________________
(९) श्रीगुणरत्नसूरयः तर्करहस्यदीपिकानाम्न्यां षड्दर्शनसमुच्चयबृहवृत्तौ'- “चतुर्दशशतसंख्यशास्त्ररचनाजनितजगज्जन्तुमहोपकारः श्रीहरिभद्रसूरिः” ।
(१०) कुलमण्डनसूरयो विचारामृतसंग्रहे"-"धर्मसंग्रहणी-अनेकान्तजयपताका-पञ्चवस्तुकोपदेशपद-लग्नशुद्धि-लोकतत्त्व निर्णय-योगबिन्दु-धर्मबिन्दु-पञ्चाशक-षोडशका-ऽष्टकादिप्रकरणानि चतुर्दशशतमितानि श्रीहरिभद्रसूरिभिर्विरचितानि"।
(११) श्रीमणिभद्रः षड्दर्शनसमुच्चयलघुटीकायाम्- "इह हि श्रीजिनशासनप्रभावनाविर्भावक प्रभोदयभूरियशश्चतुर्दशशतप्रकरणकरणोपकृतजिनधर्मो भगवान्हरिभद्रसूरिः" ।
(१२) श्रीहर्षनन्दनगणिर्मध्याह्नव्याख्यानपद्धतौ - "पालित्तो वृद्धवादी कविकुलतिलकः सिद्धसेनो दिवाकृद् विद्यासिद्धस्तथार्यः खपुटगुरुरुमास्वातिको मल्लवादी ।
सूरिः श्रीहरिभद्रः स्वपरसमयविद् बप्पभट्टिः प्रसिद्धः सिद्धर्षिर्देवसूरिः कुमारनृपनतो हेमसूरिश्च जीयात् ॥१॥
इत्येतद् महर्षिकुलककाव्यं विवृण्वन् हरिभद्रपदव्याख्यायाम्-"हरिभद्रः श्रीवृद्धगच्छे चतुर्दशशतग्रन्थग्रन्थनतत्परः" इत्युदलिखत् । अथ द्वितीयपक्षं राजशेखरसूरयः प्रबन्धकोशे एवमुदलिखन्-“१४४० ग्रन्थाः प्रायश्चित्तपदे कृताः" इति । तृतीयमतनिर्देशकाः पुनरेते परिगण्यन्ते(१), श्रीरत्नशेखरसूरयः श्राद्धप्रतिक्रमणार्थदीपिकाख्यटोकायाम् – “१४४४ प्रकरणकृत् श्रीहरिभद्रसूरयोप्याहुललितविस्तरायाम्" (२) अञ्चलगच्छपट्टावल्या"म्-“२९ श्रीहरिभद्रसूरिः १४४४ प्रकरणकर्ता" । (३) श्रीविजयलक्ष्मीसूरिरुपदेशप्रासादे "तृतीयस्तम्भे-“चतुश्चत्त्वारिंशदधिकचतुर्दशशतग्रन्थान्हरिभद्रसूरिः प्रायश्चित्तपदे चकार" । (४) श्रीक्षमाकल्याणकोपाध्यायः खरतरगच्छपट्टावल्या"म्-“१४४४ पूजापञ्चाशकादिप्रकरणानि कृतानि" इति । तदेवमत्र मतत्रयं साधारणतयोपदर्शितम्। विशेषगवेषणायां तु सर्वेप्येते निदर्शितग्रन्थकारा एकमेव मतमभ्युपेताः । तथाहि-ये चतुर्दशशतप्रकरणनिर्देशनपरास्ते गौरवपरिहारेण सामान्यतया बृहत्संख्यामेवादृतवन्तः, निर्दोषश्चायं व्यवहारः ।
"वीराओ वयरो वासाण पणसए दससएण हरिभद्दो । तेरसहिं बप्पभट्टी अट्ठहिं पणयाल वलहिखओ ॥१॥"
