________________
(१) श्रीमदभयदेवसूरयः पञ्चाशकटीका"प्रान्ते- “समाप्ता चेयं शिष्यहिता नामा सितपटपटलप्रधानप्रावचनिकपुरुषप्रवरचतुर्दशशतसंख्याप्रकरणप्रबन्धप्रणायिसुगृहीतनामधेयश्रीहरिभद्रसूरिविरचितपञ्चाशकाख्यप्रकरणटीकेति ।"
(२) मुनिचन्द्रसूरय उपदेशपदटी कायाम्-"महत् प्रवचनवात्सल्यमवलम्बमानश्चतुर्दश प्रकरणशतानि चकार" इति ।
(३) वादिदेवसूरयः स्याद्वादरत्नाकरे" - "प्रकरणचतुर्दशशतीसमुत्तुङ्गप्रासादपरम्परासूत्रणैकसूत्रधारैरगाधसंसारवारिधिनिमज्जज्जन्तुजातसमुत्तारणप्रवणप्रधानधर्मप्रवहणप्रवर्तनकर्णधारैर्भगवतीर्थकरप्रवचनाऽवितथतत्त्वप्रबोधप्रसूतप्रवरप्रज्ञाप्रकाशतिरस्कृतसमस्ततीर्थिकचक्रप्रवादध्वान्तप्रचारैः प्रस्तुतनिरतिशयस्याद्वादविचारैः श्रीहरिभद्रसूरिभिः"
(४) मुनिरत्नसूरयोऽममस्वामिचरित्रमहाकाव्ये प्रथमसर्गे - _ "स्तामि श्रीहरिभद्रं तं येनार्हगीमहत्तरा । चतुर्दशप्रकरणशत्याऽगोप्यत मातृवत् ॥९९॥" (५) जिनदत्तसूरयो गणधरसार्धशतके -
"चउदससयपगरणगोनिरुद्धदोसो सया हयपओसो । हरिभद्दो हरिअतमो हरि व जाओ जुगप्पवरो ॥५५॥" (६) प्रद्युम्नसूरयः समरादित्यसंक्षेप"प्रशस्तौ
"यावद्ग्रन्थरथाश्चतुर्दशशती श्रीहारिभद्रा इमे वर्तन्ते किल पारियात्रिकतया सिद्ध्यध्वयानेऽङ्गिनाम् ।
तावत् पुष्परथः स एष समरादित्यस्य मन्निर्मितः संक्षेपस्तदनुप्लवः प्रचरतु क्रीडाकृते धीमताम् ॥६९॥" । श्रीमुनिदेवसूरयः शान्तिनाथचरित्रमहाकाव्ये"
"चतुर्दशशतग्रन्थग्रन्थनायासलालसम् । हारिभद्रं मनो हारिभद्रं भद्रं करोतु नः ॥४॥" (८) प्रभाचन्द्रसूरयः प्रभावकचरित्रे
पुनरिह च शतोनमुनधीमान्प्रकरणसार्धसहस्रमेष चक्रे । जिनसमयवरोपदेशरम्यं ध्रुवमिति संततिमेष तां च मेने ॥२०५॥
१२. अस्या निर्माणसमयादिकं तु कर्ता तत्प्रान्ते एवमुपदिष्टम्
"चतुरधिकविंशतियुते वर्षसहस्रे गते च सिद्धेयम् । धवलकपुरे वसतौ धनपत्योर्बकुलबन्दिकयोः ॥
अणहिलपाटकनगेर संघवरैवर्तमानबुधमुख्यैः । श्रीमद्रोणाचार्यैर्विद्वद्भिः शोधिता चेति ॥" १३. इयं टीका गण्यवस्थायां 'रामचन्द्र' इत्याख्याभृतां वादिदेवसूरीणां गुरुभिर्मुनिचन्द्रसूरिभिः ११७४ मितविक्रमवर्षे व्यरचीति तदीयप्रशस्तिभागेनतेन ज्ञायते
