Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 424
________________ [2] निक्षेपः। सूत्रम् श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 402 // 593-599 2.2 नामनिष्पन्ननिक्षेपः। नामादिभेदैः सामायिकनामनिक्षेपणम्। त्वात् / ज्वलनसमः तपस्तेजोमयत्वात्, (तृणादिष्विव सूत्रार्थेष्वतृप्तेः), सागरसमोगुणरत्नपरिपूर्णत्वाज्ज्ञानादिगुणैरगाधत्वाद्वा (गम्भीरत्वाज्ज्ञानादिरत्नाकरात्स्वमर्यादानतिक्रमाच्च)। नभस्तलसमो (सर्वत्र) निरालम्बनत्वात् / तरुगणसमः, सुखदुःखयोरदर्शितविकारत्वात् / भ्रमरसमोऽनियतवृत्तित्वात् / मृगसमः संसारंप्रति नित्यो (संसारभयो)द्विग्नत्वात् / धरणिसमः सर्वंसहत्वात् (सर्वखेदसहिष्णुत्वात्)। जलरुहसमः, निष्पङ्कत्वात्, पङ्कजलस्थानीयकामभोगोपरिवृत्तेरित्यर्थः (कामभोगोद्भवत्वेऽपि पङ्कजलाभ्यामिव तदूर्ध्ववृत्तेः)। रविसम: तमोविघातकत्वात् (धर्मास्तिकायादिलोकमधिकृत्याविशेषण प्रकाशकत्वात्) पवनसमश्च सर्वत्राप्रतिबद्धत्वात् / स एवंभूतः श्रमणो भवतीति गाथार्थः॥१३१॥ यथोक्तगुणविशिष्टश्च श्रमणस्तदा भवति यदा शोभनं मनो भवेदिति दर्शयति तो समणोगाहा / व्याख्या, ततः श्रमणो यदि द्रव्यमनःप्रतीत्य(आश्रित्य) सुमना (भवेत्), भावेन च भावमनश्चाश्रित्य यदि न भवति पापमनाः। सुमनस्त्वचिह्नान्येव श्रमणगुणत्वेन दर्शयति / स्वजने च पुत्रादिके जने च सामान्ये समो निर्विशेषः, मानापमानयोश्च सम इति गाथार्थः॥१३२॥ इह च ज्ञानक्रियारूपं सामायिकाध्ययनं नोआगमतो भावसामायिकं भवत्येव, ज्ञानक्रियासमुदाय आगमस्यैकदेशवृत्तित्वान्नोशब्दस्य च देशवचनत्वात् / एवं च सति सामायिकवत:साधोरपीह नोआगमतो भावसामायिकत्वेनोपन्यासोन विरुध्यते, सामायिकतद्वतोरभेदोपचारादिति भावः॥५९९ // नामनिष्पन्नो निक्षेपः समाप्तः।। अथ सूत्रालापकनिष्पन्नं निक्षेपं निर्दिदिक्षुराह___ से किं तं सुत्तालावगनिप्फण्णे?, 2 इदाणिं सुत्तालावयनिप्फण्णे निक्खेवे इच्छावेइ, से य पत्तलक्खणेविण णिक्खिप्पड़, * कौंसतर्गता: पाठा मुद्रित प्रतानुसारेण ज्ञातव्याः। Oण। 0 वं। सूत्रम 600 2.3 सूत्रालापकनिक्षेपः। // 402 //

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450