकालिकबृहद्वृत्तिः १ (३०) दिनशुद्धिः०० (३१) देवेन्द्रनरेन्द्रप्रकरणम्।। (३२) द्विजवदनचपेटा (३३) धर्मबिन्दुः (३४) धर्मलाभसिद्धिः (३५) धर्मसंग्रहणी (३६) धर्मसार: (३७) धूर्ताख्यानम् (३८) ध्यानशतकवृत्तिः (३९) नन्द्यध्ययनटीका' (४०) नानाचित्रप्रकरणम् (४१) न्यायप्रवेशकटीका' (शिष्यहिता) (४२) न्यायविनिश्चयः (४३) न्यायावतारवृत्तिः (४४) पंचनियंठी (४५) पञ्चलिङ्गी' (४६) पञ्चवस्तुकप्रकरणं स्वोपज्ञटीकासहितम् (४७) पञ्चसूत्रविवरणम्" (४८) पञ्चस्थानकम् (४९) पञ्चाशकम्” (५०) परलोकसिद्धि:०० (५१) पिण्डनियुक्तिवृत्तिः (५२) प्रज्ञापनाप्रदेशव्याख्या २ (५३) प्रतिष्ठाकल्प:3 (५४) बृहन्मिथ्यात्वमथनम् (५५) मुनिपतिचरित्रम् (५७) गणधरसार्धशतकवृत्त्यादावस्याः समुल्लेखः, 'सम्यक्त्वसप्ततिः'-या संघतिलकसूरिभिष्टीकया विभूषिता-इतो विभिन्ना इयमेव वा पर्यायनामा इत्यनिर्णीतमद्यापि (५८) इयमवचूरिस्पा सुप्रसिद्धा एव (५९) इयमपि नाऽप्रसिद्धा (६०) हेमहंसगणिभिः आरम्भसिद्धिवार्तिके "विशेषस्तु “सोलस १६ ड ८ दसण ३२ इग १ च ४ चोसट्ठी ६४ अद्धपहरमज्झपला । जत्ताइसु अइअहमा पुव्वाई छ? छ? दिसिं ॥" इति दिनशुद्धौ" -इत्यादावसकृत् स्मृतापि न क्वापि कर्तृनामग्राहं निर्दिष्टा, तथापि परम्परया श्रुतमस्या हरिभद्रकृतकत्वं सत्यं संभाव्यात्र समुपन्यस्ता (६१) इदं प्राकृतगाथाबद्धं प्रकरणं मुनिचन्द्रसूरिभिष्टीकितम् (६२) इयं पण्डितक्लत्तकृतजैननामसंग्रहे स्मृता (६३) प्रसिद्धोऽयं ग्रन्थः अस्य च मुनिचन्द्रसूरिभिरेका टीकापि प्राणायि (६४) सुमतिगणिना पण्डितवेबरेण च स्वस्वपुस्तकेषु स्मृतमिदं नाम (६५) अयमेव ग्रन्थः (६६) एतमेवान्ये "धर्मसारमूलटीका" इत्याख्यया व्यवहरन्ति । क्लत्तपण्डितेन "धर्मसारमालटीका' इत्युदलिखत् । अस्माभिस्तु धर्मसंग्रहणीटीकायाः-"यथा चापुरुषार्थता अर्थकामयोस्तथा धर्मसारटीकायामभिहितमतो नेह प्रतायते"-इत्युल्लेखेन धर्मसार एव हरिभद्रकर्तृकः, तट्टीका तु मलयगिरिसूरिकृता इति विभाव्य तथैवात्र समुल्लिखितम् । इदंनामक एव कोऽपि ग्रन्थः श्रीमता मलधारिदेवप्रभसूरिणापि निर्मितः यं राजशेखरसूरयः स्वन्यायकन्दलीवृत्तिप्रान्तोपनिबद्धेन “तत्क्रमिको देवप्रभसूरिः किल पाण्डवायनचरित्रम् । श्रीधर्मसारशास्त्रं च निर्ममे सुकविकुलतिलकः ॥