________________
अस्ताघवाङ्मयपयोनिधिमन्दराद्रिमुद्राजुषोः किमनयोः स्तुमहे महिनः । बाल्येऽपि निर्दलितवादिगजौ जगाद यौ व्याघ्रसिंहशिशुकाविति सिद्धराजः ॥४॥ सिद्धान्तोपनिषन्निषण्णहदयो धीजन्मभूमिस्तयोः पट्टे श्रीहरिभद्रसूरिरभवच्चारित्रिणामग्रणीः । भ्रान्त्वा शून्यमनाश्रयैरतिचिराद् यस्मिन्नवस्थानतः संतुष्टैः कलिकालगौतम इति ख्यातिर्वितेने गुणैः ॥५॥
श्रीविजयसेनसूरिस्तत्पट्टे जयति जलधरध्वानः । यस्य गिरो धारा इव भवदवभवदवथुविभवभिद ॥६॥" पण्डितहरगोविन्ददासमहाशयस्तु विवेकमञ्जर्यादिटीकाकारं कविनामा विख्यातं बालचन्द्रसूरिमप्यस्यैव सूरेः शिष्यत्वेनोल्लिखितवान्, अयं च तस्योल्लेखः→ “आसडकविकृतविवेकमञ्जरीवृत्तिकर्ता बालचन्द्रसूरिरप्यस्यैव हरिभद्रसूरेः शिष्यत्वेन निजं स्वग्रन्थप्रशस्तौ प्रत्यभिजानीते" इत्युक्त्वा स्वमन्तव्यं संसाधयितुम् -
"एतामासडिजैत्रसिंहसचिवेनाऽत्यन्तमभ्यर्थितो वृत्तिं श्रीहरिभद्रसूरिसगुरोः शिष्यप्रशिष्यावधिः ।
वाग्देवीप्रतिपन्नसूनुरकृत श्रीबालचन्द्राख्यया विख्यातोऽधिपतिर्गणस्य गणिनीरत्रश्रियो धर्मजः ॥१३॥ नागेन्द्रगच्छार्णवपार्वणेन्दुरेतां बृहद्गच्छनभोरविश्च । श्रीमान् विपूर्वो जयसेनसूरिः श्रीपद्मसूरिः समशोधयेताम् ॥१४॥
- इति विवेकमञ्जरीवृत्तेः प्रशस्तिपद्यद्वयमुपन्यस्तवान् । एतच्च न युक्तम्, बालचन्द्रसूरेः प्रकृतहरिभद्रसूरिशिष्यत्वे मानाभावात् । प्रमाणत्वेनोद्धतपद्यद्वितयेऽपि न हरिभद्रसूरेनागेन्द्रगच्छीयत्वं कलिकालगौतमबिस्दं वोपलभ्यते इति न तदपि साधकम् । किञ्च, बालचन्द्रसूरिहि हरिभद्रसूरेः पट्टधरः शिष्य इति तदीयग्रन्थेषु प्रकटतरम् । यथा वसन्तविलासमहाकाव्ये -
समाहितः श्रीहरिभद्रसूरिगुरोगिरोपात्तविवेकसंपत्कथञ्चिदेवानुमतः पितृभ्यामभ्यासदज्जैनमतव्रतं सः ॥५३॥ पूर्णः समग्राभिरसौ कलाभिः क्रमेण भावीति गुरुर्विभाव्य । तं प्रीतचेताः किल बालचन्द्र इत्याख्यया दीक्षितमभ्यधत्त ॥५४॥
अधीतविद्यं तमथ क्रमेण समारुरक्षुर्दिवमायुषोऽन्ते । न्यवीविशद्विश्वनमस्यपादः स्वस्मिन्पदे श्रीहरिभद्रसूरिः ॥"५५॥ . प्रकृतहरिभद्रसूरिपट्टधरस्तु विजयसेनसूरिरिति धर्माभ्युदयप्रशस्तिश्लोकैर्निर्धारितमेव । अयं च हरिभद्रसूरिनर्नागेन्द्रगच्छीयश्रीमदमरचन्द्रसूरेः पट्टशिष्य इत्यपि निर्दिष्ट पूर्वम् । बालचन्द्रसूरिगुस्हरिभद्रसूरिस्तु चन्द्रगच्छीयश्रीमदभयदेवसूरेः पट्टधरः शिष्य इत्यादिकमुपदेशकन्दलीवृत्त्यादिषु बालचन्द्रादिभिरेव प्रतिपादितमनेकधा ।
