Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 435
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्र युतम्। // 413 // सूत्रम् 605 सूत्रस्पर्शकनियुक्त्यनुगमः। सूत्रलक्षणः। द्वात्रिंशत्सूत्रदोषा अष्टगुणा व्याख्यालक्षणया विप्रमुक्ते लक्षणयुक्ते सूत्र उच्चारिते ततो ज्ञास्यते यदुतैतत्स्वसमयगत जीवाद्यर्थप्रतिपादकं पदं स्वसमयपदम्, परसमयगत [[3] अनुगमः। प्रधानेश्वराद्यर्थप्रतिपादकं पदं परसमयपदम्। अनयोरेव मध्ये परसमयपदं देहिनां कुवासनाहेतुत्वाद्बन्धपदमितरत्तु सद्बोधकारणत्वान्मोक्षपदमिति तावदेके / अन्ये तु व्याचक्षते, प्रकृति स्थित्य नुभाव प्रदेशलक्षणभेदभिन्नस्य बन्धस्य प्रतिपादकं पदं बन्धपदम्, कृत्स्नकर्मक्षयलक्षणस्य मोक्षस्य प्रतिपादकं पदं मोक्षपदमिति / आह- नन्वत्र व्याख्याने बन्ध मोक्षप्रतिपादक पदद्वयं स्वसमयपदान्नातिरिच्यते तत्किमिति भेदेनोपन्यासः?, सत्यम्, किन्तु स्वसमयपदस्याप्यभिधेयवैचित्र्यदर्शनार्थो / भेदेनोपन्यासः, अत एव सामायिकप्रतिपादकं पदं सामायिकपदमित्यादावपि भेदेनोपादानं सार्थकमिति / सामायिकव्यतिरिक्तानां नारक तिर्यगाद्यर्थानां प्रतिपादकं पदं नोसामायिकपदमित्येतच्च सूत्रोच्चारणस्य फलं दर्शितम् / इदमुक्तं भवति, यतःसूत्रे समुच्चारिते स्वसमयपदादिपरिज्ञानं भवति ततस्तदुच्चारणीयमेव ततस्तस्मिन्सूत्र उच्चारितमात्रएव सति केषाञ्चिद्भगवतां साधूनां यथोक्तनीत्या केचिदर्थाधिकारा अधिगताः, परिज्ञाता भवन्ति, केचित्तु क्षयोपशमवैचित्र्यादनधिगता भवन्ति, ततस्तेषामनधिगतानामर्थाधिकाराणामधिगमार्थं पदेन पदं वर्तयिष्यामि, एकैकं पदं व्याख्यास्यामीत्यर्थः / तत्र व्याख्यालक्षणमेव तावदाह- संहिया येत्यादि / तत्रास्खलितपदोच्चारणं संहिता, यथा करोमि भयान्त! सामायिक मित्यादि / पदं तु करोमीत्येक पदम्, भयान्त इति द्वितीयम्, सामायिकमिति तृतीयमित्यादि। पदार्थस्तु करोमीत्यभ्युपगमः, भयान्तेति गुर्वामन्त्रणम्, समस्यायः सामायिकमित्यादिकः। पदविग्रहः समासः, स चानेकपदानामेकत्वापादानविषयो यथा भयस्यान्तो भयान्त इत्यादि। सूत्रस्यार्थस्य वाऽनुपपत्त्युद्धावनं चालना / तस्यैवानेकोपपत्तिभिस्तथैव स्थापनं प्रसिद्धिः। एते च चालनाप्रसिद्धी, O(सद्बोधकारणत्वादि)' त्यधिकम् / 7 वर्ण....। // 413 //

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450