SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ तमेवं विपुलसंख्याकं ग्रन्थन्त्रप्रकरं विरचय्य एतैः सूरिवरैः सुतरामेवोन्नतिं प्रापितोऽयं जैनशास्त्ररत्नाकरः, परमुपकृताश्च जैनास्तदितरे च विद्वांस इति मुहुर्मुहुरावेदनीयं स्यात् । __ अथेयतां ग्रन्थरत्नानां किमद्यावधि विद्यते निरुपहता सत्ता? इति प्रश्रस्तु सत्यमेवास्महृदये कण्टकायते॥ हन्त ! नैतावत्संख्यान्ग्रन्थानद्य द्रष्टुं लभेमहि, नवा सर्वेषां नामान्यपि निशमयितुमीशाते श्रुती! तथापि येऽद्ययावद् दृष्टाः श्रुतिपथं वाऽऽयातास्त इह नामग्राहमुद्दिशामः तथाहि [१] अनुयोगद्वारलघुवृत्तिः" (२) अनेकान्तजयपताका स्वोपज्ञटीकासहिता" (३) अनेकान्तप्रघट्ट (४) अनेकान्तवादप्रवेश* (५) अर्हच्छीचूडामणि: (अर्हच्चूडामणिः) (६) अष्टकप्रकरणम् (७) आवश्यकटीका" (लघ्वी शिष्यहिता नाम द्वाविंशतिश्लोकसहसप्रमाणा) (८) आवश्यकबृहट्टीका" (चतुरशीतिसहसश्लोकमाना) (९) उपदेशपदानि" (१०) उपदेशप्रकरणम् (११) ओघनियुक्तिवृत्तिः" (१२) कथाकोशः (१३) कर्मस्तववृत्तिः (१४) कुलकानि" (१५) क्षमावल्लीबीजम् (१६) क्षेत्रसमासवृत्तिः (१७) चैत्यवन्दनभाष्यम्" (संस्कृतम्) (१८) चैत्यवन्दवृत्तिः (१९) जम्बूद्वीपप्रज्ञप्तिटीका" (२०) जम्बूद्वीपसंग्रहणी० (२१) जीवाभिगमलघुवृत्तिः। (२२) ज्ञानपञ्चकविवरणम् (२३) तत्त्वतरङ्गिणी (२४) तत्त्वार्थलघुवृत्तिः (२५) त्रिभङ्गीसारः (२६) दर्शनशुद्धिप्रकरणम् (३१) गणधरसार्धशतकवृत्तौ जैनग्रन्थावल्यां च निर्दिष्टनामेयम् । 'लघु' इति विशेषणं पुनर्गणधरसार्द्धशतकवृत्तौ नोपात्तम् (३२) मुद्रितेयं मूलरूपा संपूर्णा, सटीका च यशोविजयग्रन्थमालायामंशस्पा (३३) धर्मबिन्दुभाषान्तरकारेण लिखितनामाऽयम् (३४) षड्दर्शनसमुच्चयटीकायां चतुर्थाधिकारप्रान्ते जैनन्यायग्रन्थगणनायामयमपि गुणरत्नसूरिभिः परिगणितः (३५) सुमतिगणिना गणधरसार्धशतकवृत्तौ हारिभद्रीयग्रन्थेषु निर्दिष्टमिदं नाम (३६) अस्योपरि १०८० मिते विक्रमकाले मस्देशान्तर्गतजावालिपुर-(जालोरः) स्थितैर्जिनेश्वरसूरिभिष्टीका विरचिता, तथा च तत्प्रशस्तौ___ "पादाम्भोजद्विरेफेण श्रीजिनेश्वरसूरिणा । अष्टकानां कृता वृत्तिः सत्त्वानुग्रहहेतवे ॥३॥ समानामधिकेऽशीत्या सहने विक्रमाद् गते । श्रीजावालिपुरे रम्ये वृत्तिरेषा समापिता ॥