________________
वा तया परावर्त्यमाना "चक्किदुगं हरिपणगं" इतीयं गाथा अर्थतो नावबुद्धा तैरित्यत्राप्यासीत्कोऽपि साक्षीः ? यतः "प्रतिज्ञापतितः खल्वेषः" इति भीतिमाशकमानाः स्वप्रतिज्ञातार्थपालनाय तद्विनेयीभावमुपादातुमात्मानमुपस्थापयेयुस्तत्संनिधानम् ? दुर्घटं चैतदवलेपलिप्तमनसां सुमनसामपि यन्मनःसाक्षिकमपि प्रतिज्ञाभङ्गमचिकीर्षन्तः स्वयमेव ते स्वपराजयमङ्गीकुर्युः । तदेतेन चित्रतागर्भेण व्यतिकरेणेत्थंकारमेव कथं न निर्धार्येत ?, यदुत, नाऽसीत्पूर्वनिगदिता प्रतिज्ञा गर्वनिबन्धना; अपि तु सत्यतत्त्वजिज्ञासाहेतुरिति । भवतु वा कथमपि तथापि सा हरिभद्रसूरीणां तु तत्त्वफलेनैव फलितवतीत्यत्र तु न केनापि विप्रतिपत्तव्यं भवतीति । अथैते सूरिवराः कदाचित् -
"चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की । केसव चक्की केसव दुचछि केसी अ चक्की य ॥" इतीमां याकिनीसाध्वया पठ्यमानामावश्यकनियुक्तिगाथामाकापि तदर्थमनधिगच्छन्तः “सत्यप्रतिज्ञा भवन्ति सतां व्यवहाराः" इत्याभियुक्तोक्तिं सुदृढमवलम्बमानाः “स्वीकरोतु भगवती स्वशिष्यभावेन माम्" इति तस्यै गणिन्यै समयाचत, इत्यादि निगदितप्रायमेव, कथाविस्तरस्त्वन्यत्र विलोकनीयः । इह तु समालोचनमात्रमभिलषितम् । सा च एवं निगदतस्तान् जिनभटनामभृतां स्वगुरूणां पावं . प्रास्थापयत्। ते च तानदीक्षयन्निति । इदं च -
- "दिवसगणमनर्थकं स पूर्व स्व (स्वक) मभिमानकदर्थ्यमानमूर्तिः ।
अमनुत स ततश्च मण्डपस्थं जिनभटसूरिमुनीश्वरं ददर्श ॥ अथ जिनभटसूरिरत्र कोपाद्भुतमिह शिष्यजने निजे निशम्य ।
उपशमनविधौ प्रवृत्तिमाधादिह हरिभद्रमुनीश्वरस्य तस्य ॥" इत्यादिना प्रभावकचरित्रस्य पद्यकदम्बकेन,
. "हयकुसमयभडजिणभडसीसो सेस व्व धरियतित्थधरो ॥ जुगपवरजिणदत्तपहत्तसुत्ततत्तत्थरयणसिरो' ॥ इत्येतया गणधरसार्धशतकगाथया,
आचार्यजिनभटस्य हि सुसाधुजनसेवितस्य शिष्येण । जिनवचनभावितमतेर्वृत्तवतस्तत्प्रसादेन ॥
किञ्चित्प्रक्षेपसंस्कारद्वारेणैवं कृता स्फुटा । आचार्यहरिभद्रेण टीका 'प्रज्ञापनाश्रया ॥" . इत्यादिहरिभद्रसूरिवचनेन चेहामीषां जिनभटदीक्षितत्वमुल्लिखितम् । वस्तुतस्तु जिनभटसूरीणां हरिभद्रगुरुत्वेऽपि न तद्दीक्षादायकत्वम्। "समाप्ता चेयं शिष्यहिता नामावश्यकटीका । कृतिः सिताम्बराचार्यजिनभटनिगदानुसारिणो विद्याधरकुलतिलकाचार्यजिनदत्तशिष्यस्य