"प्रायस्तत्सर्वसन्तानभक्तिमान् मुनिनायकः । अभूच्छीमुनिचन्द्राख्यस्तेनैषा विवृतिः कृता ॥५॥ प्रकृता श्रीनागपुरे समर्थिताऽणहिलपाटके नगरे । अब्धि-मुनि-स्द्रसंख्ये वहमाने वैक्रमे वर्षे ॥६॥
साहाय्यमत्र परमं कृतं विनेयेन रामचन्द्रेण । गणिना लेखनसंशोधनादिना शेषशिष्यैश्च ॥७॥ १४. दार्शनिकोऽयं महाग्रन्थः प्रमाणनयतत्त्वालोकाऽलङ्कारसूत्राणां बृहद्विवरणस्पश्चतुरशीतिसहसश्लोकप्रमाणश्च श्रीमुनिचन्द्रसूरिशिष्यैर्वादिदेवसूरिभिर्विरचितः ।
सोऽयमिदानीं न क्वापि संपूर्णतयोपलभ्यते । १५. एतद् भावितीर्थपतेरममनामः कथावर्णनपरं पौर्णमिकमुनिरत्नसूरिभिः १२५२ संख्ये विक्रमवत्सरे व्यरचीति प्रशस्तितोवबुध्यते । तथाहि
"एतद् विक्रमतो द्वि-पञ्च-दिनकृद्वर्षे कृतं पत्तने सम्यक् शोधितवान् नृपाक्षपटलाध्यक्षः कुमारः कविः ॥ सद्वैयाकरणाग्रणीविधिर्सचः श्रीपूर्णपालो यशः-पालो बालकविस्तथा मण-महानन्दौ च सभ्याग्रिमौ ॥३०॥" पूर्वाचार्यवर्णनपराभिः सार्थशतेन गाथाभिर्निबद्धत्वेन लब्धप्रकृतख्याति प्रकरणमिदं खरतरजिनदत्तसूरिभिर्विक्रमाद्वादशाब्दशतोत्तरार्धे निर्मितम् । अस्य च जिनपत्तिसूरिशिष्येण सुमतिगणिना विस्तृतवृत्तिरपि व्यरच्यत, यस्या निर्माणसमयः १२९५ स्पः कत्रैव तत्प्रान्ते"शर-निधि-दिनकरसंख्ये विक्रमवर्षे गुरौ द्वितीयायाम् । राधे पूर्णीभूता वृत्तिरियं नन्दतात् सुचिरम् ॥"
इति पद्येन व्यक्तीकृतः । १७. "चतुर्दशशतप्रकरणगोनिरुद्धदोषः सदा हतप्रद्वेषः । हरिभद्रो हुततमा हरिरिव जातो युगप्रवरः ॥५५॥" १८ एतद्विरचनाकालस्तु ग्रन्थकारेणैव प्रशस्तावित्थं निरदेशि
"वर्षे वारिधि-पक्ष-यक्षगणिते श्रीवर्धमानास्थितश्चक्रेऽमुं प्रथमं लिलेख तु जगच्चन्द्रः सुधीः पुस्तके ।
प्राग्वाटान्वयमन्त्रिवाहटसुत श्रीराणिगस्याऽङ्गजौ ग्रन्थार्थे रणमल्ल-सेगसचिवौ स्वं प्रार्थयेतां गुरुम् ॥" १९. अस्यापि रचनासमयः श्रीप्रद्युमसूरिसत्तासमयरूप एव, तैरेवास्य संशोधितत्वात् । तथा चोक्तं ग्रन्थकारेण
"काव्ये श्रीमुनिदेवसूरिकविना श्रीशान्तिवृत्ते कृते श्रीप्रद्युममुनीन्दुना शुचिचः सर्गोऽगमत् सप्तमः ॥" २०. ऐतिहासिकपुरुषाणां चरितैर्निबद्धं काव्यमिदं प्रभाचन्द्रसूरिभिः १३३४ प्रमितविक्रमसंवत्सरे व्यरचीति तत्प्रशस्तिपद्यमेवेदं निर्दिशति
"वेदा-ऽनल-शिखि-शशधरवर्षे चैत्रस्य धवलसप्तम्याम् । शुक्रे पुनर्वसुदिने संपूर्ण पूर्वऋषिचरितम् ॥२२॥