Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 497
________________ ४९४ बृहत्कल्प-छेदसूत्रम् - २-३/९६ वृ- श्लेष्मलो ब्रूयात्-मम तावदेषः 'स्थायः' अवकाशो मध्ये सञ्जातः, मम च 'खेल' श्लेष्मा नित्यं प्रस्पन्दते, अत्र चोभयतोऽपि पार्श्ववर्त्तिसंस्तारकाकीर्णे 'शरावस्य' खेलमल्लकस्य न्त्यवकाशः, अत्र च संस्तारयन्नहं प्रत्यासन्नसुप्तान् शेषसाधूनपि मा श्लेष्मणा सिञ्चेयमिति । ततो तस्य विविक्ते प्रदेशे संस्तारकः स तस्यात्मीयमवकाशं प्रयच्छति ॥ प्रवातनिवातद्वारमाह [भा.४४०९] निद्दं न विंदामिह उव्वरेणं, को मे पवायम्मि दएज भूमिं । सीएण वाणय मज्झ बाहिं, न पच्चए अन्नमहऽन्न आह ।। वृ- पित्तलो ब्रूयात्- अहम् 'इह' निवाते संस्तारयन् 'उद्वरेण' धर्मोपतापेन निद्रां 'न विन्दामि' लभे, अतः को नाम मे प्रवाते भूमिकां दद्यात् ? ; 'अथ' अनन्तरम् 'अन्यः' वातलः सः 'आह' ब्रूयात् - शीतेन वातेन च पीड्यमानस्य मम बहि प्रसुप्तस्यान्नं 'न पच्यते' नी जीर्यते; तत एतौ परस्परं संस्तारकं परिवर्त्तयतः ।। इह सङ्गगाथायां खेल-प्रवात-निवातग्रहणमुपलक्षणं तेनदमभिधीयते [भा. ४४१०] जोइंति पक्कं न उ पक्कलेणं, ठावेंति तं सूरहगस्स पासे । एक्कम्मि खंभम्मि न मत्तहत्थी, बज्झंति वग्घा न य पंजरे दो ॥ वृ- यः 'पक्वः' असङ्घडिकः कलहनशील इत्यर्थः तं पक्केन सह न योजयन्ति, किन्तु यः 'शूरहकः' कलहादिकुर्वतां शिक्षां कर्त्तुं समर्थस्तस्य पार्श्वे तं स्थापयन्ति । यत एकस्मिन्नालान स्तम्भे द्वौ मत्तहस्तिनौ न बध्येते, परस्परं भण्डनसम्भवात्; एवमेकस्मन् पञ्चरे द्वौ व्याघ्रौ न प्रक्षिप्येते ॥ अथ 'पाहुणए जं विहिग्गहणं" ति पदं व्याख्यातुमाह [भा. ४४११] रायणिओ आयरिओ, आयरियस्सेव अक्कमइ ठागं । इतरो वसभट्ठाए, ठायइ जे ते व दो ठागा ॥ वृ- यदि प्राधूर्णक आचार्यै रत्नाधिकस्ततोऽसावाचार्यस्यैव 'स्थानम्' अवकाशमाक्रामति, वास्तव्याचार्यस्थाने संस्तारयतीत्यर्थः । 'इतरः' वास्तव्याचार्य 'वृषभस्य' उपाध्यायस्य 'स्थाने' अवकाशे 'तिष्ठति' संस्तारयति; अथवा यद् आचार्यसत्कं संस्तारकत्रयं तन्मध्यादेकस्मिन् प्राधुणकाचार्य प्रसुप्तः, “जे ते व दो ठग' त्ति ततो यौ तौ द्वावशिष्यमाण संस्तारकौ तयोरेकस्मिन् वास्तव्याचार्य संस्तारयति ॥ [ भा. ४४१२] ओमो पुन आयरिओ, वसभोगासे अनंतरे वसभो । संछोभपरंपरओ, चरिमं सेहं च मोत्तूणं ॥ वृ- अथासौ प्राघुणक आचार्य 'अवमः' पर्यायलघुस्ततोऽसौ वृषभस्यावकाशे संस्तारयति । वृषभस्तु तदनन्तरे - अवमरालिकस्थाने स्वपिति । एवं संस्तारकाणां 'संछोभपरम्परकः' परम्परया स्थानान्तरसङ्क्रमणरूपः तावद् मन्तव्यो यावद् द्विचरमः साधुः । यस्तु चरमः सर्वपाश्चात्यावकाशशायी तं शैक्षं च मुक्त्वा, तयोः संस्तारको नान्यत्र सङ्क्रामयितव्य इति भावः ॥ इदमेवव्याचष्टे [भा. ४४१३] चरिमो बहिं न कीरइ, सेहं न सहायगा विजुयलेति । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516