________________
(२७) दर्शनसप्ततिका' (२८) दशवैकालिकलघुवृत्तिः (२९) दशवैकालिकबृहद्वृत्तिः १ (३०) दिनशुद्धिः०० (३१) देवेन्द्रनरेन्द्रप्रकरणम्।। (३२) द्विजवदनचपेटा (३३) धर्मबिन्दुः (३४) धर्मलाभसिद्धिः (३५) धर्मसंग्रहणी (३६) धर्मसार: (३७) धूर्ताख्यानम् (३८) ध्यानशतकवृत्तिः (३९) नन्द्यध्ययनटीका' (४०) नानाचित्रप्रकरणम् (४१) न्यायप्रवेशकटीका' (शिष्यहिता) (४२) न्यायविनिश्चयः (४३) न्यायावतारवृत्तिः (४४) पंचनियंठी (४५) पञ्चलिङ्गी' (४६) पञ्चवस्तुकप्रकरणं स्वोपज्ञटीकासहितम् (४७) पञ्चसूत्रविवरणम्" (४८) पञ्चस्थानकम् (४९) पञ्चाशकम्” (५०) परलोकसिद्धि:०० (५१) पिण्डनियुक्तिवृत्तिः (५२) प्रज्ञापनाप्रदेशव्याख्या २ (५३) प्रतिष्ठाकल्प:3 (५४) बृहन्मिथ्यात्वमथनम् (५५) मुनिपतिचरित्रम् (५७) गणधरसार्धशतकवृत्त्यादावस्याः समुल्लेखः, 'सम्यक्त्वसप्ततिः'-या संघतिलकसूरिभिष्टीकया विभूषिता-इतो विभिन्ना इयमेव वा पर्यायनामा इत्यनिर्णीतमद्यापि (५८) इयमवचूरिस्पा सुप्रसिद्धा एव (५९) इयमपि नाऽप्रसिद्धा (६०) हेमहंसगणिभिः आरम्भसिद्धिवार्तिके "विशेषस्तु
“सोलस १६ ड ८ दसण ३२ इग १ च ४ चोसट्ठी ६४ अद्धपहरमज्झपला ।
जत्ताइसु अइअहमा पुव्वाई छ? छ? दिसिं ॥" इति दिनशुद्धौ" -इत्यादावसकृत् स्मृतापि न क्वापि कर्तृनामग्राहं निर्दिष्टा, तथापि परम्परया श्रुतमस्या हरिभद्रकृतकत्वं सत्यं संभाव्यात्र समुपन्यस्ता (६१) इदं प्राकृतगाथाबद्धं प्रकरणं मुनिचन्द्रसूरिभिष्टीकितम् (६२) इयं पण्डितक्लत्तकृतजैननामसंग्रहे स्मृता (६३) प्रसिद्धोऽयं ग्रन्थः अस्य च मुनिचन्द्रसूरिभिरेका टीकापि प्राणायि (६४) सुमतिगणिना पण्डितवेबरेण च स्वस्वपुस्तकेषु स्मृतमिदं नाम (६५) अयमेव ग्रन्थः (६६) एतमेवान्ये "धर्मसारमूलटीका" इत्याख्यया व्यवहरन्ति । क्लत्तपण्डितेन "धर्मसारमालटीका' इत्युदलिखत् । अस्माभिस्तु धर्मसंग्रहणीटीकायाः-"यथा चापुरुषार्थता अर्थकामयोस्तथा धर्मसारटीकायामभिहितमतो नेह प्रतायते"-इत्युल्लेखेन धर्मसार एव हरिभद्रकर्तृकः, तट्टीका तु मलयगिरिसूरिकृता इति विभाव्य तथैवात्र समुल्लिखितम् । इदंनामक एव कोऽपि ग्रन्थः श्रीमता मलधारिदेवप्रभसूरिणापि निर्मितः यं राजशेखरसूरयः स्वन्यायकन्दलीवृत्तिप्रान्तोपनिबद्धेन
