Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ सूत्रम 606 नेगमादिसप्त श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 418 // नयसमन्वयश्च। तयोरेकत्वमापादितं भवतीत्यर्थः। तच्चासम्भवित्वादवस्तु, न हि य एव परमैश्वर्यपर्यायः, स एव शकनपर्यायो भवितुमर्हति, [4] नयः। सर्वपर्यायसाङ्कर्यापत्तितोऽतिप्रसङ्गादित्यलं विस्तरेण / उक्तः समभिरूढः / वंजणअत्थेत्यादि / यत्क्रियाविशिष्टं शब्देनोच्यते तामेव क्रियां कुर्वद्वस्त्वेवंभूतमुच्यते, एवं, यः शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तमेवम्, भूतम्, प्राप्तम्, इतिकृत्वा। ततश्चैवंभूतवस्तुप्रतिपादको नयोऽप्युपचारादेवंभूतः। अथवा, एवं यः शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तद्विशिष्टस्यैव वस्तुनोऽभ्युपगमात्, तमेवं भूत: प्राप्तः, एवंभूत इत्युपचारमन्तरेणापि व्याख्यायते / स एवंभूतो नयः किमित्याह, व्यज्यतेऽर्थोऽनेनेति व्यञ्जनं शब्दः, अर्थस्तु तदभिधेयवस्तुरूपः। व्यञ्जनं चार्थश्च व्यञ्जनार्थः, तौ च तौ तदुभयं चेति समासः, व्यञ्जनार्थशब्दयोय॑स्तनिर्देश: प्राकृतत्वात् / व्यञ्जनार्थतदुभयं विशेषयति, नैयत्ये स्थापयति / इदमत्र हृदयम्, शब्दमर्थनार्थं | च शब्देन विशेषयति, यथा घट चेष्टायां (पा०धा० 812), घटते योषिन्मस्तकाद्यारूढश्चेष्टत इति घट इति / अत्र तदैवासौ घटो यदा योषिन्मस्तकाद्यारूढतया जलाहरणचेष्टावान्नान्यदा, घटध्वनिरपि चेष्टां कुर्वत एव तस्य वाचको नान्यदेत्येवं चेष्टावस्थातोऽन्यत्र घटस्य घटत्वं घटशब्देन निवर्त्यते। घटध्वनेरपि तदवस्थातोऽन्यत्र घटेन स्ववाचकत्वं निवर्त्यत इति / भावः, इति गाथार्थः॥१३९॥ उक्ता मूलनयाः / एषांचोत्तरोत्तरभेदप्रभेदा आवश्यकादिभ्योऽवसेयाः / एते च सावधारणाः सन्तो दुर्नयाः, अवधारणविरहितास्तु सुनयाः, सर्वैश्च सुनयैर्मीलितैः स्याद्वाद इत्यलं बहुभाषितया॥ अत्राह कश्चित्, ननूक्ता एते नयाः, केवलं प्रस्तुते किमेतैः प्रयोजनमिति नावगच्छामः / उच्यते, उपक्रमेणोपक्रान्तस्य // 418 // निक्षेपेण च यथासम्भवं निक्षिप्तस्यानुगमेनानुगतस्य च प्रक्रान्तसामायिकाध्ययनस्य विचारणामीषां प्रयोजनम् / पुनरप्याह, तद् व्यंजनार्थ...1 0 नैयत्येन /

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450