Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 405 // नुगमः। तथोपोद्धननम्, व्याख्येयस्य सूत्रस्य व्याख्याविधि समीपीकरणमुपोद्घातस्तस्य तद्विषया वा नियुक्तिरुपोद्धातनियुक्तिः, [3] अनुगमः। तद्रूपस्तस्या वानुगम उपोद्धातनिर्युक्त्यनुगमः। तथा सूत्रं स्पृशतीति सूत्रस्पर्शिका, सा चासौ नियुक्तिश्च सूत्रस्पर्शकनियुक्तिः। सूत्रम् तत्र निक्षेपनियुक्तिक्त्यनुगमोऽनुगतो वक्ष्यते च / इदमुक्तं भवति, अत्रैव प्रागावश्यकसामायिकादिपदानां नाम स्थापनादि- 601-604 3.1 सूत्रानुगमः निक्षेपद्वारेण यद्व्याख्यानं कृतं तेन निक्षेपनियुक्त्यनुगमोऽनुगतः प्रोक्तो द्रष्टव्यः, सूत्रालापकानां नामादिनिक्षेपप्रस्तावे पुनर्वक्ष्यते / 3.2 निर्युक्त्यच। उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामनुगन्तव्यः, तद्यथा, उद्देसगाहा, किं कइविहंगाहा / व्याख्या, उद्देशनमुद्देश: नुगमः। निर्युक्त्यनुगमसामान्याभिधानरूपो यथा, अध्ययन मिति / वक्तव्य इति सर्वत्र क्रिया द्रष्टव्या। तथा निर्देशनं निर्देशो विशेषाभिधानम्, स्य त्रयोभेदाश्च / यथा 'सामायिक मिति / अत्राह- ननु सामान्य विशेषाभिधानद्वयं निक्षेपद्वारे प्रोक्तमेव तत्किमितीह पुनरुच्यते? नैतदेवम्, यतोऽत्र सिद्धस्येव तस्य तत्र निक्षेपमात्राभिधानं कृतमित्यदोषः। तथा निर्गमनं निर्गमः, कुतः सामायिकं निर्गतमित्येवंरूपो वक्तव्यः। तथा क्षेत्रकालौच ययोः सामायिकमुत्पन्नं तौ वक्तव्यौ / यद्वक्ष्यत्यावश्यके, वइसाहसुद्धएक्कारसीऍपुव्वण्हदेसकालंमि। महसेणवणुज्जाणे अणंतर परंपर सेसं॥१॥(आवश्यक नि० 734) ति। तथा कुतः पुरुषात्तन्निर्गतमिति वक्तव्यम् / तथा केन कारणेन गौतमादयः सामायिकं भगवत: समीपे शृण्वन्तीत्येवंरूपंकारणं वाच्यम् / यदभिधास्यति, गोय(म)माई सामाइयं तु | किं कारणं निसामिंती (आवश्यक नि० 745) त्यादि / तथा प्रत्यायतीति प्रत्ययः, केन प्रत्ययेन भगवतेदमुपदिष्टम्?, केन वा Oनियुक्तिस्तद्रूपतस्या... 0 स्पर्शिक। 0 द्वाभ्यां', इत्यधिकम्। 0 तत्र तस्य। 7 वैशाखशुक्लैकादश्यां पूर्वाह्नदेशकाले। महासेनवनोद्याने ऽनन्तरं परम्परं // 405 // शेषमिति // 1 // 0 गौतमादयः सामायिकं तु किं कारणं निशाम्यन्ति।

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450