४॥" (३७) इयमागमोदयसमितिप्रबन्धेन मुद्रयितुमारब्धा । अस्या लघुवृत्तित्वं तु "यद्यपि मया तथान्यैः कृतास्य विवृतिस्तथापि संक्षेपात् । तद्रुचिसत्त्वानुग्रहहेतोः क्रियते प्रयासोऽयम् ॥" -इत्यनेन, “गमनिकामात्रत्वादस्य प्रयासस्य" "गमनिकामात्रमेतद्" इत्यादिकैश्चैतत्कर्तृवाक्यैरेव संसिद्धम् (३८) अस्याः सद्भावस्तु “यद्यपि मया तथान्यैः" इत्येतेन पद्येन स्पष्टमेवोन्नीयते । अञ्चलगच्छपट्टावल्याः- "आवश्यकबृहद्वृत्तिः ८४००० सहस्रकर्ता २२ सहस्रीकर्ता च"-इत्युल्लेखः, समयसुन्दरोपाध्यायकृतसामाचारीशतकम्, मलधारिहेमसूरिकृतावश्यकटिप्पनकम् इत्यादीन्यपि एतत्साधकप्रमाणान्यनुसरणीयानि । "व्यासार्थस्तु विशेषविवरणतोऽवगन्तव्य." इति द्वाविंशतिसहस्रीवचनत एवेयं "विशेषविवरणाख्या" इत्यनुमीयते (३९) अस्य प्राकृतगाथामयस्य ग्रन्थस्य मुनिचन्द्रसूरिकृता टीकाप्युपलभ्यते, तत्पूर्वतनैरपि कैश्चिदाचारस्य वृत्तिररचीत्यपि टीकान्तर्गतेनामुना काव्येन निर्धार्यते "पूर्वैर्यद्यपि कल्पितेह गहना वृत्तिः समस्त्यल्पधीर्लोकः कालबलेन तां स्फुटतया बोद्धुं यतो न क्षमः । तत्तस्योपकृतिं विधातुमनघां तस्यापि तत्त्वानुगां प्रीतिं संजनितुं सुबोधवचनो यनोऽयमास्थीयते ॥" जैनग्रन्थावल्यां तु वर्धमानसूरिकृताप्येतद्वृत्तिसल्लिखिता (४०) चतुर्थस्तुतिनिर्णयशोद्धारनानि पुस्तके हरिभद्रकर्तृकतया निर्दिष्टमिदम् । प्रमाणरहितश्चायं निर्देशो न विश्वसनीयतामासादयति (४१) गणधरसार्धशतकवृत्तौ निर्दिष्टाभिधाना (४२) अयं गणधरसार्धशतकवृत्तौ सुमतिगणिना हारिभद्रीयग्रन्थेषु दर्शितः (४३) इयं धर्मबिन्दुभाषान्तरकृता स्वपुस्तके समुपन्यस्ता । पट्टनीयभाण्डागारविशेषस्य लिखितसूच्यां तु जिनदेवशिष्यहरिभद्रसूरेः कृतिरियमित्यसूचि (४४) पट्टनभाण्डागारस्य लिखितसूचीपत्रे प्रकृतहरिभद्रकर्तृकतया समुल्लिखितमिदं नाम इतिभाण्डारकरकार्यविवरणपुस्तके (४५) "एतच्चराजशेखरसूरि प्रबन्धकोशे हरिभद्रप्रबन्धे "समरादित्यचरित्रं नव्यं क्षमावल्लीबीजं कृतम्" इत्युल्लेखे 'क्षमावल्लीबीजम्' इति समरादित्यचरित्रस्य क्रोधदारुणोदव्यावर्णनेन क्षान्तिवल्लरीबीजकल्पतया रूपकगमं विशेषणमनवबुध्यमानेन धर्मबिन्दुनुवादकेन पृथग् ग्रन्थरूपेण तत्र परिगणितमिति संभाव्यते"-इति हरिभद्रचरित्रटिप्पण्याम् । (४६) गणधरसार्धशतकवृत्तौ क्लत्ताभिधपण्डितेन जर्मनभाषायां विरचिते