Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 352 // 1.3.4 भावप्रमाणम्। 1.3.4.1 निवासित्वेनासौ विवक्षित: तत्र तिष्ठन्नेवैष तत्र वसतीति व्यपदिश्यते, यदि पुनः कारणवशतोऽन्यत्र रथ्यादौ वर्तते तदा तत्र [1] उपक्रमः। विवक्षिते गृहादौ वसतीति न प्रोच्यतेऽतिप्रसङ्गादिति भावः / एवमेवेत्यादि / लोकव्यवहारनिष्ठो हि व्यवहारनयः, लोके चश 1.3 प्रमाणम्। नैगमोक्तप्रकाराः सर्वेऽपि दृश्यन्त इति भावः। अथ चरमनैगमोक्तप्रकारो लोके नेष्यते, कारणतो ग्रामादौ वर्तमानेऽपि द्रव्यादिचतुर्भेदाः देवदत्ते पाटलिपुत्र एष वसतीति व्यपदेशदर्शनादिति चेत् / नैतदेवम्, प्रोषिते देवदत्ते स इह वसति न वेति केनचित्पृष्टे सूत्रम् 475 प्रोषितोऽसौ नेह वसतीत्यस्यापि लोकव्यवहारस्य दर्शनादिति। संगहस्सेत्यादि। प्राक्तनाद्विशुद्धत्वात्सङ्ग्रहनयस्य गृहादौ तिष्ठन्नपि संस्तारकारूढ एव शयनक्रियावान्वसतीत्युच्यते / इदमुक्तं भवति, संस्तारकेऽवस्थानादन्यत्र निवासार्थ एव न घटते, गुण प्र०। चलनादिक्रियावत्त्वान्मार्गादिप्रवृत्तवत् / संस्तारके च वसतो गृहादौ वसतीति व्यपदेशायोग एव, अतिप्रसङ्गात्तस्मात्क्वासौ वसतीति निवासजिज्ञासायां संस्तारके, शय्यामात्रस्वरूपे वसतीत्येतदेवास्य मतेनोच्यते, नान्यदिति भावः। स च नानादेशादिगतोऽप्येक एव, सङ्गहस्य सामान्यवादित्वादिति / ऋजुसूत्रस्य तु पूर्वस्माद्विशुद्धत्वाद्येष्वाकाशप्रदेशेष्ववगाढस्तेष्वेव प्रस्थकदृष्टान्तेन वसतीत्युच्यते, न संस्तारके, सर्वस्यापि वस्तुवृत्त्या नभस्येवावगाहात् / येषु प्रदेशेषु संस्तारको वर्त्तते ते संस्तारकेणैवाक्रान्ताः, निरूपणम्। ततोयेष्वेव प्रदेशेषुस्वयमवगाढस्तेष्वेव वसतीत्युच्यते, सच वर्तमानकाल एवास्ति, अतीतानागतयोर्विनष्टानुत्पन्नत्वेनैतन्मतेऽसत्त्वादिति / त्रयाणां शब्दनयानामात्मभावे स्वस्वरूपे सर्वोऽपि वसति, अन्यस्यान्यत्र वृत्त्ययोगात् / तथाहि, अन्योऽन्यत्र वर्तमानः किं सर्वात्मना वर्तते देशात्मना वा? यद्याद्यः पक्षस्तर्हि तस्याधारव्यतिरेकिणा स्वकीयरूपेणाप्रतिभासनप्रसङ्गः, // 352 // यथा हि संस्तारकाद्याधारस्य स्वरूपं सर्वात्मना तत्र वृत्तंन तव्यतिरेकेणोपलभ्यत एवं देवदत्तादिरपि सर्वात्मना तत्राधीयमान 0'वर्तते- संस्तारकेणैवाक्रान्ताः वर्तन्ते', इति पाठो वर्तते। 1.3.4.1.2 नयभावप्रमाणम्।

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450