Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ नयः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 422 // सूत्रम् 606 नैगमादिसप्तनया:, ज्ञानक्रियानयसमन्वयश्च। केवलानां विहारोऽपि निषिद्धः, तथा च तद्वचनम्, गीयत्थो य विहारो बीओ गीयत्थमीसिओ भणिओ। एत्तो तइयविहारो नाणुनाओ जिणवरेहिं॥१॥(कल्पभा०६८८, ओघनि० 121) न यस्मादन्धेनान्ध:समाकृष्यमाण: सम्यक्पन्थानं प्रतिपद्यत इति भावः। एवं तावत्क्षायोपशमिकं ज्ञानमधिकृत्योक्तम्, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयम् / यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षांप्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः संजायते यावदखिलजीवादिवस्तुस्तोमसाक्षात्करणदक्षं केवलज्ञानं नोत्पन्नम्, तस्माज्ज्ञानमेव पुरुषार्थसिद्धेर्निबन्धनम् / प्रयोगश्चात्र, यद्येन विना न भवति तत्तन्निबन्धनमेव, यथा बीजाद्यविनाभावी तन्निबन्धन एवाङ्करः, ज्ञानाविनाभाविनी च सकलपुरुषार्थसिद्धिरिति / ततश्चायं नय श्चतुर्विधे सामायिके सम्यक्त्वसामायिक श्रुतसामायिके एवाभ्युपगच्छति, ज्ञानात्मकत्वेन प्रधानमुक्तिकारणत्वात्, देशविरति सर्वविरतिसामायिकेतु नेच्छति, ज्ञानकार्यत्वेन गौणत्वात्तयोरिति गाथार्थः॥विचारितंज्ञाननयमतेन सामायिकम्, अथ क्रियानयमतेन तद्विचार्यते, तत्रासौ क्रियैव सकलपुरुषार्थसिद्धेः प्रधानं कारणमिति मन्यमानो ज्ञाननयमतव्याख्यातामेतामेव गाथामाह- नायम्मीत्यादि। इयं च क्रियानयमतेनेत्थं व्याख्यायते, इह ज्ञाते ग्रहीतव्येऽग्रहीतव्ये चैवार्थे सर्वामपि पुरुषार्थसिद्धिमभिलषता यतितव्यमेव, प्रवृत्त्यादिलक्षणा क्रियैव कर्तव्येति। एवमत्र व्याख्याने, एवकारः स्वस्थान एव योज्यते / एवं च सति ज्ञातेऽप्यर्थे क्रियैव साध्या, ततो ज्ञानं क्रियोपकरणत्वाद्गौणमित्यत: सकलस्यापि पुरुषार्थस्य क्रियैव प्रधानं कारणमित्येवं य उपदेशः स नयः प्रस्तावात्क्रियानयः, शेषं पूर्ववद् / अयमपि स्वपक्षसिद्धये युक्तीरुद्भावयति / ननु क्रियैव प्रधानं पुरुषार्थसिद्धिकारणम्, यत आगमेऽपि तीर्थकर गणधरैः क्रियाविकलानां ज्ञानं निष्फलमेवोक्तम्, सुबहुपि 0 गीतार्थश्च विहारो द्वितीयो गीतार्थमिश्रितो भणितः। एताभ्यां तृतीयो नानुज्ञातो जिनवरैः / / 1 // ॐ सुबह्वपि 2

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450