________________
एते सूरिवृषभा जिनपवचनस्य किंकिंविधान्महोपकारानकृषत इति पृच्छायाः प्रतिवचने तु एतद्रचितग्रन्थगणं बौद्धपराजयं वा विमुच्य नान्यदसामान्य कारणमुपदर्शयितुं पारयामः । हन्त! महदेवास्मदुर्भाग्यविलसितमिदम्, नैतादृशामपि पुरुषरत्नानां समर्था अपि पूर्वकवयः कथेतिवृत्तलेखकाश्च यथायथमामूलचूलजीवनव्यतिकराणि चरितानि लिलिखुरिति शिलोञ्छवृत्तिरेवात्र समादरणीया भवति । जैनज्ञातिवंशवृत्तलेखकपुस्तकेषु तु एतत्कृता महत्येव शासनसेवा प्रतिपाद्यते । तत्र हि "मेदपाटदेशे हरिभद्रसूरिभिः प्राग्वाट (पोरवाड) वंशस्य स्थापना विहिता तद्वंश्याश्च जैनधर्माभिरताः" इत्यादयः समुल्लेखाः विलोक्यन्ते, ते च यदि सत्यमेव सत्यस्पर्शिनस्तर्हि जैनधर्मस्य-विशेषतश्च प्राग्वाटज्ञातीयजैनानां - बहुपकृतमेतैरित्यवश्यमेव वक्तव्यं स्यात् ।
केचित्तु - "सावयजणमुहपत्ति (ति) चरवलो (चरवलयं) समयसंघसंजुत्ता । हरिभद्दसूरिगुरुणा (णो) दशपुरनयरंमि ठावेइ (वेंति)"
इति गाथां पठन्तः श्रावकजनस्य मुखवस्त्रिका-रजोहरणस्थापका अपि हरिभद्रसूरय इति प्रतिपादयन्ति, एतच्च न सत्यमाभाति, तत्प्राचीनेष्वपि आवश्यकचूण्ादिषु श्राद्धानां मुखवस्त्र-रजोहरणयोरुपादेयत्वस्वीकारात् ।
इदमप्यासीदेतद्विषयकं केषांचित् प्राचामभिमतम्-यदेते सूरयः संविग्नपाक्षिकाः समभूवन् । इदमेवाभिप्रेत्य यशोविजयगणयोऽपि दानद्वात्रिंशिकायाम् -
"न च स्वदानपोषार्थमुक्तमेतदपेशलम् । हरिभद्रो हदोऽभाणीद् यतः संविग्नपाक्षिकः।" - इति पद्यमरीरचन् । तदिदं प्रमाणविरहितमसंभवप्रायं च नाऽस्मद्बुद्ध्यादर्श प्रतिफलति । प्रत्यषेधि च जिनदत्तसूरिभिरप्येतद् गणधरसार्धशतके । तथा च तत्रत्या गाथा - "जं पइ केई समनामभोलिआ भोऽलिआई जंपंति । चीया (य) वासिदिक्खिओ सिक्खिओ य गोयाणे तं न मयं ॥५७॥
सहसयोधिनौ हंस-परमहंसनामानौ हरिभद्रशिष्यावपि परामत्र चरित्रलेशे वीर-करुणात्मकस्य रसयुग्मस्य पुष्टिमादधाते । तौ हि सूरीणां भागिनेयौ' दीक्षितशिष्यौ च। अन्यदा तौ गुरुषु निराकुर्वाणेष्वपि बौद्धमततर्कानधिगन्तुमनसौ क्वापि सौगतवस"ताववाजिषातामध्यगीषातां च कियतापि समयेन तन्मतरहस्यभूतान् सिद्धान्ततर्कान् । प्रकटितायां च तत्र कथमपि स्वव्याजवृत्तौ" ततः प्रणश्यन्तौ पश्चादापतितेन ताथागतनृपबलेन सह युध्यन्तौ पञ्चत्वमापतुः, इत्यादिविविधविकल्पमेतयोश्चरितं हरिभद्रचरितस्याप्यधिकाममिरोचकतामापादयतीति विदितमेव विदुषाम् ।
श्रुतैतदुदन्तानां हरिभद्रसूरीणामपि बौद्धेषु कोपातिरेकः, तद्वैरप्रतीकारनिश्चयः, सूरसेनभूपालसभायां तेषामपाकरणम्, तैलकटाहे । हवनाय व्योमपथेन तेषामाकर्षणम्, गुरुप्रेषितमुनियुगलमुखतो "गुणसेण-अग्गिसम्मा" इत्यादिगाथाकदम्बकश्रवणेन सहसा कोपोपशमश्च इत्यादि वृत्तं सत्यमेवैषामलौकिकं सामर्थ्यमादर्शयतीति ।
