Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 434
________________ | श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 412 // सूत्रलक्षणः। दोषा अष्टगुणा व्याख्यालक्षणय। सन्पदार्थान्तरत्वेन कल्प्यते, यथा सतो भाव: सत्तेतिकृत्वा वस्तुपर्याय एव सत्ता, सा च वैशेषिकैः षट्सु पदार्थेषु मध्ये [[3] अनुगमः। पदार्थान्तरत्वेन कल्प्यते, तच्चायुक्तम्, वस्तूनामनन्तपर्यायत्वेन पदार्थानन्त्यप्रसङ्गादिति 31 / यत्र सन्धिप्राप्तौ तं न करोति / सूत्रम् 605 दुष्टं वा करोति तत्र सन्धिदोषः 32 / एते द्वात्रिंशत्सूत्रदोषाः, एतैर्विरहितं यत्तल्लक्षणयुक्तं सूत्रम् / अष्टाभिश्च गुणैरूपपेतं सूत्रस्पर्शक निर्युक्त्यनुगमः। यत्तल्लक्षणयुक्तमिति वर्तते, ते चेमे गुणाः, निद्दोसं सारवंतं च, हेउजुत्तमलंकियं। उवणीयं सोवयारं च, मियं महुरमेव य॥१॥ द्वात्रिंशत्सूत्र(आवश्यक नि०८८५) तत्र निर्दोषं सर्वदोषविप्रमुक्तम् 1 ।सारवद्गोशब्दवद्बहुपर्यायम् / हेतवः, अन्वयव्यतिरेकलक्षणास्तैर्युक्तम् / ३।उपमोत्प्रेक्षाधलङ्कारैरलङ्कतम् 4 / उपनयोपसंहृतमुपनीतम् 5 / ग्राम्यभणितिरहितं सोपचारम् ६।वर्णादिनियतपरिमाणं मितम् 7 / श्रवणमनोहरं मधुरम् 8 / अन्यैश्च कैश्चित्षड् गुणा: सूत्रस्य पठ्यन्ते, तद्यथा, अप्पक्खरमसंदिद्धं, सारवं विस्सओमुहं। अत्थोभमणवज्जंच, सुत्तं सव्वण्णुभासियं॥१॥(आवश्यक नि०८८६) त त्राल्पाक्षरंमिताक्षरं यथा सामायिकसूत्रम् / असन्दिग्धम्, सैन्धवशब्दवद्यल्लवण वसन तुरगाद्यनेकार्थसंशयकारि न भवति / सारवत्त्वंच पूर्ववत् / विश्वतोमुखंप्रतिसूत्रं चरणानुयोगाद्यनुयोगचतुष्टयव्याख्याक्षमम् / यथा, धम्मो मंगलमुक्किट्ठ (दशवै० 1/1) मित्यादिश्लोके चत्वारोऽप्यनुयोगा व्याख्यायन्ते। अथवानन्तार्थत्वाद्यतो विश्वतोमुखं ततः सारवदित्येवं सारवत्त्वस्यैव हेतुभावेनेदं योज्यते, अस्मिँश्च व्याख्याने पञ्चैवैते गुणा भवन्ति / स्तोभकाः, चकार वाशब्दादूयो निपातास्तैर्वियुक्तमस्तोभकम्। अनवद्यम् कामादिपापव्यापाराप्ररूपकम् / एवंभूतं सूत्रं सर्वज्ञभाषितमिति / यैस्तु पूर्वेऽष्टौसूत्रगुणाः प्रोक्तास्तेऽनन्तरश्लोकोक्तगुणास्तेष्वेवाष्टसु गुणेष्वन्तर्भावयन्ति, ये त्वनन्तरश्लोकोक्तानेव सूत्रगुणानिच्छन्ति तेऽमीभिरेव पूर्वोक्तानामष्टानामपिसङ्ग्रहं प्रतिपादयन्ति ॥एवं सूत्रानुगमे समस्तदोष 0 अष्ट। // 412

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450