“तत्क्रमिको देवप्रभसूरिः किल पाण्डवायनचरित्रम् । श्रीधर्मसारशास्त्रं च निर्ममे सुकविकुलतिलकः ॥१,३॥" -इति पद्येन संसूचयन्ति स्म । (६७) धूर्तानां कथानकद्वारेण पुराणादीनामसम्बद्धवाचकत्वप्रदर्शकमिदं प्राकृतभाषामयमाख्यानम् (६८) प्रतिकमणविधिप्रकाशे हरिभद्रसूरिकर्तृकेयमिति निर्दिष्टा (६९) गणधरसार्धशतकवृत्तावियं हारिभद्रीयटीकाग्रन्थेषु परिगणिता । मलयगिरिपादा अप्यस्याः कर्तृत्वेन हरिभद्रसूरीननेन श्लोकेनोपश्लोकयन्ति नन्दीटीकाप्रान्ते, यथा
"मध्येसमस्तभूपीठं यशो यस्याभिवर्धते । तस्मै श्रीहरिभद्राय नमष्टीकात्धिायिने ॥" (७०) इदं प्राकृतगाथानिबद्धं प्रकरणं संक्षेपतोऽपि सरसशैल्या धर्मतत्त्वं प्रतिपादयति । "नाणाचित्ते लोए" इत्यादिप्रारम्भे 'नानाचित्र'-शब्दविन्यासाच प्रकरणमपि 'नानाचित्र 'मिति ख्यातम् । इदमेव केचन 'ज्ञानादित्य नामा अपरे च 'नानाचित्रिका'शब्देन व्यवहरन्ति (७१) दिग्नागाचार्यरचितस्य बौद्धमताभिमतप्रमाणादिपदार्थनिरूपकस्याऽस्य न्यायप्रवेशकनामो ग्रन्थस्य टीकैव हरिभद्रसूरिकर्तृका न मूलमपि, तथा च तदादौ-न्यायप्रवेशशास्त्रस्य सद्वृत्तेरिह पञ्जिका । स्वपरार्थ दृब्धा स्पष्टा पार्श्वदेवगणिनाम्ना ॥१॥ गृह-रस-स्ट्रैर्युक्ते विक्रमसंवत्सरे तु(नु) राधायाम् । कृष्णायां च नवम्यां फाल्गुनमासस्य निष्पन्ना ॥२॥ इति वृत्तद्वयेन प्रतिपादितवान् (७२) धर्मबिन्दुनुवादकेन परिगणितः (७३) प्रबन्धकोशे धर्मबिन्दुगूर्जरप्रस्तावनायां च निर्दिष्टनामा (७४) पण्डितहरगोविन्ददासेन हरिभद्रसूरिचरित्रे परिगृहीता (७५) प्रबन्धकोशे सूचितनामा (७६) प्रसिद्धतरमिदं सटीकमपि प्रकरणम् । पण्डितहरगोविन्ददासस्तु हरिभद्रचरित्रे पञ्चसंग्रहमपि हरिभद्रसूरिकृतकत्वेनेहोपदर्शितवान्।अथ च “पञ्चसंग्रहस्य शतक १ सप्ततिका २ कषायप्राभृत ३ सत्कर्म ४ कर्मप्रकृति ५ संग्रहात्मकस्य वृत्तिः सूत्रकारचन्द्रर्षिकृता पत्तनं विना न" इत्यादिना प्राचीनसूचीपत्रोल्लेखेन प्रसिद्धया च चन्द्रर्षिमहत्तरकृत एव स इत्यभिप्रेति नश्चेतः । हरिभद्रकर्तृकत्वे तु न किमपि प्रमाणोपदर्शनमिति नात्रोदलेखि (७७) पापप्रतिघातगुणबीजाधान १ साधुधर्मपरिभावना २ प्रव्रज्याग्रहणविधि ३ प्रव्रज्यापरिपालना ४ प्रव्रज्याफल ५ सूत्रात्मकस्यास्य ग्रन्थस्य विवरणमेव हरिभद्रसूरिभिः कृतं न तु मूलमपि । “कृतं चिरन्तनाचार्यः, विवृतं च याकिनीमहत्तरासूनुश्रीहरिभद्राचार्यः" इति प्रान्तलेखेन स्पष्टमेव मूलग्रन्थस्याऽन्यचिरन्तनाचार्यकृतकत्वाभिधानात् (७८) हर्षनन्दनगणिकृतस्य मध्याह्नव्याख्यानस्य-“अन्यैः श्रीहरिभद्रप्रमुखैादशधाऽयमुक्तः श्रीपञ्चस्थानके
