________________
प्रातिष्ठिपन्निजपदे स विनिद्रभद्रे भद्रेश्वरं प्रभुमनश्वरकीर्तिपूरम् । आख्यामनङ्ग इति संगतवान् यदीयध्यानानले मदनवन्मदनो विलीय ॥१०॥
तत्पट्टमौलिमणितामभजद्भवार्तिभीतात्मनामभयदोऽभयदेवसूरिः । पापातपापगममन्वहमातपत्रीभूयाङ्गिनां शिरसि यस्य करश्चकार ॥११॥
तत्पट्टपर्वतमलङ्कुरते स्म कर्मव्यालावलीहरिनिभो हरिभद्रसूरिः ।।
भूम्यां यदीयचरणोपनतैरशोभि मुक्ताफलोज्ज्वलतमैर्जगती यशोभिः ॥१२॥ शिष्यस्तस्य विभोर्नमस्यचरणाम्भोजस्य जज्ञे महान् साहित्योपनिषनभोङ्गणरविः श्रीबालचन्द्रः कविः ।
यं स्वप्रान्तस्पेत्य तद्दृढतरानुध्यानतुष्टा जगौ मत्पुत्रस्त्वमसीति शीतलगिरा देवी गिरामीश्वरी ॥१३॥" तथा, बालचन्द्रसूरिकृतकरुणावजायुधनाटकेऽप्येतदर्थक एव समुल्लापः श्रूयते, यथा -
"नट :-मारिष ! श्रीदेवेन्द्रगुरुस्वहस्तस्वपट्टनिवेशितस्य भुवनभद्रङ्करस्य श्रीभद्रेश्वरसूरिसुगुरोः पट्टनभस्तलाऽलङ्करणकिरणमालिना प्रतिवादिदितितनयदमनशौरिणा श्रीमदभयदेवसूरिणा निजकरतामरसप्रतिष्ठितानप्रतिमप्रतिभाभरसौरभदुर्भगीकृतत्रिदशसूरीन् श्रीहरिभद्रसूरीनभिजानासि ? "
(८) श्रीजिनचन्द्रसूरिशिष्यस्य श्रीचन्द्रसूरेः शिष्यः, येन कुमारपालराज्ये संवत् १२१६ वर्षेऽपभ्रंशभाषायां नेमिनाथचरित्रं विरचितम् । इदं च तदन्तस्थेन “इति श्रीचन्द्रसूरिक्रमकमलभसलश्रीहरिभद्रसूरिविरचितं नवभवनिबद्धं श्रीनेमिनाथचरित्रं समाप्तम्" इति शब्दसंदर्भेण तदीयप्रशस्तिलेखेन च स्पष्टमवबुध्यते ।
(९) बृहद्गच्छीयश्रीमानभद्रसूरिशिष्योऽप्येकतमो हरिभद्रसूरिः, यो जयवल्लभविरचितस्य 'वज्जालग्ग' ग्रन्थस्य छायालेखकेन रत्नदेवेन तत्प्रशस्तौ स्मृतः । तथाच तत्पाठ :
गच्छे पृथौ श्रीमति मानभद्रसूरिर्बभूव प्रथितः पृथिव्याम् । तदीयपट्टे हरिभद्रसूरिज॑ज्ञेऽखिलक्ष्मातललोकपूज्यः ॥१॥ तच्छिष्यलेशोऽस्ति गुणानुरक्तः श्रीधर्मचन्द्रः सकलः कलाभिः । निपीय यद्वागमृतं सुधाया मनोहरं नो विबुधाः स्मरन्ति ॥२॥
विद्यालये प्राकृतेऽस्मिन्सुभाषितमणावहो । लिलेख लेखकच्छायां रत्नदेवश्च तद्राि ।
शिखि-ग्रहा-ऽग्नि-चन्द्रैर्हि प्रमिते वत्सरे वरे । ग्रन्थोऽयं संख्यया ख्यातः सहस्रत्रितयं ननु ॥३॥ इत्येवं विविधप्रमाणोपलम्भेन विनिर्णीतेष्वमीषु हरिभद्रसूरिषु सर्वप्रथमो याकिनीमहत्तराधर्मपुत्रतया ख्यात इत्याद्युक्तमेव पूर्वम् । ___ अथेदमपि विचारणमत्र जागृतिमासादयनानौचितीमञ्चेद्यदुत, धर्मसंग्रहणीनामधेयस्य दार्शनिकग्रन्थस्याऽस्य विधातारः सुविहितशिरोमणयो विद्वन्मणयः सर्वप्राचीना इम आचार्यहरिभद्रपादाः कतमस्य भूभागस्यावतंसीबभूवुः ? कस्य वा गुरोः पट्टप्रभावकतामातेनुः ?, कियतो वा सर्वसंख्यया ग्रन्थान् विरचयामासुः कदा चैते त्रिदशाधिपतेरातिथ्यमाभेजुरिति । अत्र च
