Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 433
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 411 // व्याख्यालक्षणश्च। इत्यादि 14 / विभक्तिभिन्नं यत्र विभक्तिव्यत्ययः, यथा वृक्षं पश्य इति वक्तव्ये, वृक्षः पश्य इति ब्रूयादित्यादि 15 / लिङ्गभिन्नं [3] अनुगमः। यत्र लिङ्गव्यत्ययः, यथायं स्त्रीत्यादि 16 / अनभिहितं स्वसिद्धान्तेऽनुपदिष्टम्, यथा सप्तम: पदार्थो वैशेषिकस्य, प्रकृति- सूत्रम् 605 पुरुषाभ्यधिकं साङ्क्षयस्य, दुःख समुदय मार्ग निरोधलक्षणचतुरार्यसत्यातिरिक्तं वा बौद्धस्येत्यादि 17 / यत्रान्यच्छन्दोऽधि सूत्रस्पर्शक निर्युक्त्यनुगमः। कारेऽन्यच्छन्दोऽभिधानं तदपदम् / यथार्यापदेऽभिधातव्ये वैतालीयपदमभिदध्यादित्यादि 18 // यत्र वस्तुस्वभावोऽन्यथा- सूत्रलक्षणः। स्थितोऽन्यथाभिधीयते तत्स्वभावहीनम्, यथा शीतो वह्निः मूर्तिमदाकाशमित्यादि 19 / यत्र प्रकृतमुत्सृज्याप्रकृतं व्यासतो द्वात्रिंशत्सूत्र दोषा अष्टगुणा भिधाय पुनः प्रकृतमुच्यते तद्व्यवहितम् 20 / कालदोषः, यत्रातीतादिकालव्यत्ययो यथा रामो वनं प्रविवेशेति वक्तव्ये, रामो वनं प्रविशतीत्याह 21 / यतिदोषः, अस्थानविरति:सर्वथाऽविरतिर्वा 22 / छविः, अलङ्कारविशेषस्तेन शून्ये छविदोषः 23 / समयविरुद्धं स्वसिद्धान्त विरोद्धि यथा साङ्क्षयस्यासत्कारणे कार्यम्, वैशेषिकस्य वा सदिति 24 / वचनमात्रं निर्हेतुकम्, यथा कश्चिद्यथेच्छया कञ्चित्प्रदेशं लोकमध्यतया जनेभ्यः प्ररूपयति 25 / यत्रार्थापत्त्यानिष्टमापतति तत्रापित्तिदोषः, यथा गृहकुक्कुटोन हन्तव्य इत्युक्तेऽर्थापत्त्या शेषघातोऽदुष्ट इत्यापतति 26 / यत्र समासविधिप्राप्तौसमासंन करोति तत्रासमासदोषः। 27 / उपमादोषो यत्र हीनोपमा क्रियते, यथा मेरुः सर्षपोपमः, अधिकोपमा वा क्रियते, यथा सूर्षपो मेरुसन्निभः, अनुपमा वा यथा मेरुः समुद्रोपम इत्यादि 28 / रूपकदोष:स्वरूपभूतानामवयवानां व्यत्ययः, यथा पर्वते रूपयितव्ये शिखरादीस्तँदवयवापयति, अन्यस्य वा समुद्रादेः सम्बन्धिनोऽवयवाँस्तत्र रूपयतीति 29 / निर्देशदोषो यत्र निर्दिष्टपदानामेकवाक्यतान // 411 // क्रियते, यथेह देवदत्तः स्थाल्यामोदनं पचतीत्यभिधातव्ये पचतिशब्दं नाभिधत्ते 30 / पदार्थदोषः, यत्र वस्तु पर्यायोऽपि (c) सिद्धान्तानु.. 0 दा। 0 प्रकृतं मुक्त्वा / 0 शून्यं / 7 विरुद्धम् / 7 कुर्कुटो। 0 व्यत्ययेन वा करोती' त्यधिकम्। निरू..। ©त। 7 वस्तुनि /

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450