१,३॥" -इति पद्येन संसूचयन्ति स्म । (६७) धूर्तानां कथानकद्वारेण पुराणादीनामसम्बद्धवाचकत्वप्रदर्शकमिदं प्राकृतभाषामयमाख्यानम् (६८) प्रतिकमणविधिप्रकाशे हरिभद्रसूरिकर्तृकेयमिति निर्दिष्टा (६९) गणधरसार्धशतकवृत्तावियं हारिभद्रीयटीकाग्रन्थेषु परिगणिता । मलयगिरिपादा अप्यस्याः कर्तृत्वेन हरिभद्रसूरीननेन श्लोकेनोपश्लोकयन्ति नन्दीटीकाप्रान्ते, यथा "मध्येसमस्तभूपीठं यशो यस्याभिवर्धते । तस्मै श्रीहरिभद्राय नमष्टीकात्धिायिने ॥" (७०) इदं प्राकृतगाथानिबद्धं प्रकरणं संक्षेपतोऽपि सरसशैल्या धर्मतत्त्वं प्रतिपादयति । "नाणाचित्ते लोए" इत्यादिप्रारम्भे 'नानाचित्र'-शब्दविन्यासाच प्रकरणमपि 'नानाचित्र 'मिति ख्यातम् । इदमेव केचन 'ज्ञानादित्य नामा अपरे च 'नानाचित्रिका'शब्देन व्यवहरन्ति (७१) दिग्नागाचार्यरचितस्य बौद्धमताभिमतप्रमाणादिपदार्थनिरूपकस्याऽस्य न्यायप्रवेशकनामो ग्रन्थस्य टीकैव हरिभद्रसूरिकर्तृका न मूलमपि, तथा च तदादौ-न्यायप्रवेशशास्त्रस्य सद्वृत्तेरिह पञ्जिका । स्वपरार्थ दृब्धा स्पष्टा पार्श्वदेवगणिनाम्ना ॥१॥ गृह-रस-स्ट्रैर्युक्ते विक्रमसंवत्सरे तु(नु) राधायाम् । कृष्णायां च नवम्यां फाल्गुनमासस्य निष्पन्ना ॥२॥ इति वृत्तद्वयेन प्रतिपादितवान् (७२) धर्मबिन्दुनुवादकेन परिगणितः (७३) प्रबन्धकोशे धर्मबिन्दुगूर्जरप्रस्तावनायां च निर्दिष्टनामा (७४) पण्डितहरगोविन्ददासेन हरिभद्रसूरिचरित्रे परिगृहीता (७५) प्रबन्धकोशे सूचितनामा (७६) प्रसिद्धतरमिदं सटीकमपि प्रकरणम् । पण्डितहरगोविन्ददासस्तु हरिभद्रचरित्रे पञ्चसंग्रहमपि हरिभद्रसूरिकृतकत्वेनेहोपदर्शितवान्।अथ च “पञ्चसंग्रहस्य शतक १ सप्ततिका २ कषायप्राभृत ३ सत्कर्म ४ कर्मप्रकृति ५ संग्रहात्मकस्य वृत्तिः सूत्रकारचन्द्रर्षिकृता पत्तनं विना न" इत्यादिना प्राचीनसूचीपत्रोल्लेखेन प्रसिद्धया च चन्द्रर्षिमहत्तरकृत एव स इत्यभिप्रेति नश्चेतः । हरिभद्रकर्तृकत्वे तु न किमपि प्रमाणोपदर्शनमिति नात्रोदलेखि (७७) पापप्रतिघातगुणबीजाधान १ साधुधर्मपरिभावना २ प्रव्रज्याग्रहणविधि ३ प्रव्रज्यापरिपालना ४ प्रव्रज्याफल ५ सूत्रात्मकस्यास्य ग्रन्थस्य विवरणमेव हरिभद्रसूरिभिः कृतं न तु मूलमपि । “कृतं चिरन्तनाचार्यः, विवृतं च याकिनीमहत्तरासूनुश्रीहरिभद्राचार्यः" इति प्रान्तलेखेन स्पष्टमेव