___ "केन?" इत्याह→ हरिभद्राचार्येण, यः किल श्रीचित्रकूटाचल'चूलानिवासी प्रथमपर्याय एव स्फुटपठिताष्टव्याकरणः सर्वदर्शनानुयायितर्ककर्कशमतिमतामग्रगण्यः प्रतिज्ञातपरपठितग्रन्थानवबोधतच्छिष्यभाव आवश्यकनियुक्तिपरावर्तनाप्रवृत्तयाकिनीमहत्तराऽऽश्रयसमीपलब्ध “चक्किदुगं हरिपणगं" इत्यादिगाथासूत्रो (विहित) निजनिपुणोहापोहयोगोऽपि कथमपि स्वयमनुपलब्धतदर्थस्तदवगमाय महत्तरोपदेशात् श्रीजिनभद्रा (टा) चार्यपादमूलमवसर्पन्नन्तरा जिनबिम्बाऽवलोकनसमुत्पन्नानुत्पन्नपूर्वबहलप्रमोदवशात्समुच्चरित “वपुरेव तवाऽऽचष्टे" इत्यादिश्लोकः सूरिसमीपोपगतावदातप्रव्रज्यो ज्यायसी स्वसमय-परसमयकुशलतामाप्य महत्प्रवचनवात्सल्यमवलम्बमानश्चतुर्दशप्रकरणशतानि चकार" इत्युपदेशपदान्त्यगाथाव्याख्यायां श्रीमुनिचन्द्रसूरिसूचितचरित्रलेशेन प्रभावकचरित्रगणधरसार्धशतकवृत्ति-प्रबन्धकोश-नानाविधपट्टावल्यादीनां विलोकनेन च इमे आचार्यवाः प्रथमावस्थायां चित्रकूटनगराधिनाथस्य जितशत्रुनानो भूमिपालस्य पुरोहिता द्विजकुलतिलकाश्चासन्नित्यत्र न कोपि विप्रतिपादनपरः ।
इमे खलु कोविदशेखराः सर्वतन्त्रस्वतन्त्रीभूय स्वसममन्यं मनीषिणममन्यमानाः- "येनोक्तं नाऽवबुध्येय तदन्तेवासितामाश्रयेय" इति प्रतिज्ञासूत्रेण निजमात्मानं समयीयमन् । वर्ण्यतां नाम कोविदकुलेनेयं ज्ञानाजीर्णत्वप्रभवो व्याधिरिति । निधीयतां वैषां शिरसि दृढाभिमानाख्यदोषाधिरोपः । तदपि किमिदं ज्ञानाजीर्णत्वम् ? किमुतेयमवलेपकारिता? भणन्तु किल भवन्तः समेपि समकालमेव आमिति, न भवन्मतमेतदनुकूलयितुमुत्सहतेऽस्मदीयं चेतः । कथं नूत्सहेत! हन्त! न सूक्ष्मेक्षिकया समालोच्यते स्थलमिदं भवद्भिः, किञ्चिदग्रतोऽवसर्पणीयम् । पर्यालोचनीयैतेषां जयपराजयस्थितिः, किमेतैर्भगवत्या याकिन्या समं क्वापि संसदि शास्त्रार्थः पर्यचालि ? यदि १. अत्र चित्रकूटाचलचूलानिनासित्वमभिहितम्, प्रभावकचरित्र-गणधरसार्धशतकवृत्यादिषु तु सर्वत्रैषां चित्रकूटाचलासन्नं चित्रकूटनगरमेव निवासभूमिरिति
दृश्यते । सुमतिगणिकृतायां गणंधरसार्धशतकवृत्तौ तु-"एवं सो पंडित्तगव्वमुव्वहमाणो हरिभद्दो नाम माहणो" इत्यनेन ताह्मणत्वमात्रं प्रतिपादितं न पुरोहितत्वम् । एवं चित्रकूटाधिपते राज्ञो नामापि तत्र न निर्दिष्टम् ।