- इत्यादिषु तथादर्शनात् । ये तु चत्वारिंशदधिकचतुर्दशशतसंख्यालेखकास्तेषामयमभिप्रायः संभाव्यते→ “संसारदावानल" इत्यादिपद्यचतुष्कात्मिका स्तुतिः हरिभद्रसूरीणामन्त्या कृतिः, सा च चतुर्भिः पद्यैश्चतुर्णा ग्रन्थानां संख्यामापूरयति, तथाकृते च हारिभद्रीयग्रन्थानां चतुश्चत्वारिंशदभ्यधिकचतुर्दशशतरूपा संख्या संपद्यते इति हि प्रसिद्धिः । एतच्च चतुष्पद्यात्मके स्तुतिमात्रे ग्रन्थव्यपदेश एव न युज्यते तिष्ठतु चतुःसंख्यापूरकत्वमिति विभाव्य राजशेखरसूरिभिः पूर्वोक्ता १४४० रूपैवैतेषां प्रकरणसंख्याभिहिता । एतदर्थमेव गगनमार्गे शिक्षार्थमाकर्षणमपि तावत्संख्याकानामेव ताथागतानामुदीरितमिति । तृतीयपक्षकारास्तु विशिष्य यथाश्रूयमाणसंख्याग्राहिण इति सुप्रतीतमेव ।
२१. साक्षादनुपलब्धोऽप्यस्या ग्रन्थनसमयः क्रियारत्नसमुच्चयप्रशस्तिगतेनैतत्कर्तृसमयप्रसाधकेनाऽमुना पद्येन पञ्चदशशतकरूप एव । तथाहि
"काले बड्-रस-पर्ववत्सरमिते श्रीविक्रमाद् िगते गुर्वादेशवशाद् विमृश्य च सदा स्वान्योपकारं परम् ।
ग्रन्थं श्रीगुणरत्नसूरिरतनोत् प्रज्ञाविहीनोऽप्यमुं निहतूपकृतिप्रधानजननैः शोध्यस्त्वयं धौधनैः ॥६३॥ २२. एतन्निर्माणकालस्तु ग्रन्थकृतैवमभिहितः
"निःसीमातिशया जयन्ति सततं सौभाग्यभाग्याद्भुताः सूरिश्रीगुरुदेवसुन्दरवरास्तेषां विनेयाणुकः ।
सूरिः श्रीकुलमण्डनोऽमृतमिव श्रीआगमाम्भोनिधेश्चक्रे चारविचारसंग्रहमिमं रामाब्धिशकाब्दके ॥२॥" २३. अस्या निर्माणसमयोऽद्यावधि न निर्णीतः । २४. एतद्रचनाकालो ग्रन्थकारेणैवं प्रत्यपादि
"त्रिक-सप्त-बडेकाब्दे अक्षततृतीयादिने । ग्रन्थोऽयं पूर्णता प्राप्तः श्रीअणहिल्लपत्तने ॥१॥" २५. अस्य निबन्धनकालस्तन्निर्मात्रा तदन्ते इत्थमादिष्ट:
"शर-गगन-मनुमिताब्दे ज्येष्ठामूलीयधवलसप्तम्याम् । निष्पन्नमिदं शास्त्रं श्रोत्रध्येत्रोः सुखं तन्यात् ॥१॥" २६. अस्या विनिर्माणकालः प्रान्तभागे एवं निरदिक्षद् ग्रन्थकर्ता
एषां श्रीसुगुरूणां प्रसादतोऽब्दे षडङ्गविश्वमिते । श्रीरत्नशेखरगणिर्विवृतिमिमामकृत कृतितुष्टयै ॥११॥ २७. पण्डितभाण्डारकरमहाशयेन स्वरचितकार्यविवरणपुस्तके समुदलेखि । २८. अस्य रचनाकालः का ग्रन्थ प्रान्ते
"गुण-गति-वसु-शशिवर्षे कार्तिकमासे समुज्वले पक्षे । गुरुपूर्णायां समजनि सफलो यत्नः सुपञ्चम्याम् ॥६॥
इति पद्येन १८४३ स्पः प्रत्यपादि । २९. अस्या निर्माणं त्रिचत्वारिंशदधिकाष्टादशशते जातमित्येतत्प्रान्तभागतोऽवबुध्यते । ३०. "वीराद् वज़ो वर्षाणां पञ्चशते दशशतेन हरिभद्रः । त्रयोदशभिर्बप्पभट्टिः अष्टाभिः पञ्चचत्वारिंशता बलभिक्षयः ॥१॥"