________________
अर्हम् ।
ग्रन्थकार-परिचयः ।
संकीर्णे नयभङ्गमौक्तिकचयैः स्याद्वादसूक्तामृते, सिद्धान्ताम्बुनिधौ नितान्तगहने धीरप्रवेशोत्सवे ।
सत्त्वानां सुगमावगाहनकृते यः शास्त्रसेतुं नवं, चक्रे श्रीहरिभद्रसूरिरनिशं पायादपायात् स नः ॥१॥ अथाऽत्र प्रस्तोतव्ये सर्वप्रथमतया विचारस्थानमिदमुपतिष्ठते-कियन्तो ननु हरिभद्रनामानः सूरयः समभवन्? कतमश्च तेषु प्रस्तुतप्रकरणस्य विरचयिता? तमिमं पर्यनुयोगं समाधातुमिह वक्तव्यं भवति-श्रूयन्ते किलैतन्नामानो बहवोऽपि सूरयः, तथाहि
(१) याकिनीमहत्तराधर्मपुत्रत्वेन प्रख्यातः आचार्यजिनदत्तशिष्यो जिनभटाज्ञावर्ती च विरहाङ्कभूषितललितविस्तरादिग्रन्थसंदर्भप्रणेता सर्वेषु प्राचीनतमः । अयमेव प्रस्तुतग्रन्थप्रणायकः । अस्य च सत्तासमयादिकमग्रे सविस्तरमभिधास्यते ।।
(२) खरतरजिनरङ्गीयपट्टावल्यादिषु बृहद्गच्छीयजिनभद्रसूरिशिष्यत्वेन निर्दिष्टः, जिनेश्वरसूरेः षष्ठः पट्टगुरू, सिद्धर्मनाक्प्राक्तनो यः सदृशनामलब्धभ्रमेण प्रबन्धकोशकृता पाडीवालगच्छीयपट्टावलीकारेण च ललितविस्तराकर्तृत्वेनोपन्यस्तः ।
(३) बृहद्गच्छीयश्रीजिनेश्वरसूरीणां शिष्यो नवागवृत्तिकारश्रीमदभयदेवसूरिबन्धुश्च । उक्तमिदं वाचनाचार्यचारित्रसिंहगण्युद्धतायां गणधरसार्धशतकवृत्तौ
"पश्चाग्जिनेश्वरसूरिभिर्विहारक्रमं कुर्वद्भिर्जिनचन्द्रा-उभयदेव-धनेश्वर-हरिभद्र-प्रसन्नचन्द्र-धर्मदेव-सहदेव-सुमतिप्रभृतयो बहवः शिष्याश्चक्रिरे । ततो वर्धमानसूरयः श्रीसिद्धान्तविधिना समाधिना देवलोकश्रियं प्राप्ताः । पश्चात् श्रीजिनेश्वरसूरिभिः श्रीजिनचन्द्राऽभयदेवौ गुणपात्रमेताविति ज्ञात्वा सूरिपदे निवेशितौ । अन्यौ च द्वौ सूरी-धनेश्वरो जिनभद्रनामा, द्वितीयश्च हरिभद्राचार्यः" अयं च सूरिः श्रीमदभयदेवसूरिपार्श्वे पठितत्वेन तच्छिष्यतयापि व्यवाहारि । तथा च चित्रकूटीयप्रशस्तौ श्रीजिनवल्लभसूरिः
"सत्तर्कन्यायचर्चार्चितचतुरगिरः श्रीप्रसन्नेन्दुसूरिः सूरिः श्रीवर्धमानो यतिपतिहरिभद्रो मुनीड् देवभद्रः ।
इत्याद्याः सर्वविद्यार्णवकलशभुवः संचरिष्णूरकीर्ति-स्तम्भायन्तेऽधुनापि श्रुतचरणरमाराजिनो यस्य शिष्याः ॥" श्रीनेमिचन्द्रीयमहावीरचरितलिखितपुस्तकान्तभागस्थायामेकस्यां प्रशस्तौ तु नवाङ्गवृत्तिकृदभयदेवसूरिपट्टधरत्वेन वर्णितः सूरिरयम् । तथाहि
आसीच्चन्द्रकुले शशाङ्कविमले सूरिर्गुणानां निधिस्त्रैलोक्येऽभयदेवसूरिसुगुरुस्सिद्धान्तविश्रामभूः । स्थानाङ्गादिनवाङ्गवृत्तिकरणप्राप्तप्रसिद्धिर्भृशं येन स्तम्भनके जिनस्य विशदा सम्यकप्रतिष्ठा कृता ॥
तत्पट्टे हरिभद्रसूरिस्दभून्निश्शेषशास्त्रार्थवित्तच्छिष्योऽजितसिंहसूरिस्दभूनिःसङ्गिनामग्रणीः ।
तच्छिष्योऽजनि हेमसूरिसुगुरुगीतार्थचूडामणिस्तत्पादाम्बुजषट्पदो विजयते श्रीमन्महेन्द्रः प्रभु ॥ . (४) बृहद्गच्छीयश्रीमानदेवसूरिसन्तानीयः श्रीजिनदेवोपाध्यायशिष्यः, योऽणहिलपुरे यशोनागनायकदत्तोपाश्रयस्थितः सिद्धराजराज्ये ११८५ मितविक्रमवर्षे वाचकमुख्यस्योमास्वातेः प्रशमरतिनाम्नो ग्रन्थस्य विवरणमरीरचत्, यतस्तत्प्रशस्तौ ग्रन्थकार एव -
यत्यालये मन्दगुस्पशोभे सन्मङ्गले सत्कविराजहंसे । तारापथे वा सुकविप्रचारे श्रीमानदेवाभिधसूरिगच्छे ॥१॥ भव्या बभूवुः शुभशस्यशिष्या अध्यापकाः श्रीजिनदेवसंज्ञाः । तेषां विनेयैर्बहुभक्तियुक्तैः प्रज्ञाविहीनैरपि शास्त्ररागात् ॥२॥
श्रीहरिभद्राचार्य रचितं प्रशमरतिविवरणं किञ्चित् । परिभाव्य वृद्धटीकाः सुखबोधार्थं समासेन ॥३॥ अणहिलपाटकनगरे श्रीमजयसिंहदेवनृपराज्ये । बाण-वसु-स्द्रसंख्ये विक्रमतो वत्सरे व्रजति ॥४॥
श्रीधवलभाण्डशालिकपुत्रयशोनागनायकवितीणे । सदुपाश्रये स्थितैस्तैः समर्थितं शोधितं चेति ॥५॥" इतिपद्यैर्व्यतिकरमिमं निवेदितवान् ।
(५) नागेन्द्रगच्छीयः कलिकालगौतमबिस्दधारी श्रीमदानन्दसूर्यमरचन्द्रसूर्योः पट्टधरः प्रसिद्धमन्त्रिवस्तुपालकुलगुरुश्रीविजयसेनसूरीणां गुरुश्च सिद्धराजराज्यकालात् किञ्चिदर्वाचीनः । तदिदं वृत्तमुदयप्रभसूरे धर्माभ्युदयमहाकाव्यप्रशस्तिसम्बन्धिनाऽनेन काव्यचतुष्टयेनाऽवगम्यते -
आनन्दसूरिरिति तस्य बभूव शिष्यः पूर्वोऽपरः शमधरोऽमरचन्द्रसूरिः । धर्मद्विपस्य दशनाविव पापवृक्षक्षोदक्षमौ जगति यौ विशदौ विभातः ॥३॥