तदेवमेतेषामाचार्यवाणां नानाविधेषु पुण्यावदातेषु सत्स्वपि तन्मुख्यस्थानं साहित्यसेवैव समासादयतीति श्रीमत्संपादितः साहित्यराशिरेव विशेषतो विवेचनीयो भवति । स च चतुर्दशशतप्रकरणमान इति बहवः, चत्वारिंशदधिकचतुर्दशशतग्रन्थसंख्याक इत्यपि केचन, चतुश्चत्त्वारिंशदधिकचतुर्दशशतप्रकरणात्मक इति च केचित् । तत्र प्रथमपक्षसमर्थका एते -
७. "श्रावकजनमुखवस्त्रिका (कां) रजोहरणां समयसंघसंयुक्ताः । हरिभद्रसूरिगुरुणा (ख:) दशपुरनगरे स्थापयन्ति (ऽस्थापयन्) ॥" ८. "यं प्रति केचित् समनामभ्रमिता भो अलिकानि जल्पन्ति । चैत्यवासिदीक्षितः शिक्षितश्च जीतानां तन्न मतम् ॥५७॥" ।
गणधरसार्धशतकबृहद्वृत्तौ तु-"अन्नया तेण नियमइपगरिसनिजिअसुरगुरुणा दिक्खिआ दुवे रायपुत्ता"-इत्यनेन हंस-परमहंसयो राजपुत्रत्वमभिहितम्, एतच्च तयोः सहस्रयोधित्वश्रवणेन तत्सांगत्यापादनाय तदनुरूपत्वेन कल्पितं चेत्तदाऽनावश्यकमेव । विप्रेष्वपि युद्धकलासंभवेनेतिहासविघटिकायाः कल्पनाया
निरर्थकत्वात् । १०. इयं वसतिर्भोटदेशे आसीदिति कश्चित् ।। ११. अत्रत्यं विवरणलेशं प्रबन्धकोशे तत्कर्तारः- "रेखात्रयाङ्कस्तत्कण्ठे चक्रे । 'बुद्धोऽयं जात' इति कृत्वोपरि पादो दत्तः । उपरिचटितौ । गुरुणा दृष्टौ
निषण्णौ तौ गुर्वास्यच्छायापरावतं दृष्ट्वा तत्कैतवं तत्कृतमवगम्य जठरपीडामिषेण ततो निरक्रामताम् । कपालिकां लात्वा गतौ तौ चिराद् नाऽऽयातौ । विलोकापितौ । न स्तः । राजागे कथितम्-'सितपटौ उत्कटकपटौ तत्त्वं लात्वा यातः' । कपालिकानयनाय तत्पृष्ठे सैन्यमल्पं गतम् । दत्तदृष्टी द्वावपि सहसयोधौ तौ । ताभ्यां निहतं राजसैन्यम् । उद्त्तनष्टैरुपराजं गत्वा कथितं तत्तेजः । पुनर्बहुसैन्यप्रेषः । दृष्टिमेलापकः । युद्धमेकः करोति । अपरः करपरिकापाणिनष्टः । हंसस्य शिरश्छित्त्वा राज्ञे दर्शितं तैः । तेनापि गुरवे दत्तम् । गुरुराह-'किमनेन? करपरिकामानय' | आयाता भटाः । रात्रौ चित्रकूटे प्राकारकपाटयोर्दत्तयोस्तदासन्ने सुप्तस्य परमहंसस्य शिरश्छित्त्वा तैस्तत्रार्पितम् । तेषां बौद्धानां तत्सूरेश्च संतोषः । प्रातः श्रीहरिभद्रसूरिभिः शिष्यकबन्धो दृष्टः । कोपः । तैलकटाहाः कारिताः । अग्निना तापितं तैलम् । १४४० बौद्धा होतुं खे आकृष्टाः । गुरुभवृत्तान्तो ज्ञातः । साधू प्रहितौ । ताभ्यां गाथा दत्ताः-"गुणसेण." | बोधः । शान्तिः । १४४० ग्रन्थाः प्रायश्चित्तपदे कृताः"-इत्येवं संक्षिप्तमपि चित्रतागर्भमवर्णयन् ।