SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ [1] उपक्रमः शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 386 // १.६समवतारः। सूत्रम् 527-530 नामादि षड्भेदाः। 1.6.3 द्रव्य समवतार स्वरूपमा आयभावे यं / सेतं जाणयसरीर भवियसरीरवइरित्ते दव्वसमोयारे / सेतं नोआगमओ दव्वसमोयारे / से तं दव्वसमोयारे॥सूत्रम् 530 // से किं तंसमोयारे, इत्यादि।समवतरणम्, वस्तूनांस्वपरोभयेष्वन्तर्भावचिन्तनं समवतारः स च नामादिभेदात्षोढा॥५२७॥ तत्र नामस्थापने सुचर्चिते // 528 // एवं द्रव्यसमवतारोऽपि द्रव्यावश्यकादिवदभ्यूह्य वक्तव्यः॥५२९॥ यावज्ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यसमवतारस्त्रिविधः प्रज्ञप्तः, तद्यथा, आत्मसमवतारइत्यादि / तत्र सर्वद्रव्याण्यप्यात्मसमवतारेण चिन्त्यमानान्यात्मभावे, स्वकीयस्वरूपे समवतरन्ति, वर्तन्ते, तदव्यतिरिक्तत्वात्तेषाम् / व्यवहारतस्तु परसमवतारेण परभावे समवतरन्ति, यथा कुण्डे बदराणीति / निश्चयतः सर्वाण्यपि वस्तूनि प्रागुक्तयुक्त्या स्वात्मन्येव वर्तन्ते, व्यवहारतस्तु स्वात्मन्याधारे च कुण्डादिके वर्तन्त इति भावः / तदुभयसमवतारेण तदुभये वस्तूनि वर्तन्ते / यथा कट कुड्य देहली पट्टादिसमुदायात्मके गृहे स्तम्भो वर्तत आत्मभावे च, तथैव दर्शनादिति / एवं बुध्नोदर कपालात्मके घटे ग्रीवा वर्तत आत्मभावे चेति / आह, यद्येवं शुद्धः परसमवतारो नास्त्येव, कुण्डादौ वृत्तानामपि बदरादीनां स्वात्मनि वृत्तेर्विद्यमानत्वात् / सत्यम्, किन्तु तत्र स्वात्मनि वृत्तिविवक्षामकृत्वैव तथोपन्यासः कृतः / वस्तुवृत्त्या तु द्विविध एव समवतारोऽत एवाह- अथवा ज्ञशरीर भव्यशरीरव्यतिरिक्तो द्रव्यसमवतारो द्विविधः प्रज्ञप्तः, तद्यथा, आत्मसमवतारस्तदुभयसमवतारश्च, शुद्धस्य परसमवतारस्य क्वाप्यसम्भवात् / न हि स्वात्मन्यवर्तमानस्य वान्ध्येयस्येव परस्मिन्समवतारो युज्यत इति भावः। पूर्वं चात्मवृत्तिविवक्षामात्रेणैव त्रैविध्यमुक्तमित्यभिहितम् / चउसट्ठिया आयसमोयारेणमित्यादि सुबोधमेव / नवरं चतुःषष्टिका चतुष्पलमाना पूर्वं निर्णीता, ततश्चैषा लघुप्रमाणत्वादष्टपलमानत्वेन बृहत्प्रमाणायांद्वात्रिंशतिकायांसमवतरतीति प्रतीतमेव / एवंद्वात्रिंशतिकापि षोडशपलमानायां Oणि। (r) यद्येवमशुद्धं (यद्येवंशुद्धः) तदा / (r) अशुद्धस्य (शुद्धस्य)। // 386 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy