Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ [१]उपद्र क्रमः। उपक्रमः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 370 // १.३प्रमाणम्। द्रव्यादिचतुर्भेदाः प्रथमशलाका, एकः सर्षपः प्रक्षिप्यत इत्यर्थः / एवइयाणं सलागाणं असंलप्पा लोगा भरियत्ति, लोक्यन्ते केवलिना दृश्यन्त इति लोकाः, व्याख्यानादिह वक्ष्यमाणा:शलाकापल्यरूपागृह्यन्ते। ते चैक दशशत सहस्र लक्ष कोटिप्रकारेण संलपितुमशक्याऽसंलप्याः, अतिबहव इत्यर्थः / यथोक्तशलाकानामसत्कल्पनया भृताः पूरितास्तथाप्युत्कृष्टं सङ्ख्येयकंन प्राप्नोति। आकण्ठपूरिता अपि हि लोकरूढ्या भृता उच्यन्ते, न चैतावतैवोत्कृष्टं सङ्ख्येयकं सम्पद्यते, किन्तु यदा सप्रशिखतया तथा ते भ्रियन्ते यथा नैकोऽपि सर्षपस्तत्रापरो माति तदा तद्भवतीति भावः। ननु सप्रशिखतया सर्वथाऽभृतमपि लोके किं भृतमुच्यते?, सत्यम्, प्रोच्यत एव, तथा चात्रार्थे दृष्टान्तं दिदर्शयिषुराह- यथा को दृष्टान्तः? इति शिष्येण पृष्टे सत्युत्तरमाह- तद्यथा नाम कश्चिन्मश्च: स्यात्, स चामलकानां भृत इति शिखामन्तरेणापि लोकेन व्यपदिश्यते / अथ च तत्रैकमामलकं प्रक्षिप्त तन्मातमपरमपि प्रक्षिप्तं तदपि मातमन्यदपि प्रक्षिप्तं तदपि मातमेवमपरापरैः प्रक्षिप्यमाणैः भविष्यति तदामलकं येनासौ8 मञ्चो भरिष्यते, यच्च तदुत्तरकालंतत्र मञ्चेन मास्यति / इत्थं चात्राप्यपरापरैर्यथोक्तशलाकारूपैः प्रक्षिप्तैर्यदा संलपितुमशक्या अष्टानां म अतिबहवःसप्रशिखा:पल्या असत्कल्पनया भृता भवन्ति तदोत्कृष्टं सङ्ख्येयकं भवतीत्यध्याहारो द्रष्टव्य इति तावदक्षरार्थः। भावार्थस्त्वयम्, पूर्वनिदर्शितस्वरूपादनवस्थितपल्यादपरेऽपि जम्बूद्वीपप्रमाणा योजनसहस्रावगाढास्त्रयः पल्या बुद्ध्या कल्प्यन्ते / तत्र प्रथमः शलाकापल्यः, द्वितीयः प्रतिशलाकापल्यस्तृतीयो महाशलाकापल्यः। तत्रानवस्थितपल्यो भृतः शलाकापल्ये च प्रथमा शलाका प्रक्षिप्तेति पूर्वमादर्शितम् / तदनन्तरं पुनरप्यनवस्थितपल्यसर्षपाः समुत्क्षिप्यैको द्वीपे, एक समुद्र इत्येवं प्रक्षिप्यन्ते। तैश्च निष्ठितैः शलाकापल्ये द्वितीया शलाका प्रक्षिप्यते / सर्षपाश्च प्रक्षिप्यमाणा यत्र द्वीपे समुद्रेवा ७'कोऽत्र' इति / 0 ति। सूत्रम् 508 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०। 1.3.4.1.3 सडचाभावप्रमाणम्। 1.3.4.1.3.7 गणनासड़या भा०प्र०। उत्कृष्टसङ्गयात सहयाभावप्रमाणम्। // 370 //

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450