Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 393
________________ [2] उपक्रमः। शा०उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 371 // निष्ठितास्तत्पर्यवसान: पूर्वेण सह बृहत्तरोऽनवस्थितपल्य: सर्षपभृतः परिकल्प्यतेऽत एवायमनवस्थितपल्य उच्यते, अवस्थितरूपाभावात्। पुनः सोऽप्युत्क्षिप्यैकैकसर्षपक्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते, शलाकापल्येच तृतीयाशलाका प्रक्षिप्यते। तेच सर्षपाः प्रक्षिप्यमाणा यत्र द्वीपे समुद्रे वा निष्ठितास्तत्पर्यवसानः पूर्वेण सह बृहत्तमोऽनवस्थितपल्यः सर्षपभृतः परिकल्प्यते। पुनः सोऽप्युत्क्षिप्य तेनैव क्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते, शलाकापल्ये च चतुर्थी शलाका प्रक्षिप्यते / एवं यथोत्तरं वृद्धस्यानवस्थितपल्यस्य भरणरिक्तीकरणक्रमेण तावद्वाच्यं यावदेकैकशलाकाप्रक्षेपेणशलाकापल्यो भ्रियते, अपरांशलाकांन प्रतीच्छति। ततोऽनवस्थितपल्यो भृतोऽपि नोत्क्षिप्यते, किन्तु शलाकापल्य एवोद्धियते। अयमप्यनवस्थितपल्याक्रान्तक्षेत्रात्परत एकैकसर्षपक्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते / यदाच निष्ठितो भवति तदा प्रतिशलाकापल्यलक्षणे तृतीयेपल्ये प्रथमा प्रतिशलाका प्रक्षिप्यते / ततोऽनवस्थितपल्य:समुत्क्षिप्य शलाकापल्ये निष्ठास्थानात्परतस्तेनैव क्रमेण निक्षिप्यते, निष्ठितेच तस्मिञ्छलाकापल्ये शलाका प्रक्षिप्यते। इत्थं पुनरप्यनवस्थितपल्यपूरण रेचनक्रमेण शलाकापल्यःशलाकानां भ्रियते / ततोऽनवस्थितशलाकापल्ययो तयोः शलाकापल्य एवोत्क्षिप्य पूर्वोक्तक्रमेणैव निक्षिप्यते, प्रतिशलाकापल्ये च द्वितीया प्रतिशलाका प्रक्षिप्यते / ततोऽनवस्थितपल्यः समुद्धृत्य शलाकापल्यनिष्ठास्थानात्परतस्तेनैव न्यायेन प्रक्षिप्यते।शलाकापल्येच शलाका प्रक्षिप्यते, एवमनवस्थितपल्यस्योत्क्षेप प्रक्षेपक्रमेण शलाकापल्यः शलाकानां भरणीयः। शलाकापल्यस्य तूत्क्षेप प्रक्षेपविधिना प्रतिशलाकापल्यःप्रतिशलाकानांपूरणीयः। यदाच प्रतिशलाकापल्य:शलाकापल्योऽनवस्थितपल्यश्च त्रयोऽपि भृता भवन्ति तदा प्रतिशलाकापल्य एवोत्क्षिप्य द्वीपसमुद्रेषु तथैव प्रक्षिप्यते / निष्ठिते च तस्मिन्महाशलाकापल्ये प्रथमा महाशलाका प्रक्षिप्यते। ततः शलाकापल्य उत्क्षिप्य तथैव प्रक्षिप्यते, प्रतिशलाकापल्येच प्रतिशलाका प्रक्षिप्यते / ततोऽन १.३प्रमाणम्। द्रव्यादिचतुर्भेदा: सूत्रम् 508 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०॥ 1.3.4.2.3 सड़याभावप्रमाणम्। अष्टानां मध्ये 1.3.4.1.3.7 गणनासङ्काया भा०प्र० उत्कृष्टसवयात सङ्ख्याभावप्रमाणमा

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450