जैननामसंग्रहे वेबरपुस्तकादौ च निर्दिष्टेयम् । (४७) गणधरसार्धशतकवृत्तौ क्लत्तस्य जैनग्रन्थनामसंग्रहे च परिगणितमिदम् (४८) सैवेयं "ललितविस्तरा" इत्याख्यया प्रसिद्धिमती, इमामेव प्रवाच्य सिद्धर्षिः सुगतमतवासनां प्रहाय जैनप्रवचने दृढ श्रद्धोऽभूत् । यदाह स एव स्वोपमितिभवप्रपञ्चाकथायाः प्रान्ते "आचार्यहरिभद्रो मे धर्मबोधकरो गुरुः । प्रस्तावे भावतो हन्त स एवाद्ये निवेदितः ॥१५॥ विषं विनिर्धूय कुवासनामयं व्यरीरचद् यः कृपया मदाशये । अचिन्त्यवीर्येण सुवासनासुधां, नमोऽस्तु तस्मै हरिभद्रसूरये ॥१६॥ अनागतां परिज्ञाय चैत्यवन्दनसंश्रया । मदथैव कृता येन वृत्तिललितविस्तरा ॥१७॥" इयं च मुनिचन्द्रसूरिभिः पञ्जिकया विभूषिता (४९) धर्मबिन्दुनुवादकेन प्रदर्शितनामा (40) इयं जम्बूद्वीपान्तर्गतशाश्वतपदार्थप्रतिपादनपरा त्रिशदाथाप्रमाणा च । क्वचित्तु द्वादशाधिकशतगाथात्मिकाऽपीयमुल्लिखिता । १३९० तमे वैक्रमवर्षे प्रभानन्दसूरिभिरेतस्याष्टीकापि व्यरचि, यतस्तत्प्रान्ते ___ “वित्ते श्रीकृष्णगच्छे श्रमणपरिवृढः श्रीप्रभानन्दसूरिः क्षेत्रादेः संग्रहिण्या अकृत समयगैः संवदन्तीं सदथैः । एतां वृत्तिं ख-नन्द-ज्वलन-विधुमिते विक्रमार्के चतुया भाद्रस्य श्यामलायामिह. यदनुचितं तद् बुधाः शोधयन्तु ॥२॥" (५१) वेबरपुस्तके जैनग्रन्थावल्यां गणधरसार्द्धशतकवृत्तौ च हारिभद्रीयग्रन्थेषु परिगृहीता (५२) अन्वर्थनामकं प्रकरणमिदं संपूर्णमेव १६८६ तमे विक्रमवर्षे समयसुन्दरगणिसमुच्चितायां गाथासहस्यामुपलभ्यते, तत्रत्येनैव-"इति ज्ञानपञ्चकविवरणप्रकरणं श्रीहरिभद्रसूरिकृतम्" इत्युल्लेखेन चेदं हरिभद्रसूरिकर्तृकमिति समवगम्यते (५३) अस्याः सद्भावो हरिभद्रकर्तृकत्वं च खरतरगच्छीयैरेव प्रख्याप्यते, धर्मसागरोपाध्यायैश्चेदं प्रत्याख्यातमित्युदासतेऽपरे (५४) अजातसमाप्तिस्त्रुटितोत्तरभागा चेयं यशोभद्रसूरिशिष्येण केनचित् पूर्णीकृतेदानीमुपलभ्यते (५५) क्लत्तपण्डितस्य जैननामसंग्रहे एवेदमभिधानमुपलभ्यते (५६) वेबरपुस्तके क्लत्तनामसंग्रहे च कथिताख्यम्
SR No.006034
Book TitleDharm Sangrahani Part 02
Original Sutra AuthorN/A
AuthorAjitshekharsuri
PublisherAdinath Jain Shwetambar Jain Mandir Trust
Publication Year1996
Total Pages392
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy