Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 494
________________ ४९१ उद्देशक : ३, मूलं-९६, [भा. ४३९४] मज्झच्चगमवणेत्ता, कमागयं गेण्हह ममं पि । वृ. 'वा' इत्यथवा सद्भावेनैव तस्य कण्टको लग्नः स च अनधिसह्यः-सोठुमशक्यः ततो वेण्टिकामन्येनोत्क्षेपयेत्। उत्क्षेप्य चब्रूयात्-मदीयंकण्टकमपनीय क्रमागतंममापि योग्यं संस्तारकं गृह्णीत; एष शुद्धः॥ अथ विचारादिद्वाराण्यतिदिशन्नाह[भा.४३९५] एमेव य वीयारे, उज्जु अनुज्जू तहेव पासवणे। धम्मकहालक्खेण व, आवजइ मासियं मादी ।। वृ- एवमेव विचारविषयेऽपि ऋजुरनृजुश्च वक्तव्यः, मायी अमायी चेत्यर्थः । तथैव प्रश्रवणद्वारेऽपिविभाषा कर्तव्या। धर्मकथायावालक्ष्येण-व्याजेन कश्चित्क्रमागतसंस्तारकव्यत्यासंकरोति सोऽपि ‘मायी' मायावानिति कृत्वा मासिकं लघुकमापद्यते । अथ सद्भावतो धर्मकथां करोति ततः शुद्ध एव ॥ अपि च-तदानीं सद्भावतो धर्मकथायां विधीयमानायाममी गुणाः[भा.४३९६] दुवियड्डबुद्धिमलणं, सड्डा सेज्जायरेयराणं च । तित्थविवड्डि पभावण, असारियं चेव कहयंते॥ वृ-श्रोतृणां या दुर्विदग्धा-विपरीतशास्त्रपल्लवग्राहिणी बुद्धिस्तस्या मलन-मर्दनं कृतं भवति । शय्यातरय॑इतरेषां च-श्राद्धानां श्रद्धा वर्धिता भवति। धर्मश्रवणानन्तरंच बहुषु भव्येषुप्रव्रज्यां प्रतिपद्यमानेषु तीर्थस्य विवृद्धि कृता भवति, प्रभावना च प्रवचनस्य जायते-अहो ! विजयते जैनेन्द्रशासनं यत्रेशाधर्मकथालब्धिसम्पन्नाइति।अपि च-सागारिका बहिधर्मश्रवणव्याक्षिप्ताः सन्तः प्रतिश्रयमध्ये न प्रविशेयुः, ततश्च साधूनामुपकरणं प्रत्युपेक्षमाणानामसागारिकं भवति । एवमेते गुणा धर्म कथयति भवन्ति॥ अथ प्रचलायनद्वारं भावयति[भा.४३९७] मा पयल गिण्ह संथारगं ति पयलाइ इय विजइ वुत्तो। को नाम न निग्गिण्हइ, खणमित्तं तेन गुरुओ से । वृ-गणावच्छेदिकाना कश्चित् प्रचलायमानो भणितः-मा प्रचलाय, गृहाण संस्तारकम् इति उक्तोऽपियद्यसौ प्रचलायते ततो ज्ञातव्यम्-शठ एषः। कुतः? इत्याह-'को नाम' महानिद्रालुरपि 'क्षणमात्रं' यावता संस्तारको गृह्यते तावन्मानं कालं निद्रां न निगृह्णाति? स तु तावन्तमपि कालं निद्रानिरोधमकुर्वाणः परिस्फुटं मायावानेव मन्तव्यः । अत एव "से" तस्य तीव्रतरमायाविनो मासगुरु प्रायश्चित्तम् ।। अथ संस्तारकग्रहणे विधिमाह[भा.४३९८] विच्छिन्न कोट्टिमतले, डहराए विसमए अघेपंति। होइ आहाराइणियं, राइणिया ते इमे होति॥ वृ-विस्तीर्णायां वा 'डहरायांवा' सङ्कीर्णायां वसतौ कुट्टिमतले वाविषमे वा भूभागेयथारत्नाधिकं संस्तारका गृह्यन्ते । ते च रत्नाधिका इमे भवन्ति ॥ [भा.४३९९] उवसंपज्ज गिलाणे, परित्त खमए अवाउडिय थेरे। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516