Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 408
________________ [1] उपक्रमः शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 386 // १.६समवतारः। सूत्रम् 527-530 नामादि षड्भेदाः। 1.6.3 द्रव्य समवतार स्वरूपमा आयभावे यं / सेतं जाणयसरीर भवियसरीरवइरित्ते दव्वसमोयारे / सेतं नोआगमओ दव्वसमोयारे / से तं दव्वसमोयारे॥सूत्रम् 530 // से किं तंसमोयारे, इत्यादि।समवतरणम्, वस्तूनांस्वपरोभयेष्वन्तर्भावचिन्तनं समवतारः स च नामादिभेदात्षोढा॥५२७॥ तत्र नामस्थापने सुचर्चिते // 528 // एवं द्रव्यसमवतारोऽपि द्रव्यावश्यकादिवदभ्यूह्य वक्तव्यः॥५२९॥ यावज्ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यसमवतारस्त्रिविधः प्रज्ञप्तः, तद्यथा, आत्मसमवतारइत्यादि / तत्र सर्वद्रव्याण्यप्यात्मसमवतारेण चिन्त्यमानान्यात्मभावे, स्वकीयस्वरूपे समवतरन्ति, वर्तन्ते, तदव्यतिरिक्तत्वात्तेषाम् / व्यवहारतस्तु परसमवतारेण परभावे समवतरन्ति, यथा कुण्डे बदराणीति / निश्चयतः सर्वाण्यपि वस्तूनि प्रागुक्तयुक्त्या स्वात्मन्येव वर्तन्ते, व्यवहारतस्तु स्वात्मन्याधारे च कुण्डादिके वर्तन्त इति भावः / तदुभयसमवतारेण तदुभये वस्तूनि वर्तन्ते / यथा कट कुड्य देहली पट्टादिसमुदायात्मके गृहे स्तम्भो वर्तत आत्मभावे च, तथैव दर्शनादिति / एवं बुध्नोदर कपालात्मके घटे ग्रीवा वर्तत आत्मभावे चेति / आह, यद्येवं शुद्धः परसमवतारो नास्त्येव, कुण्डादौ वृत्तानामपि बदरादीनां स्वात्मनि वृत्तेर्विद्यमानत्वात् / सत्यम्, किन्तु तत्र स्वात्मनि वृत्तिविवक्षामकृत्वैव तथोपन्यासः कृतः / वस्तुवृत्त्या तु द्विविध एव समवतारोऽत एवाह- अथवा ज्ञशरीर भव्यशरीरव्यतिरिक्तो द्रव्यसमवतारो द्विविधः प्रज्ञप्तः, तद्यथा, आत्मसमवतारस्तदुभयसमवतारश्च, शुद्धस्य परसमवतारस्य क्वाप्यसम्भवात् / न हि स्वात्मन्यवर्तमानस्य वान्ध्येयस्येव परस्मिन्समवतारो युज्यत इति भावः। पूर्वं चात्मवृत्तिविवक्षामात्रेणैव त्रैविध्यमुक्तमित्यभिहितम् / चउसट्ठिया आयसमोयारेणमित्यादि सुबोधमेव / नवरं चतुःषष्टिका चतुष्पलमाना पूर्वं निर्णीता, ततश्चैषा लघुप्रमाणत्वादष्टपलमानत्वेन बृहत्प्रमाणायांद्वात्रिंशतिकायांसमवतरतीति प्रतीतमेव / एवंद्वात्रिंशतिकापि षोडशपलमानायां Oणि। (r) यद्येवमशुद्धं (यद्येवंशुद्धः) तदा / (r) अशुद्धस्य (शुद्धस्य)। // 386 //

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450