Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 401
________________ ३९८ बृहत्कल्प-छेदसूत्रम् -२-३/८८ [भा.३९४६] संजोययते कूडं, हलं पडं ओसहे य अन्नोन्ने। भोयणविहिं च अन्ने, तत्थ वि नाणत्तगंबहुहा॥ वृ-कश्चिद् लुब्धको मृगादीनां बन्धनाय कूटं रज्वादिना संयोजयति, अपरो हालिकादि क्षेत्रकर्षणाय हलं युगादिना योजयति, अन्यस्तु पटं पटान्तरेण सह सीवनप्रयोगेण संयुनक्ति, कश्चित्तुवैद्यादि औषधानि' हरीतकी-पिप्पलीप्रभृतीन्यन्यान्यानिपरस्परमेकतरमीलयति, अन्यस्तु 'भोजनविधि' शालि-दालि-घृत-शालनकादिकं संयुनक्ति, तत्रापि कर्मबन्धविशेषस्य बहुधा नानात्वंप्रतिपत्तव्यम्।तथाहिन्यः कूटं संयोजयतितस्य सङक्लिष्टपरिणामतया तीव्रतरःकर्मबन्धः, तदपेक्षयाहलं संयोजयतःस्वल्पतरः, पटंसंयोजयतः स्वल्पतमइत्यादि तरः कर्मबन्धः, तदपेक्षया हलंसंयोजयतः स्वल्पतरः, पटंसंयोजयतः स्वल्पतम इत्यादि स्वबुध्या सम्यगुपयुज्य वक्तव्यम्। अथ निर्वर्तना-संयोजने द्वे अपि यत्र मस्भवतः तान्युपदर्शयति[मा.३९४७] निव्वत्तणा य संयोजणाय सगडाइएसु अभवंति। आसज्जुत्तरकरणं, निव्वत्ती मूलकरणंतु॥ वृ-निर्वर्तना च संयोजना च शकटादिषु द्वे अपि भवतः । तथाहि-शकटाङ्गानाम्उद्धिचक्रप्रभृतीनांयाप्रथमतोघटना सा निर्वर्तना, यापुनस्तेषामेव निर्वतितानामेकत्र सङ्घातना सा संयोजना । अत्र च 'उत्तरकरणं' संयोजनारूपामुत्तरक्रियाम् ‘आसाद्य' प्रतीत्य 'निवृत्तिः' प्रथमतो निर्वर्तना मूलकरणं प्रतिपत्तव्यम् ।। गतमधिकरणद्वारम् । अथ वीर्यद्वारमाह[भा.३९४८] देहबलं खलु विरियं, लसरिसो चेव होति परिणामो। आसज्ज देहविरियं, छट्ठाणगया तु सव्वत्तो॥ वृ-यद् ‘देहबलं' संहननजनितं शरीरसामर्थ्यतत् खलु वीर्य मन्तव्यम्। तस्य च बलस्य सश एवप्राणिनां परिणामो भवति।तथाहि-यः सेवार्तसंहननीजघन्यबलोजीवस्तस्य परिणामोऽपि शुभोऽशुभो वा मन्द एव भवति न तीव्रः, ततः शुभा-ऽशुभकर्मबन्धोऽपि तस्य स्वल्पतर एव, अत एवास्योर्द्धगतौ कल्पचतुष्टयादूर्द्धम् अधोगतौ नरकपृथ्वीद्वयादध उपपातो न भवतीति प्रवचने प्रतिपाद्यते । एवं कीलिकादिसंहननिष्वपि भावना कार्या । इदं च देहवीर्यम् ‘आसाद्य' प्राप्यषट्स्थानगताः ‘सर्वत-' सर्वेष्वपिसंहननेषुप्राणिनः पपरं भवन्ति।तथाहि-सेवार्तसंहननिषु ये सर्वजघन्यबलास्तदपेक्षया अप्नरेऽनन्तभागवृध्या असझ्यातमागवृध्या सङ्ख्यातभागवृध्या सङ्ख्यातगुणवृध्या असङ्ख्यातगुणवृध्या अनन्तगुणवृध्या वा भवन्ति, एवं कीलिकादिष्वपि । यतः षट्स्थानपतिताः प्राणिनोऽतो देबलवैचित्र्येण परिणामवैचिव्यात् कर्मबन्धोऽपि विचित्रो भवतीति स्थितम् ॥बलद्वारमेव प्रकारान्तेन व्याचष्टे[भा.३९४९] अहवा बालादीयं, तिविहं विरियं समासतो होति। बंधविसेसो तिण्ह नि, पंडिय बंधी अबंधी य॥ वृ-अथवा वीर्यबालादिभेदात् त्रिविधम् ।तत्र बालस्य-असंयतस्य प्राणातिपाताद्यसंयमकरणे यद् वीर्यं तद् बालवीर्यम्, बालपण्डितस्य-देशविरतस्य संयमा-ऽसंयमविषयं वीर्यं बालपण्डितवीर्यम्, पण्डितस्य-सर्वविरतस्य सर्वसंयमविषयंवीर्यपण्डितवीर्यम् । एतत्रिविधंवीर्यसमासतो भवति। एषांत्रयाणामपिबन्धविशेषः, तद्यथा-बालवीर्यवान्प्रभूततरंकर्मबध्नाति, बालपण्डित Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516