Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 484
________________ ४८१ - उद्देशक : ३, मूलं-९५, [भा. ४३५०] अबलाओ पगइभयालुगाउ रक्खा अतो इत्थी। -'अन्यस्यापि' पुरुषादेः 'सन्देहम्' आपदं दृष्ट्वायाः स्त्रयः पवनसम्पर्कतोलताइव कम्पन्ते, याश्चाबलाः प्रकृत्या-स्वभावेनैवच "भयालुयाउ"त्तिभयबहुलाः,अतस्ताः स्त्रयः प्रथमंरक्षणीयाः॥ आह-साधु-साध्वीनां निस्तारणे किमेष एवाचार्य-प्रवर्त्तिन्यादिकःक्रमः? उतान्यथाऽप्यस्ति? उच्यते-अस्तीति ब्रूमः। तथा चाह[भा.४३५१] जं पुन संभावेमो, भाविणमहियममुकातो वत्यूओ। तत्थुक्कम पि कुणिमो, छेओदइए वणियभूया ॥ - 'यं पुनः' क्षुल्लकादिकमपि 'अमुकाद्' आचायदिर्वस्तुनः सकाशात् प्रवचनप्रभावनादिभिर्गुणैः ‘अधिकं' सातिशयं 'भाविनं' भविष्यन्तं सम्भावयामः तत्र वयम् ‘उक्रममपि' यथोक्तक्रमोल्लकनमपि कुर्मह, क्षुल्लकादिकमपि प्रथमं तारयाम इत्यर्थः । कथम्भूताः ? इत्याहछेदश्च-व्यय औदयिकश्च-लाभःछेदौदयिकंतत्र वणिग्भूताः सन्तः । किमुक्तंभवति?-यथावणिग् यदेव प्रभूतलाभमल्पव्ययं वस्तु तस्य ग्रहणं करोति, एवं वयमपि यत्र विशिष्टपात्रभूते वस्तुनि गृहीतेप्रवचनप्रभावना-तीर्थाव्यवच्छेदादिको भूयान्लाभः समुज्जम्भते स्वल्पश्चेतरपरित्यागलक्षणो व्ययः तं क्षुल्लकादिकमपि गृह्णीम इति ॥ एवं तातदुदकविषयं ग्रहणमभिहितम्, अथाग्नि-स्तेनादिविषयं तदेवातिदिशन्नाह- . [भा.४३५२] अगनी सरीरतेने, ओमऽद्धाणे गिलाणमसिवे य । .. सावयभय राभए, जहेव आउम्मि गहणं तु॥ वृ-अग्निसम्भ्रमे शरीरस्तेनभये अवमे अध्वनि ग्लानत्वे अशिवे श्वापदभये राजभये च यथैवाप्काये ग्रहणमभिहितं तथैवैतेष्वपि सचित्त-मिश्रभेदाद् द्विविधमपि वक्तव्यम् ।। अथाचित्तग्रहणमभिधित्सुराह[भा.४३५३] अचित्तस्स उ गहणं, अभिनवगहणंपुराणमहणंच। उवठावणाए गहणं, तह य उवठ्ठाविए गहणं ।। वृ-अचित्त-वस्त्र-पात्रादिकमुपकरणं तस्य ग्रहणं द्विधा-अभिनवग्रहणं पुराणग्रहणं च । तत्राभिनवं-प्रथममेव यद् वस्त्रादेग्रहणंतदभिनवग्रहणम्, पुराणस्य-प्राग्गृहीतस्य चोलपट्टकादेः कूपरादिना ग्रहणं पुराणग्रहणम् । तच्च द्विधा-उपस्थापनायां ग्रहणम् उपस्थापिते ग्रहणं च । तत्रोपस्थापनायां विधीयमानायां हस्तिदन्तोन्नवकारहस्तादिभिर्यद् रजोहरणादि गृह्यते तद् उपस्थापनाग्रहणम् । उपस्थापितस्य-छेदपस्थापनीयचारित्रं प्रापितस्य यद् उपधेर्धारणं परिभोगो वा तद् उफस्थापितग्रहणम्॥ एनामेव गाथां व्याख्यानयति[भा.४३५४] ओहे उवग्गहम्मिय, अभिनवगहणंतु होइ अच्चित्ते। _ इयरस्स वि होइ दुहा, गहणंतुपुराणउवहिस्स ।। दृ-अचित्तस्य वस्त्र-पात्रादेरभिनवग्रहणं द्विधा-ओघोपधिविषयम् औपग्रहिकोपधिविषयं च । 'इतरस्यापि' पुराणोपधेर्ग्रहणं द्विधा, उपस्थापनाग्रहणमुपस्थापितग्रहणं चेत्यर्थः ।। 1931 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516