Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 493
________________ ४९० बृहत्कल्प-छेदसूत्रम् - २-३/९६ वृ- "संधारग्गहणीए "त्ति आर्षत्वात् स्त्रीत्वम्, संस्तारकग्रहणकाले वेण्टिकाया उत्क्षेपणं कर्त्तव्यं येन सुखेनैव दृष्टायां भुवि संस्तारका विभक्तुं शक्यन्ते । स च संस्तारको यो यस्मै साधवे दीयते स तेन माया - मदविप्रमुक्तेन ग्रहीतव्यः । माया नाम 'अहं वातार्थी, ममात्रावकाशं प्रयच्छत' इत्यादिका सुन्दरतरावकाशलो भेनासद्भूतकारणनिवेदनलक्षणा, मदः - अहङ्कारः 'अहो ! किमर्थं संस्तारकग्रहणकाले वेण्टिका उत्क्षिप्यन्ते ? उच्यते [भा. ४३९०] सम-विसमाई न पासइ, दुक्खं च ठियम्मि ठायई अन्नो । नेव य असंखडादी, विनयो अममिजया चेव || खू - विण्टिका यदि नोत्क्षिप्यन्ते तदा गणावच्छेदिकादिसंस्तारकान् विभजमानः सम-विषमाणि स्थानानि न पश्यति, अवकाशानित्यर्थः । तथा एकस्मिन् साधौ विण्टिकासहिते पूर्वस्थिते सति अन्यो न तिष्ठति, स्थातुं न शक्नोतीति भावः । अपि च वेण्टिकासूत्क्षिप्तासु असङ्खडादयो दोषा नैव भवन्ति । यथरत्नाधिकं च संस्तारकग्रहणे विनयः कृतो भवति । 'अममता च' ममत्वं संस्तारकभूमिविषयं परिहृतं भवति । अतः साधुभि स्वस्वोपकरणे प्रत्येक्षिते उपाश्रये च प्रमार्जिते सति सूरिभिर्वक्तव्यम् - आर्या ! उत्क्षिपत स्वा स्वा विण्टिकाः । एवमुक्ते यो नोत्क्षिपति तस्य मासलघु ॥ अथ वेण्टिकासूक्षिप्यमाणासु कश्चिदिमां मायां कुर्यात्[भा. ४३९१] संथारग्गहणीए, कंटग वीयार पासवण धम्मे । पणे मासो गुरुओ, सेसेसु वि मासियं लहुगं ।। वृ- संस्तारग्रहणकाले सम-सुन्दरभूमिलोभेन कण्टकोद्धरणमहं सम्प्रति करिष्यामि, 'विचारं वा' संज्ञां वा व्युष्टुं प्रश्रवणं वा कर्तुं बहिर्गमिष्यामि, धर्मं वा शय्यातरादेरग्रे कथयिष्यामि इत्यादि ब्रूयात्, प्रचलायनं वा तदानीं विदध्यात्, एवं मायायाः करणे आज्ञादयो दोषाः । अत्र च प्रचलायने मासगुरु । 'शेषेषु' कण्टकादिषु मायाभेदेषु मासलघुकम् ॥ अथ कण्टकादिपदानि विवृणोति [भा. ४३९२] दुक्खं ठिओ व निज्जइ, न यानुवाएण पेल्लिउं सक्का । जो वि य ने अवनेहिइ, तं पि य नाहामि इति मंता ।। [भा. ४३९३] संथारभूमिद्धो, भनाइ छंदेण भंते! गिण्हित्तो । संथारगभूमीओ, कंटगमहमुद्धरामेणं ॥ वृ- कोऽपि सम-सुन्दरे अवकाशे संस्तारकं कर्तुकामः, तत्र चापरः कोऽपि साधुः स्थित उपविष्टो वर्तते, सच ‘दुःखं’दुःखेन 'नीयते' अन्यत्र स्थाप्यते, न च 'अनुपायेन' कण्टकोद्धरणादि व्याजमन्तरेण प्रेरयितुं शक्यः, योऽपि च " णे” इति मदीयं कण्टकमपनेष्यति तमप्यहं ज्ञास्यामीति मत्वा संस्तारकभूमिलुब्धो भणति - भदन्त ! इतः संस्तारकभूमीत उत्थाय 'छन्देन' स्वाभिप्रायेण 'गृह्णीत' संस्तारकम्, अहं पुनरत्र कण्टकमेनमुद्धरामीति । एवं मायाकरणे मासलघु प्रायश्चित्तम्।। अथ सद्भावादेव कण्टको लग्नः ततः किम् ? इति अत आह [ भा. ४३९४] लग्गे व अनहियासम्मि कंटए उक्खिवावे अन्नेणं । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516