(६) चन्द्रगच्छीयश्रीभद्रेश्वरसूरिशिष्यो यः १२८९ तमे विक्रमसंवत्सरे निर्मिते उपमितिभवप्रपञ्चासारोद्धारे तत्का श्रीमता देवेन्द्रसूरिणा स्वपूर्वगुरुत्वेन वर्णितः । तथाच तत्प्रशस्तिलेख :
समाश्रितो यः शरणं क्षमाभृगणेन कर्माक्षनिपातभीत्या । अवारपारश्रियमादधानः स चन्द्रगच्छो भुवि सुप्रसिद्धः ॥१॥ - भव्यारविन्दप्रतिबोधहेतुरखण्डवृत्तः प्रतिषिद्धदोषः । श्रयन्नपूर्वेन्दुतुलामिह श्रीभद्रेश्वरो नाम बभूव सूरिः ॥२॥
तत्पट्टपूर्वाचलचण्डरोचिरजायत श्रीहरिभद्रसूरिः । मुदं न कस्मै रहितं विकृत्या तपश्च चित्रं च तनोति यस्य ॥३॥" अयमेव सूरिधुर्यः १२१५ वर्षे प्रणीतायां जम्बूद्वीपसमासटीकायां श्रीचन्द्रसूरिशिष्यैः श्रीविजयसिंहसूरिभिरपीत्थमस्मारि -
"श्रीभद्रेश्वरसूरिशिष्यहरिभद्राचार्यतः सद्गुरोः प्राप्तश्रीजिनचन्द्रसूरिचरणान्तेवासितामाश्रितः । सूरिः श्रीविजयस्त्विमा व्यरचयत्कल्याणमालाजुषां, शैक्षश्चाभयचन्द्रको लिखितवानुद्दामदाक्ष्यः पुरा ॥" (७) चन्द्रगच्छीयः श्रीभद्रेश्वरसूरिपट्टप्राप्तप्रतिष्ठानां श्रीमदभयदेवसूरीणां शिष्यो बालचन्द्रकविगुरुश्च, इत्यादि उपदेशकन्दलीवृत्तिप्रशस्तितोऽवबुध्यते । तथाहि -
"श्रीचन्द्रगच्छवनकैरवकेलिचन्द्रश्चन्द्रप्रभप्रभुरभिज्ञतमस्ततोऽभूत् । यो विश्वलोकविदितां मुदिताऽन्तरात्मा प्राभातिकी जिनपतिस्तुतिमाततान ॥५॥
तस्माद्धनेश्वर इति श्रुतपारदृश्वा विश्वाभिरामचरितोऽभ्युदियाय सूरिः । यो मन्त्रमाप गुस्तः सुरभूयभाजः प्राबोधयच्च समयूपुरदेवतां यः ॥६॥ तस्याऽभितः समभवन्भुवनप्रशस्याः शिष्याः श्रुताक्षकमलोद्धरणप्रवीणाः । चत्वार ऊर्जितरुचो विदुषां निषेव्या देव्याः करा इव पुराणकविप्रसूतेः ॥७॥
श्रीवीरभद्र इति सूरिरमीषु मुख्यः श्रीदेवसूरिरिति भूरिगुणो द्वितीयः । श्रीदेवभद्र इति सूरिवरस्तृतीयः श्रीशान्तिसूरिरिति च प्रथितश्चतुर्थः ॥८॥
श्रीमण्डलीति नगरी नगरीतिक्लुप्तप्रासादसंहतिरितोऽस्त्यमरावतीव । देवेन्द्रसूरिसुगुरुर्विततान तस्यां तद्वासिनां च हदि मूर्धि च वासलक्ष्मीम् ॥९॥
2