________________
ધર્મસંગ્રહ ભાગ-૫ / દ્વિતીય અધિકાર | શ્લોક-૧ર दोडार्थ:
આશાતનાઓનો પરિહાર, સ્વશક્તિથી ઉચિતનું ચિંતવન, ગુરુની પાસે વિનયપૂર્વક પ્રત્યાખ્યાનની ક્રિયા શ્રાવકે કરવી જોઈએ. IIકરવા टी :
ज्ञानाद्यायस्य शातना-खण्डना आशातना निरुक्त्या यलोपः, तासां परिहारो वर्जनं विशेषतो गृहिधर्म इति सम्बन्धः पूर्ववद् दृष्टव्यः, एवमग्रेऽपि आशातनाश्चात्र जिनस्य प्रस्तुताः प्रसङ्गतोऽन्या अपि प्रदर्श्यन्ते, यथा ता ज्ञानदेवगुर्वादीनां जघन्यादिभेदात् त्रिविधाः ।
तत्र जघन्या ज्ञानाशातना ज्ञानोपकरणस्य निष्ठीवनस्पर्शः, अन्तिकस्थे च तस्मिनधोवातनिसर्गः, हीनाधिकाक्षरोच्चार इत्यादिका १ । मध्यमा अकालिकं निरुपधानतपो वा अध्ययनम्, भ्रान्त्याऽन्यथाऽर्थकल्पनम्, ज्ञानोपकरणस्य प्रमादात् पादादिस्पर्शो, भूपातनं चेत्यादिरूपा २ उत्कृष्टा तु निष्ठ्यूतेनाक्षरमार्जनं उपर्युपवेशनशयनादि, ज्ञानोपकरणेऽन्तिकस्थे उच्चारादिकरणम्, ज्ञानस्य ज्ञानिनां वा निन्दा प्रत्यनीकतोपघातकरणमुत्सूत्रभाषणं चेत्यादिस्वरूपा ३ ।
जघन्या देवाशातना वासकुम्पिकाद्यास्फालनश्वासवस्त्राञ्चलादिस्पर्शाद्या १ मध्यमा शरीराद्यशुद्ध्या पूजनम्, प्रतिमाभूनिपातनं चेत्याद्या २ उत्कृष्टा प्रतिमायाश्चरणश्लेष्मस्वेदादिस्पर्शनं भङ्गजननावहीलनाद्या च३।।
अथवा देवाशातना जघन्या दश मध्यमाश्चत्वारिंशद् उत्कृष्टाश्चतुरशीतिः, ताश्च क्रमेणैवमाहुः“तम्बोल १ पाण २ भोअण ३, वाहण ४ थीभोग ५ सुवण ६ निट्ठवणं ७ । मुत्तुच्चारं ९ जूअं १०, वज्जे जिणमंदिरस्संते ।।१।।" [सम्बोधप्रकरणे ८७, प्रवचनसारोद्धारे ४३२, चैत्यवन्दन बृहद्भाष्ये ६३] इति जघन्यतो दश देवाशातनाः । "मुत्त १ पुरीसं २ पाणं ३, पाणा ४ सण ५ सयण ६ इत्थि ७ तंबोलं ८ । निट्ठीवणं च ९ जूअं १०, जूआइपलोयणं ११ विगहा १२ ।।१।। पल्हत्थीकरणं १३ पिहु, पायपसारण १४ परुप्परविवाओ १५ । परिहासो १६ मच्छरिआ १७, सीहासणमाइपरिभोगो १८ ।।२।। केससरीरविभूसण १९, छत्ता २० ऽसि २१ किरीड २२ चमरधरणं च २३ । धरणं २४ जुवईहिं सविआरहास २५ खिड्डुप्पसंगा य २६।।३।।