________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 342 // [1] उपक्रमः। शा० उपक्रमः। १.३प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 467-470 1.3.4 भावप्रमाणमा 1.3.4.1 गण प्र०। 1.3.4.1.1 सुत्तस्स अणंतरागमे अत्थस्स परंपरागमे, तेण परंसुत्तस्सवि अत्थस्सविणो अत्तागमे, णो अणंतरागमे, परंपरागमे।सेतं लोगुत्तरिए। सेतं आगमे।सेतंणाणगुणप्पमाणे ॥सूत्रम् 470 // से किं तं आगमे, इत्यादि। गुरुपारम्पर्येणागच्छतीत्यागमः / आ, समन्तागम्यन्तेज्ञायन्ते जीवादयः पदार्था अनेनेति वागमः। अयं द्विधा प्रज्ञप्तः, तद्यथा, लोइए, त्यादि। इदं चेहैव पूर्वं भावश्रुतं विचारयता व्याख्यातम्, से तं लोगुत्तरिए आगमेत्ति। 467-69 // अहवा आगमे तिविहे, इत्यादि / तत्र सूत्रमेव सूत्रागमः, तदभिधेयश्चार्थ एवार्थागमः,सूत्रार्थोभयरूपस्तु तदुभयागमः। अथवान्येन प्रकारेणागमस्त्रिविधः प्रज्ञप्तः, तद्यथा, आत्मागम इत्यादि। तत्र गुरूपदेशमन्तरेणात्मन एवागम आत्मागमो यथा तीर्थङ्कराणामर्थस्यात्मागमः, स्वयमेव केवलोपलब्धेः / गणधराणां तु सूत्रस्यात्मागमः, स्वयमेव ग्रथितत्वाद् / अर्थस्यानन्तरागमः, अनन्तरमेव तीर्थकरादागतत्वाद् / उक्तं च अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउण (आवश्यक नि०९२) मित्यादि। गणधरशिष्याणां जम्बूस्वामिप्रभृतीनां सूत्रस्यानन्तरागमः, अव्यवधानेन गणधरादेव श्रुतेः। अर्थस्य परम्परागमः, गणधरेणैव व्यवधानात् / तत ऊर्ध्वं प्रभवादीनां सूत्रस्यार्थस्य च नात्मागमो नानन्तरागमः, तल्लक्षणायोगादपि तु परम्परागम एव / अनेन चागमस्य तीर्थकरादिप्रभवत्वभणनेनैकान्तापौरुषेयत्वं निवारयति।पौरुषताल्वादिव्यापारमन्तरेण नभसीव विशिष्टशब्दानुपलब्धेः। ताल्वादिभिरभिव्यज्यत एव शब्दो न तु क्रियत इति चेत् / ननु यद्येवं तर्हि सर्ववचसामपौरुषेयत्वप्रसङ्गः, तेषां भाषापुद्गलनिष्पन्नत्वाद्भाषापुद्गलानां च लोके सर्वदैवावस्थानतोऽपूर्वक्रियमाणताऽयोगेन ताल्वादिभिरभिव्यक्तिमात्रस्यैव निर्वर्तनात् / नच वक्तव्यम्, वचनस्य पौगलिकत्वमसिद्धम्, महाध्वनिपटलपूरितश्रवणबाधिर्यकुड्यस्खलनाद्यन्यथानुपपत्तेः। ®यावत्से तं लोइए, से किं तं लोगुत्तरिए आगमेत्ति। 7 लेनो। 0 अर्थं भाषते अर्हन् सूत्रं ग्रनन्ति गणधरा निपुणम्। जीवगुण प्र०। 1.3.4.1.1.1 ज्ञानगु०प्र०॥ 1.3.4.1.1.1.4 आगमज्ञानगुः। तस्य लौकिकलोकोत्तरिक द्विभेदौ। सूत्रादिभेदाच। // 342 //