धर्मतो याकिनीमहत्तरासूनोरल्पमतेराचार्यहरिभद्रर ।" इत्यनेन “अल्पमति" विशेषणान्यथानुपपत्त्या स्वस्य हरिभद्रकर्तृकतां ख्यापयता आवश्यकटीकान्तस्थेनोल्लेखेनैतेषां जिनदत्तशिष्यत्वाभिधानात् । “जिनभटनिगदानुसारिणः" इत्यनेन जिनभटसूरीणामप्याज्ञाकर्तृत्वनिवेदनाच्च "आचार्यजिनभटस्य हि" इत्यादिनोदितं जिनभटशिष्यत्वमपि न व्याहन्यते, आज्ञाकारिष्वपि गुरुत्वव्यवहारस्य दृष्टत्वात् । ततश्च "आचार्यजिनभटस्य" इत्यभिधानं सामान्यगोचरम्, इदं पुनर्विशेषविषयम् - "जिनभटनिगदानुसारिणो जिनदत्तशिष्यस्य" इति । एतत्संवादि चेदमत्रानुसंधेयं हारिभद्रमेव वच :"एयं (वं) जिणदत्तायरियस्स उ अवयवभूएण चरियमिणं । जं विरइऊण पुग्नं महाणुभावचरियं मए पत्तं ॥ तेणं गुणाणुराओ
होइ (उ) सुहं सव्वलोयस्स ।" एतेन - "महत्तरोपदेशात्श्रीजिनभद्राचार्यपादमूलमवसर्पन्" - इत्यादिलेखकप्रमादसंपन्नपाठदर्शनेन कैश्चिद् जिनभद्रसूरीणां . हरिभद्रगुरुत्वमभिमन्यते तदपि निराकृतं भवति । हरिभद्रवचनानामेव तत्परिपन्थित्वात् ।
एते कृतिमुख्या हरिभद्रसूरयो जैनधर्मप्राप्त्यनन्तरमेव तत्त्वतः स्वं जन्म मन्यमानास्तन्निमित्तं च तां गणिनी विदन्तः “धर्ममातेयम्" इत्यभिप्रेत्य स्वं तस्या धर्मपुत्रत्वेन वर्णयन्तः समदर्शयन् निजकृतज्ञताचिह्नम् । अमुना च सूरिभिः प्रतिपन्नेन मातृ-पुत्रत्वव्यवहारेण इदमप्यनुमातुं शक्यते- 'पूर्वे वयसि ते जैनसाधुतामाचरन्' इति । पूर्वोक्तव्यवहृतेस्तत्रैव शोभास्पदत्वेन स्वीकारसंभवात् । एवं च वक्ष्यमाणसंख्याकग्रन्थरचनापि संगतिमापद्यते इति । २. "चक्रिद्विकं हरिपञ्चकं पञ्चकं चक्रिणां केशवश्चक्री । केशवश्चक्री केशवो द्वौ चक्रिणौ केशवश्च चक्री च ॥" ३. "हतकुसमयभटजिनभटशिष्यः शेष इव धृततीर्थधरः । युगप्रवरजिनदत्तप्रभूक्तसूत्रतत्त्वार्थरत्रशिराः ॥" ४. प्रज्ञापनाप्रदेशव्याख्याप्रान्ते (किल्हा कृतकार्यविवरण [रिपोर्ट) पुस्तक पृ. ३१) । ५. पूज्यपाद पं. श्रीसिद्धिविजयगणीनामावश्यकपुस्तके -"संवत् १५४९ वर्षे श्रीमण्डपमहादुर्गे वा. सोमध्वजगणिभिः आवश्यकबृहट्टीका लेखयांचक्रे"
इत्युल्लेखान्विते पाठोऽयम् । "एतद् (वं) जिनदत्ताचार्यस्य तु अवयवभूतेन चरितमिदम् । यद् विरचय्य पुण्यं महानुभावचरितं मया प्राप्तम् ॥ तेन गुणानुरागो भवति (तु) सुखं सर्वलोकस्य ।" समरादित्यकथाप्रान्तभागस्थेयं सार्धगाथा ।