Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ [4] नयः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 417 // सूत्रम् 606 नगमादिसप्त नया: ज्ञानक्रियानयसमन्वयक्ष। वस्त्वभिधीयत इति प्रतिजानीते। यथा तटस्तटी तटमित्यादि। तथा गुरुर्गुरव इत्यादि। तथा इन्द्रादेर्नाम स्थापनादिभेदान्प्रतिपद्यते, वक्ष्यमाणनयस्त्वतिविशुद्धत्वाल्लिङ्ग वचनभेदाद्वस्तुभेदं प्रतिपत्स्यते नाम स्थापना द्रव्याणि च नाभ्युपगमिष्यतीति भावः, इत्युक्त ऋजुसूत्रः। अथ शब्द उच्यते। तत्र शप आक्रोशे (पा०धा० 1069-1244) शप्यतेऽभिधीयते वस्त्वनेनेति.. शब्दः, तमेव गुणीभूतार्थं मुख्यतया यो मन्यते स नयोऽप्युपचाराच्छब्दः। अयं च प्रत्युत्पन्नं वर्तमानं तदपि ऋजुसूत्राभ्युपलगमापेक्षया विशेषिततरमिच्छति। तथाहि, तटस्तटीतटमित्यादिशब्दानां भिन्नान्येवाभिधेयानि भिन्नलिङ्गवृत्तित्वात, स्त्रीपुरुषनपुंसकशब्दवदित्यसौ प्रतिपद्यते। तथा गुरुर्गुरव इत्यत्राप्यभिधेयभेद एव, भिन्नवचनवृत्तित्वात्पुरुषः पुरुषा इत्यादिवदिति। नाम स्थापना द्रव्यरूपाश्चनेन्द्राः, तत्कार्याकरणात्, खपुष्पवदिति।प्राक्तनाद्विशुद्धत्वाद्विशेषिततरोऽस्याभ्युपगमः,समानलिङ्ग वचनानां तु बहूनामपि शब्दानामेकमभिधेयमसौ मन्यते, यथेन्द्रः शक्रः पुरन्दूर इत्यादीति गाथार्थः॥ 168 // वत्थूओ, इत्यादि। वस्तुनः, इन्द्रादेः सङ्कमणमन्यत्र शक्रादाविति दृश्यम्, भवत्यवस्तु, असम्भवीत्यर्थः / क्वेत्याह- नये समभिरूढे, समभिरूढनयमतेनेत्यर्थः। तत्र वाचकभेदेनापरापरान्वाच्यविशेषान्समभिरोहति समभिगच्छति प्रतिपद्यत इति समभिरूढः। अयमत्र भावार्थः, इन्द्र शक्र पुरन्दरादिशब्दाननन्तरंशब्दनयेनैकाभिधेयत्वेनेष्टानसौ विशुद्धतरत्वात्प्रत्येकं भिन्नाभिधेयान्प्रतिपद्यते, भिन्नप्रवृत्तिनिमित्तत्वात्, सुर मनुजादिशब्दवत् / तथाहि, इन्दतीतीन्द्रः, शक्नोतीति शक्रः, पुरंदारयतीति पुरन्दरः। इह परमैश्वर्यादीनि भिन्नान्येवात्र प्रवृत्तिनिमित्तानि, एवमप्येकार्थत्वेऽतिप्रसङ्गः, घटपटादिशब्दानामप्येकार्थतापत्तेः / एवं च सति यदेन्द्रशब्दः शक्रशब्देन सहकार्थ उच्यते तदा वस्तुनः परमैश्वर्यस्य शकनलक्षणे वस्त्वन्तरे सङ्कमणं कृतं भवति, अभवतीत्यर्थः। // 417 //

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450