मूलग्रन्थस्याऽन्यचिरन्तनाचार्यकृतकत्वाभिधानात् (७८) हर्षनन्दनगणिकृतस्य मध्याह्नव्याख्यानस्य-“अन्यैः श्रीहरिभद्रप्रमुखैादशधाऽयमुक्तः श्रीपञ्चस्थानके “उक्कोस सट्टि पन्ना चत्ता तीसा दसट्ठ पण दसगं । दस नव तिट्ठ एगद्धं च जिणुग्गहं बारसविभेयं ॥" -इत्युल्लेखात् हरिभद्रकर्तृकतया संभाव्यमानम् (७९) अस्य टीकापि नवाङ्गवृत्तिकारैरभयदेवसूरिभिर्व्यरचि, तद्रचनाकालादिकं तु पूर्वमेवोल्लिखितम् । दीक्षाविधि-चैत्यवन्दनविधि-पूजापञ्चाशकादीनि चास्यैवावयवभूतानीति न पृथग् गण्यन्ते । एकोनविंशतिपञ्चाशकात्मकस्याऽस्य ग्रन्थस्य श्रावकधर्मविधिनामः प्रथमपञ्चाशकस्य चूर्णिरपि यशोदेवसूरिकृतोपलभ्यते, तद्विधानसमयादिकं तत्कर्तव तदन्ते एवमुपन्यास्थत् ___ "मंदमईण हियत्थं एसा चुन्नी समुद्धिया सुगमा । सिरिचंदकुलनहंगणमयंकसिरिचंदसूरीणं ॥२। सिरिवीरगणिमुणीसरबंधुरसिद्धंतसिंधुसिस्साणं । अंही निसिवमाणेहि सिरिमज्जसएवसूरीहिं ॥३॥ नयण-मुणि-थाणुमाणे काले विगयम्मि विक्कमनिवाओ । संपियाय (संसोहिया य) एसा विबुहेहि समयनिउणेहिं ॥४॥" (८०) क्लत्तस्य जैननामसंग्रहे वेबरस्य पुस्तके गणधरसार्धशतकवृत्तौ च निर्दिष्टैषा (८१) इमां स्थापनाख्यदोषविवरणपर्यन्तां निर्माय देवभूयमाप्तेषु हरिभद्रसूरिषु वीराचार्यनामानः केचनाचार्यव-स्तत्परिपूर्तिमकार्षः, तदिदमनेन वीरगणिविहितपिण्डनियुक्तिटीकायाः प्रारम्भपद्येन स्फुटीभवति, तथाहि “पञ्चाशकादिशास्त्रव्यूहप्रविधायका विवृतिमस्याः । आरेभिरे विधातुं पूर्व हरिभद्रसूरिवराः ॥ ते स्थापनाख्यदोषं यावद्विवृतिं विधाय दिवमगमन् । तदुपरितनी तु कैश्चिद् वीराचार्यैः समाप्येषा ॥" (८२) मलयगिरिसूरिभिरपि प्रज्ञापनावृत्ती ___ "जयति हरिभद्रसूरिष्टीकाकृद्विवृतविषमभावार्थः । यद्वचनवशादहमपि जातो लेशेन वृत्तिकरः ॥" -इति पद्येन एतद्वयाख्याविधायित्वेन बहुमन्यन्ते स्म हरिभद्रसूरयः (८३) पं. वेबरस्य कार्यविवरणपुस्तके क्लत्तनामसंगृहे चाऽयं हरिभद्रकृतितयोपन्यस्तः (८४) गणधरसार्धशतकवृत्त्यादौ परिगाणितमिदम् (८५) क्लत्तपण्डितस्य नामसंग्रहे पिटर्सनकार्यविवरणपुस्तकादौ चेदं हरिभद्रकर्तृकतयोपसंख्यातम् । जैनग्रन्थावल्यां तु ६४४ गाथात्मकं चरितमिदं ११७२ तमे विक्रमवर्षे द्वितीयहरिभद्रसूरिभिर्विरचितमिति स्पष्टमेवोल्लिखितम् । 9

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 ... 392