Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 375 // |[1] उपक्रमः / शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 509-514 1.3.4 भावप्रमाणम्। 1.3.4.1 एकोत्तरया वृद्ध्याऽसङ्खयेयान्यजघन्योत्कृष्टानि युक्तासङ्खयेयस्थानानि भवन्ति यावदुत्कृष्टं युक्तासङ्खयेयकं न प्राप्नोति ॥५११॥अत्र शिष्यः पृच्छति उक्कोसयं जुत्तासंखेज्जयमित्यादि। अत्र प्रतिवचनंजहण्णएणमित्यादि। जघन्येन युक्तासङ्ख्येयकेनावलिकासमय राशिर्गुण्यते / किमुक्तं भवति? अन्योऽन्यमभ्यासः क्रियते, जघन्ययुक्तासङ्खयेयकराशिस्तेनैव राशिना गुण्यत इति तात्पर्यम् / एवं च कृते यो राशिर्भवति स एकेन रूपेणोन उत्कृष्टं युक्तासनयेयकं भवति / यदि पुनस्तदपि रूपं गण्यते तदा जघन्यमसङ्घयेयासङ्खयेयकं जायतेऽत एवाह- अहवा जहण्णयं असंखिज्जासंखिज्जयं रूवूणमित्यादि गतार्थम् // 512 // उक्तं युक्तासंख्येयकं त्रिविधम्, इदानीमसङ्ख्यासङ्खयेयकं त्रिविधं बिभणिषुराह- जहण्णयं असंखेज्जासंखेज्जयं कत्तियमित्यादि। इदं तु सूत्रं भावितार्थमेव / नवरं पडिपुण्णोत्ति परिपूर्णः, रूपं न पात्यत इत्यर्थः / अहवेत्याद्यपि गतार्थम् / तेण पर मित्यादि। ततः परमसङ्खयेयासङ्खयेयकस्यासङ्खयेयान्यजघन्योत्कृष्ट स्थानानि भवन्ति, यावदुत्कृष्टमसङ्खयेयासङ्खयेयकंन प्राप्नोति // 513 // अत्र विनेयः प्रश्नयति, उक्कोसयं असंखेज्जासंखेज्जयं केत्तियमित्यादि। अत्रोत्तरं जहण्णयं असंखेज्जासंखेज्जयमित्यादि। जघन्यमद्ध्येयासङ्ख्येयकंयावद्भवतीति शेषः, तावत्प्रमाणानां जघन्यासङ्ख्येयासङ्घयेयकमात्राणांजघन्यासङ्खयेयासङ्खयेयकरूपसङ्ख्यानामित्यर्थः। राशीनामन्योऽन्यमभ्यास: परस्परं गुणनास्वरूप एकेन रूपेणोन उत्कृष्टमसङ्ख्येयासङ्ख्येयकं भवति। अयमत्र भावार्थः, प्रत्येकंजघन्यासङ्खयेयासङ्खयेयकरूपा जघन्यासङ्खयेयासङ्खयेयक एव यावन्तिरूपाणि भवन्ति तावन्तोराशयो व्यवस्थाप्यन्ते / तैश्च परस्परगुणितैर्यो राशिर्भवति स एकेन रूपेण हीन उत्कृष्टमसङ्खयेयासङ्ख्येयकं प्रतिपत्तव्यम् / उदाहरणं चात्राप्युत्कृष्टपरीतासङ्खयेयकोक्तानुसारेण वाच्यम् / अत्र च यदेकं रूपं पातितं तदपि यदि गण्यते तदा जघन्यं परीतानन्तकं ®स एवैकेन / ®..ष्टासङ्ख्य..। 0 उक्कोसं। 0 कं। 7 तदप्यत्र। 1.3.4.1.3 सयाभावप्रमाणम्। अष्टानां मध्ये 1.3.4.1.3.7 गणनासङ्ख्या भा०प्र०। नवविधासङ्खयेयकम्। // 375 //

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450