SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ [१]उपद्र क्रमः। उपक्रमः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 370 // १.३प्रमाणम्। द्रव्यादिचतुर्भेदाः प्रथमशलाका, एकः सर्षपः प्रक्षिप्यत इत्यर्थः / एवइयाणं सलागाणं असंलप्पा लोगा भरियत्ति, लोक्यन्ते केवलिना दृश्यन्त इति लोकाः, व्याख्यानादिह वक्ष्यमाणा:शलाकापल्यरूपागृह्यन्ते। ते चैक दशशत सहस्र लक्ष कोटिप्रकारेण संलपितुमशक्याऽसंलप्याः, अतिबहव इत्यर्थः / यथोक्तशलाकानामसत्कल्पनया भृताः पूरितास्तथाप्युत्कृष्टं सङ्ख्येयकंन प्राप्नोति। आकण्ठपूरिता अपि हि लोकरूढ्या भृता उच्यन्ते, न चैतावतैवोत्कृष्टं सङ्ख्येयकं सम्पद्यते, किन्तु यदा सप्रशिखतया तथा ते भ्रियन्ते यथा नैकोऽपि सर्षपस्तत्रापरो माति तदा तद्भवतीति भावः। ननु सप्रशिखतया सर्वथाऽभृतमपि लोके किं भृतमुच्यते?, सत्यम्, प्रोच्यत एव, तथा चात्रार्थे दृष्टान्तं दिदर्शयिषुराह- यथा को दृष्टान्तः? इति शिष्येण पृष्टे सत्युत्तरमाह- तद्यथा नाम कश्चिन्मश्च: स्यात्, स चामलकानां भृत इति शिखामन्तरेणापि लोकेन व्यपदिश्यते / अथ च तत्रैकमामलकं प्रक्षिप्त तन्मातमपरमपि प्रक्षिप्तं तदपि मातमन्यदपि प्रक्षिप्तं तदपि मातमेवमपरापरैः प्रक्षिप्यमाणैः भविष्यति तदामलकं येनासौ8 मञ्चो भरिष्यते, यच्च तदुत्तरकालंतत्र मञ्चेन मास्यति / इत्थं चात्राप्यपरापरैर्यथोक्तशलाकारूपैः प्रक्षिप्तैर्यदा संलपितुमशक्या अष्टानां म अतिबहवःसप्रशिखा:पल्या असत्कल्पनया भृता भवन्ति तदोत्कृष्टं सङ्ख्येयकं भवतीत्यध्याहारो द्रष्टव्य इति तावदक्षरार्थः। भावार्थस्त्वयम्, पूर्वनिदर्शितस्वरूपादनवस्थितपल्यादपरेऽपि जम्बूद्वीपप्रमाणा योजनसहस्रावगाढास्त्रयः पल्या बुद्ध्या कल्प्यन्ते / तत्र प्रथमः शलाकापल्यः, द्वितीयः प्रतिशलाकापल्यस्तृतीयो महाशलाकापल्यः। तत्रानवस्थितपल्यो भृतः शलाकापल्ये च प्रथमा शलाका प्रक्षिप्तेति पूर्वमादर्शितम् / तदनन्तरं पुनरप्यनवस्थितपल्यसर्षपाः समुत्क्षिप्यैको द्वीपे, एक समुद्र इत्येवं प्रक्षिप्यन्ते। तैश्च निष्ठितैः शलाकापल्ये द्वितीया शलाका प्रक्षिप्यते / सर्षपाश्च प्रक्षिप्यमाणा यत्र द्वीपे समुद्रेवा ७'कोऽत्र' इति / 0 ति। सूत्रम् 508 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०। 1.3.4.1.3 सडचाभावप्रमाणम्। 1.3.4.1.3.7 गणनासड़या भा०प्र०। उत्कृष्टसङ्गयात सहयाभावप्रमाणम्। // 370 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy