SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 369 // [1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। ब्रव्यादिचतुर्भेदाः सूत्रम् 508 1.3.4.1 गुण प्र०। 1.3.4.1.3 एगे दीवे एगे समुद्दे 2, एवं पक्खिप्पमाणेहिं 2 जावइया णं दीवसमुद्दा तेहिं सिद्धत्थएहि अप्फुन्ना, एस णं एवतिए खेत्ते पल्ले पढमा सलागा, एवइयाणं सलागाणं असंलप्पा लोगा भरिया तहावि उक्कोसयं संखेज्जयंण पावइ, जहा को दिटुंतो?, से जहाणामए मंचे सिया आमलगाणं भरिते, तत्थ णंएगे आमलए पक्खित्ते से माते, अण्णेऽविपक्खित्ते सेवि माते, अन्नेवि पक्खित्ते सेवि माते एवं पक्खिप्पमाणे 2 होही से आमलए जंमि पक्खित्ते से मंचए भरिजिहिइ जे वि तत्थ आमलए न माहिति, ॥सूत्रम् 508 // तत्र कियत्पुनरुत्कृष्ट सङ्ख्येयकं भवतीति विनेयेन पृष्टे विस्तरेण तस्य प्ररूपयिष्यमाणत्वादित्थमाह- उत्कृष्टस्य सङ्ख्येयकस्य प्ररूपणां करिष्यामि। तदेवाह- तद्यथा नाम कश्चित्पल्यः स्यात्, कियन्मान इत्याह-आयामविष्कम्भाभ्यां योजनशतसहस्रम्, परिधिनातु परिही तिलक्ख सोलस सहस्स दो य सय सत्तवीसहिया। कोसतिय अट्ठवीसं धणुसय तेरंगुलद्धहियं॥१॥(बृहत्क्षेत्र 6) इतिगाथाप्रतिपादितमानः, जम्बूद्वीपप्रमाण इति भावः / अयंचाधस्ताद्योजनसहस्रमवगाढो द्रष्टव्यः, रत्नप्रभापृथिव्या रत्नकाण्डं भित्त्वा वज्रकाण्डे प्रतिष्ठित इत्यर्थः / स चैवंप्रमाण: पल्यो जम्बूद्वीपवेदिकान्त उपरि सप्रशिख: सिद्धार्थानां सर्षपानां भ्रियते। ततो णं तेहि मित्यादि। इदमुक्तं भवति, ते सर्षपा असत्कल्पनया देवादिना समुत्क्षिप्यैको द्वीपे, एकः समुद्र इत्येवं सर्वेऽपि प्रक्षिप्यन्ते, यत्र च द्वीपे समुद्रे वात इत्थं प्रक्षिप्यमाणा निष्ठांयान्ति तत्पर्यवसानो जम्बूद्वीपादिरनवस्थितपल्यः कल्प्यते। अत एवाह- एसणं एवइए खेत्ते पल्लेत्ति, यावन्तोद्वीपसमुद्रास्तैःसर्षपैः, अप्फुण्णत्ति, व्याप्ता इत्यर्थः। एतदेतावत्प्रमाणं क्षेत्रमनवस्थितपल्यः, सर्षपभृतो बुद्ध्या परिकल्प्यत इत्यर्थः / ततः किमित्याह- पढमा सलागत्ति / ततः शलाकापल्ये Oऽवि। ®णं' इत्यधिकम्। 0 जंसि। 0 परिधिस्त्रयो लक्षाः षोडश सहस्रा द्वे च शते सप्तविंशत्यधिके। क्रोशत्रिकमष्टाविंशं धनुःशतं त्रयोदशाङ्गुलानि अर्धाधिकानि॥१॥0 ह। त। भावप्रमाणम्। अष्टानां मध्ये 1.3.4.1.3.7 गणनासङ्ख्या भा०प्र०॥ उत्कृष्टसहयात सङ्ख्याभावप्रमाणम्।
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy