Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 342 // [1] उपक्रमः। शा० उपक्रमः। १.३प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 467-470 1.3.4 भावप्रमाणमा 1.3.4.1 गण प्र०। 1.3.4.1.1 सुत्तस्स अणंतरागमे अत्थस्स परंपरागमे, तेण परंसुत्तस्सवि अत्थस्सविणो अत्तागमे, णो अणंतरागमे, परंपरागमे।सेतं लोगुत्तरिए। सेतं आगमे।सेतंणाणगुणप्पमाणे ॥सूत्रम् 470 // से किं तं आगमे, इत्यादि। गुरुपारम्पर्येणागच्छतीत्यागमः / आ, समन्तागम्यन्तेज्ञायन्ते जीवादयः पदार्था अनेनेति वागमः। अयं द्विधा प्रज्ञप्तः, तद्यथा, लोइए, त्यादि। इदं चेहैव पूर्वं भावश्रुतं विचारयता व्याख्यातम्, से तं लोगुत्तरिए आगमेत्ति। 467-69 // अहवा आगमे तिविहे, इत्यादि / तत्र सूत्रमेव सूत्रागमः, तदभिधेयश्चार्थ एवार्थागमः,सूत्रार्थोभयरूपस्तु तदुभयागमः। अथवान्येन प्रकारेणागमस्त्रिविधः प्रज्ञप्तः, तद्यथा, आत्मागम इत्यादि। तत्र गुरूपदेशमन्तरेणात्मन एवागम आत्मागमो यथा तीर्थङ्कराणामर्थस्यात्मागमः, स्वयमेव केवलोपलब्धेः / गणधराणां तु सूत्रस्यात्मागमः, स्वयमेव ग्रथितत्वाद् / अर्थस्यानन्तरागमः, अनन्तरमेव तीर्थकरादागतत्वाद् / उक्तं च अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउण (आवश्यक नि०९२) मित्यादि। गणधरशिष्याणां जम्बूस्वामिप्रभृतीनां सूत्रस्यानन्तरागमः, अव्यवधानेन गणधरादेव श्रुतेः। अर्थस्य परम्परागमः, गणधरेणैव व्यवधानात् / तत ऊर्ध्वं प्रभवादीनां सूत्रस्यार्थस्य च नात्मागमो नानन्तरागमः, तल्लक्षणायोगादपि तु परम्परागम एव / अनेन चागमस्य तीर्थकरादिप्रभवत्वभणनेनैकान्तापौरुषेयत्वं निवारयति।पौरुषताल्वादिव्यापारमन्तरेण नभसीव विशिष्टशब्दानुपलब्धेः। ताल्वादिभिरभिव्यज्यत एव शब्दो न तु क्रियत इति चेत् / ननु यद्येवं तर्हि सर्ववचसामपौरुषेयत्वप्रसङ्गः, तेषां भाषापुद्गलनिष्पन्नत्वाद्भाषापुद्गलानां च लोके सर्वदैवावस्थानतोऽपूर्वक्रियमाणताऽयोगेन ताल्वादिभिरभिव्यक्तिमात्रस्यैव निर्वर्तनात् / नच वक्तव्यम्, वचनस्य पौगलिकत्वमसिद्धम्, महाध्वनिपटलपूरितश्रवणबाधिर्यकुड्यस्खलनाद्यन्यथानुपपत्तेः। ®यावत्से तं लोइए, से किं तं लोगुत्तरिए आगमेत्ति। 7 लेनो। 0 अर्थं भाषते अर्हन् सूत्रं ग्रनन्ति गणधरा निपुणम्। जीवगुण प्र०। 1.3.4.1.1.1 ज्ञानगु०प्र०॥ 1.3.4.1.1.1.4 आगमज्ञानगुः। तस्य लौकिकलोकोत्तरिक द्विभेदौ। सूत्रादिभेदाच। // 342 //

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450