Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 441
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 419 // ज्ञानक्रिया नयसमन्वयव नन्वेषा नयैर्विचारणा किं प्रतिसूत्रमभिप्रेता सर्वाध्ययनस्य वा?, यद्याद्यः पक्षः स न युक्तः, प्रति सूत्रं नयविचारस्य न नया समोयरंति इह (आवश्यक नि० 762) मित्यनेन निषिद्धत्वाद् / अथापरः पक्षः सोऽपि न युक्तः, समस्ताध्ययनविषयस्य सूत्रम् 606 नयविचारस्य प्रागुपोद्धातनिर्युक्तौ नए समोयारणाणुमए, इत्यत्रोपन्यस्तत्वात् / न च सूत्रव्यतिरिक्तमध्ययनमस्ति यन्नयैर्विचार्यते। नैगमादिसप्त नया:, अत्रोच्यते, यस्तावत्प्रतिसूत्रं नयविचारनिषेधः प्रेर्यते तत्राविप्रतिपत्तिरेव, किं च, आसज्ज उ सोयरं नए नयविसारओ बूया , (आवश्यक नि०७६१) इत्यनेनापवादिकः सोऽनुज्ञात एव / यदप्युच्यते, 'समस्ताध्ययनविषयस्य नयविचारस्य प्रागुपोद्घाते त्यादि, तत्समयानभिज्ञस्यैव वचनम् / यस्मादिदमेव चतुर्थानुयोगद्वारं नयवक्तव्यताया मूलस्थानम्, अत्र सिद्धानामेव च तेषांक तत्रोपन्यासः। यदप्युक्तम् न च सूत्रव्यतिरिक्तमध्ययनमित्यादि, तदप्यसारम्, समुदायसमुदायिनो: कार्यादिभेदतः कथञ्चिद्भेद-8 सिद्धेः। तथाहि, प्रत्येकावस्थायामनुपलब्धमप्युद्वहनसामर्थ्यलक्षणं कार्य शिबिकावाहकपुरुषसमुदाय उपलभ्यते / एवं च। प्रत्येकसमुदितावस्थयो: कार्यभेदः, शिबिकावाहनादिषु सामर्थ्यासामर्थ्यलक्षणो विरुद्धधर्माध्यासश्च दृश्यते। यदिचायमपि न भेदकस्तर्हि सर्वं विश्वमेकं स्यात् / ततश्चसहोत्पत्त्यादिप्रसङ्गः, तस्मात्कार्यभेदाद्विरुद्धधर्माध्यासाच्चसमुदाय समुदायिनोर्भेदः प्रतिपत्तव्यः। एवं सङ्ख्या संज्ञादिभ्योऽपितद्भेदोभावनीयः। तस्मात्कश्चित्क्वचित्सूत्रविषयः समस्ताध्ययनविषयश्चनयविचारोह न दुष्यति / भवत्वेवं तथाऽप्यध्ययनं नयैर्विचार्यमाणं किं सवैरेव विचार्यते? आहोस्वित्कियद्भिरेव?, यदि सर्वैरिति पक्षःस न युक्तः, तेषामसङ्खयेयत्वेन तैर्विचारस्य कर्तुमशक्यत्वात् / तथाहि, यावन्तो वचनमार्गास्तावन्त एव नयाः। यथोक्तम्, जावइया वयणपहा तावइया चेव होंति नयवाया। जावइया नयवाया तावइया चेव परसमया॥१॥ (सम्मति० 3/47) न च आसाद्य तु श्रोतारं नयान् नयविशारदो ब्रूयात्। 0 यावन्तो वचनपथास्तावन्तश्चैव भवन्ति नयवादाः / यावन्तो नयवादास्तावन्तश्चैव परसमयाः॥१॥ // 41

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450