Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 438
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 416 // सूत्रम् 606 नैगमादिसप्तनया: जानकिया नयसमन्वयश्च। वच्चईत्यादि। निराधिक्ये चयनं चयः पिण्डीभवनम्, अधिकश्चयो निश्चयः सामान्यम्, विगतो निश्चयो विनिश्चयो विसामान्य- [4] नयः। भावः। तदर्थं तन्निमित्तम्, व्रजति प्रवर्तते, सामान्याभावायैव सर्वदा यतते व्यवहारोनय इत्यर्थः / क्व? सर्वद्रव्येषुसर्वद्रव्यविषये। लोके हि घट स्तम्भाम्भोरुहादयो विशेषा एव प्रायो जलाहरणादिक्रियासूपयुज्यमाना दृश्यन्ते न पुनस्तदतिरिक्तं सामान्यम्, अतो लोकव्यवहारानङ्गत्वात्सामान्यमसौनेच्छतीति भावः / अत एव लोकव्यवहारप्रधानो नयो व्यवहारनयोऽसावुच्यते। युक्तिश्चात्रापिलेशतः प्रागुक्तैव / अथवा विशेषेण निश्चयो विनिश्चयः, आगोपालाङ्गनाद्यवबोधो न कतिपयविद्वत्सम्बद्धः। तदर्थं व्रजति व्यवहारनयः सर्वद्रव्येषु / इदमुक्तं भवति, यद्यपि निश्चयेन घटादिवस्तूनि सर्वाण्यपि प्रत्येकं पञ्चवर्णानि द्विगन्धानि पञ्चरसान्यष्टस्पर्शानि तथापि गोपालाङ्गनादीनां यत्रैव क्वचिदेकस्मिन्स्थूले नीलवर्णादौ विनिश्चयो भवति तमेवासौ सत्त्वेन / प्रतिपद्यते न शेषान्, लोकव्यवहारपरत्वादेवेति गाथार्थः // 139 // पञ्चुप्पन्नगाहा / साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानकालभावीत्यर्थः / तद्गृहीतुंशीलमस्येति प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधिMणितव्यः। तत्रातीतानागताभ्युपगमकुटिलतापरिहारेण, ऋजु, अकुटिलं वर्तमानकालभाविवस्तुसूत्रयतीत्यृजुसूत्रः। अतीतानागतयोर्विनाशानुत्पत्तिभ्यामसत्त्वादसदभ्युपगमश्चकुटिल इति भावः / अथवर्जु, अवक्रं श्रुतमस्येत्यृजुश्रुतः। शेषज्ञानैर्मुख्यतया तथाविधपरोपकारासाधनाच्छुतज्ञानमेवैकमिच्छतीत्यर्थः। उक्तंच, सुयनाणेय नेउन्नं, केवले तयणंतरं। अप्पणो य परेसिंच, जम्हा तं परिभावगं॥१॥ति / अयं च नयो वर्तमानमपीच्छन्स्वकीयमेवेच्छति, परकीयस्य स्वाभिमतकार्यासाधकत्वेन वस्तुतोऽसत्त्वादिति / अपरं च, भिन्नलिङ्गैर्भिन्नवचनैश्चशब्दैरेकमपि सामान्याभाव। आगोपालाद्यङ्गना(ध)वबोधो। 0...स्थले कालनील...10 श्रुतज्ञाने च नियुक्तं, (नियोक्तुं योग्यं) केवले तदनन्तरम्। आत्मनश्च परेषां च यस्मात्तत् परिभावकम्॥१॥ निउत्तं / // 416 //

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450