“उक्कोस सट्टि पन्ना चत्ता तीसा दसट्ठ पण दसगं । दस नव तिट्ठ एगद्धं च जिणुग्गहं बारसविभेयं ॥" -इत्युल्लेखात् हरिभद्रकर्तृकतया संभाव्यमानम् (७९) अस्य टीकापि नवाङ्गवृत्तिकारैरभयदेवसूरिभिर्व्यरचि, तद्रचनाकालादिकं तु पूर्वमेवोल्लिखितम् । दीक्षाविधि-चैत्यवन्दनविधि-पूजापञ्चाशकादीनि चास्यैवावयवभूतानीति न पृथग् गण्यन्ते । एकोनविंशतिपञ्चाशकात्मकस्याऽस्य ग्रन्थस्य श्रावकधर्मविधिनामः प्रथमपञ्चाशकस्य चूर्णिरपि यशोदेवसूरिकृतोपलभ्यते, तद्विधानसमयादिकं तत्कर्तव तदन्ते एवमुपन्यास्थत्
___ "मंदमईण हियत्थं एसा चुन्नी समुद्धिया सुगमा । सिरिचंदकुलनहंगणमयंकसिरिचंदसूरीणं ॥२।
सिरिवीरगणिमुणीसरबंधुरसिद्धंतसिंधुसिस्साणं । अंही निसिवमाणेहि सिरिमज्जसएवसूरीहिं ॥३॥
नयण-मुणि-थाणुमाणे काले विगयम्मि विक्कमनिवाओ । संपियाय (संसोहिया य) एसा विबुहेहि समयनिउणेहिं ॥४॥" (८०) क्लत्तस्य जैननामसंग्रहे वेबरस्य पुस्तके गणधरसार्धशतकवृत्तौ च निर्दिष्टैषा (८१) इमां स्थापनाख्यदोषविवरणपर्यन्तां निर्माय देवभूयमाप्तेषु हरिभद्रसूरिषु वीराचार्यनामानः केचनाचार्यव-स्तत्परिपूर्तिमकार्षः, तदिदमनेन वीरगणिविहितपिण्डनियुक्तिटीकायाः प्रारम्भपद्येन स्फुटीभवति, तथाहि
“पञ्चाशकादिशास्त्रव्यूहप्रविधायका विवृतिमस्याः । आरेभिरे विधातुं पूर्व हरिभद्रसूरिवराः ॥
ते स्थापनाख्यदोषं यावद्विवृतिं विधाय दिवमगमन् । तदुपरितनी तु कैश्चिद् वीराचार्यैः समाप्येषा ॥" (८२) मलयगिरिसूरिभिरपि प्रज्ञापनावृत्ती
___ "जयति हरिभद्रसूरिष्टीकाकृद्विवृतविषमभावार्थः । यद्वचनवशादहमपि जातो लेशेन वृत्तिकरः ॥" -इति पद्येन एतद्वयाख्याविधायित्वेन बहुमन्यन्ते स्म हरिभद्रसूरयः (८३) पं. वेबरस्य कार्यविवरणपुस्तके क्लत्तनामसंगृहे चाऽयं हरिभद्रकृतितयोपन्यस्तः (८४) गणधरसार्धशतकवृत्त्यादौ परिगाणितमिदम् (८५) क्लत्तपण्डितस्य नामसंग्रहे पिटर्सनकार्यविवरणपुस्तकादौ चेदं हरिभद्रकर्तृकतयोपसंख्यातम् । जैनग्रन्थावल्यां तु ६४४ गाथात्मकं चरितमिदं ११७२ तमे विक्रमवर्षे द्वितीयहरिभद्रसूरिभिर्विरचितमिति स्पष्टमेवोल्लिखितम् ।
9