Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 376 // संपद्यतेऽत एवेत्थं निर्दिशति / अहवा जहण्णयं परित्ताणतयमित्यादि गतार्थमेव / इत्येकीयाचार्यमतं तावद्दर्शितम् / अन्ये त्वाचार्या उत्कृष्टमसङ्खयेयासङ्खयेयकमन्यथा प्ररूपयन्ति, तथाहि, जघन्यासङ्खयेयासङ्खयेयकराशेर्वर्गः क्रियते, तस्यापि वर्गराशेः पुनर्वर्गो विधीयते, तस्यापि वर्गवर्गराशेः पुनरपि वर्गो निष्पाद्यते, एवं च वारत्रयं वर्गे कृतेऽन्येऽपि प्रत्येकमसङ्खयेयस्वरूपा दश राशयस्तत्र प्रक्षिप्यन्ते, तद्यथा लोगागासपएसा धम्माऽधम्मेगजीवदेसा य। दव्वट्ठिया निओया पत्तेया चेव बोद्धव्वा // 1 // ठिइबंधज्झवसाणा अणुभागा जोगछेयपलिभागा। दोण्ह य समाण समया असंखपक्खेवया दस उ॥२॥इदमुक्तं भवति, लोकाकाशस्य यावन्तः प्रदेशा१स्तथा धर्मास्तिकायस्या 2 धर्मास्तिकायस्यै 3 कस्य च जीवस्य 4 यावन्तःप्रदेशा: / दव्वट्ठिया निओयत्ति, सूक्ष्माणां बादराणांचानन्तकायिकवनस्पतिजीवानां शरीराणीत्यर्थ: 5, पत्तेया चेवत्ति, अनन्तकायिकान्वर्जयित्वा शेषाः पृथिव्यप्तेजोवायुवनस्पतित्रसा: प्रत्येकशरीरिणः सर्वेऽपि जीवा इत्यर्थः 6, ते चासङ्ख्या भवन्ति। ठिइबंधज्झवसाण त्ति, स्थितिबन्धस्य कारणभूतान्यध्यवसायस्थानानि स्थितिबन्धाध्यवसायस्थानानि तान्यप्यङ्येयान्येव / तथाहि, ज्ञानावरणस्य जघन्योऽन्तर्मुहूर्तप्रमाण: स्थितिबन्ध उत्कृष्टस्तु त्रिंशत्सागरोपमकोटीकोटिप्रमाणः,मध्यमपदे त्वेक द्वित्रि चतुरादिसमयाधिकान्तर्मुहूर्तादिकोऽसङ्खयेयभेदः / एषांच स्थितिबन्धानां निर्वर्तकान्यध्यवसायस्थानानि प्रत्येकं भिन्नान्येव / एवं च सत्येकस्मिन्नपिज्ञानावरणेऽसङ्ख्येयानि स्थितिबन्धाध्यवसायस्थानानि लभ्यन्ते,एवंदर्शनावरणादिष्वपिवाच्यमिति 7 / अणुभागत्ति, अनुभागाः, ज्ञानावरणादिकर्मणांजघन्यमध्यमादिभेदभिन्ना रसविशेषाः। एतेषां चानुभागविशेषाणां निवर्तकान्यसङ्खयेयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्त्यतोऽनुभागविशेषा अप्येतावन्त एव द्रष्टव्याः, कारणभेदाश्रितत्वात्कार्यभेदानाम् 8 / जोगच्छेयपलिभागत्ति, योगो मनोवाक्कायविषयं वीर्यं तस्य केवलिप्रज्ञाच्छेदेन प्रतिविशिष्टा निर्विभागा भागा शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 509-514 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०। 1.3.4.1.3 सङ्ख्याभावप्रमाणम्। अष्टानां मध्ये 1.3.4.1.3.7 गणनासङ्ख्या भा०प्र० नवविधासङ्खयेयकम्। // 376 //

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450