Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीअनुयोग [4] नयः। सूत्रम् 606 नेगमादिसप्त श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 424 // ज्ञानक्रिया नयसमन्वयश्च। स्थापनादिवादिनांवा नयानां वक्तव्यता' परस्परविरोधिनीप्रोक्तिं निशम्य श्रुत्वा तदिह सर्वनयविशुद्धंसर्वनयसम्मतंतत्त्वरूपतया ग्राह्यम् / यत्किमित्याह- यच्चरणगुणस्थितः साधुः चरणं चारित्रक्रिया, गुणोऽत्र ज्ञानम्, तयोस्तिष्ठतीति चरणगुणस्थः। ज्ञानक्रियाभ्यां द्वाभ्यामपि युक्त एव साधुर्मुक्तिसाधको न पुनरेकेन केनचिदिति भावः। तथाहि, यत्तावज्ज्ञानवादिना प्रोक्तंयद्येन विना न भवति तत्तन्निबन्धनमेवेत्यादि। तत्र तदविनाभावित्वलक्षणो हेतुरसिद्ध एव, ज्ञानमात्राविनाभाविन्या: पुरुषार्थसिद्धेः क्वाप्यदर्शनात्, न हि दाह पाकाद्यर्थिनां दहनपरिज्ञानमात्रादेव तत्सिद्धिर्भवति, किन्तु तदानयन सन्धुक्षणज्वालनादिक्रियानुष्ठानादपि / न च तीर्थकरोऽपि केवलज्ञानमात्रान्मुक्तिं साधयति, किन्तु यथाख्यातचारित्रक्रियातोऽपि / तस्मात्सर्वत्र ज्ञानक्रियाऽविनाभाविन्येव पुरुषार्थसिद्धिः। ततस्तदविनाभावित्वलक्षणो हेतुर्यथा पुरुषार्थसिद्धर्ज्ञाननिबन्धनत्वं साधयति तथा क्रियानिबन्धनत्वमपि, तामप्यन्तरेण तदसिद्धेरित्यनैकान्तिकोऽप्यसाविति / एवं क्रियावादिनापि यद्यत्समनन्तरभावि तत्तत्कारणमित्यादिप्रयोगे यस्तदनन्तरभावित्वलक्षणः हेतुरुक्तः सोऽप्यसिद्धोऽनैकान्तिकश्च / तथाहि, स्त्री भक्ष्यभोगादिक्रियाकालेऽपिज्ञानमस्ति, तदन्तरेण तत्र प्रवृत्तेरेवायोगाद् / एवं शैलेश्यवस्थायां सर्वसंवररूपक्रियाकालेऽपि केवलज्ञानमस्ति, तदन्तरेण तस्या एवाप्राप्तेः। तस्मात्केवलक्रियानन्तरभावित्वेन पुरुषार्थस्य क्वाप्यसिद्धरसिद्धो हेतुः। यथा च तदनन्तरभावित्वलक्षण: हेतुः क्रियाकारणत्वं मुक्त्यादिपुरुषार्थस्य साधयति तथा ज्ञानकारणत्वमपि, तदप्यन्तरेण तस्य कदाचिदप्यभावादित्यनैकान्तिकताप्यस्येति / तस्माज्ज्ञानक्रियोभयसाध्यैवमुक्त्यादिसिद्धिः, उक्तं च हयं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुलो दड्डो, धावमाणो य अंधओ॥१॥ संयोगसिद्धी ए फलं वयंति, न हु एगचक्केण रहो पयाइ। अंधो य पंगू य वणे समेच्चा, उहतं ज्ञानं क्रियाहीनं हता अज्ञानतः क्रिया। पश्यन् पङ्गुर्दग्धो धाश्चान्धः॥१॥ संयोगसिद्ध्या फलं वदन्ति नैवैकचक्रेण रथः प्रयाति ।अन्धश्च पङ्गुश्च वने समेत्य

Page Navigation
1 ... 444 445 446 447 448 449 450