Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४८८
बृहत्कल्प-छेदसूत्रम् -२-३/९६ [भा.४३८०] मुत्तनिरोहे चक्खं, वञ्चनिरोहेम जीवियं चयइ
उडनिरोहे कोडें, गेलन्नं वा भवे तिसुवि॥ वृ-मूत्रस्य निरोधे विधीयमाने चक्षुरुपहन्यते।वर्च-पुरीषतस्य निरोधेन जीवितं परित्यजति, अचिरादेव मरणं भवतीत्यर्थः । ऊर्ध्व-वमनं तस्यन निरोधे कुष्ठं भवति । 'ग्लान्यं वा' सामान्यतो मान्धं त्रिष्वपि' मूत्र-पुरीष-वमनेषु निरुध्यमानेषु भवेत्॥
यत एते दोषा अतः[मा.४३८१] पढम-बिइयाए तम्हा, गमनं पडिलेहणा पवेसो य ।
पुव्वठियाऽसइ गच्छं, ठवेत्तु बाहिं इमे तिन्नि । कृतस्मात्प्रथमायां द्वितीयस्यां वापौरुष्यां विवक्षितग्रामे गमनं कृत्वा ततो वसतेःप्रत्युपेक्षणा प्रवेशश्च तस्यां कर्तव्यः । कथम् ? इत्याह-यदि तत्र केऽपि साधवः पूर्वस्थिताः सन्ति तदा सर्वेऽपि प्रविशन्ति । अथ न सन्ति पूर्वस्थिताः ततो गच्छं कचिद् वृक्षादेरधो बहि स्थापयित्वा 'इमे' ईशास्त्रयः साधवो ग्रामं प्रविशन्ति॥ [भा.४३८२] परिणयवय गीयत्था, हयसंका पुंछ चिलिमिली दोरे ।
तिन्नि दुवे एक्को वा, वसहीपेहट्ठया पविसे ॥ -ये गीतार्था परिणतवयसोअतएव ‘हतशङ्काः' अशङ्खनीयाः तेगुरुमापृच्छय दण्डप्रोज्छनकं चिलिमिलींदवरकांश्च गृहीत्वा त्रयोजनास्तदभावे द्वौ जनौ तदप्राप्तावेको वा वसतिप्रत्युपेक्षणार्थं ग्रामं प्रविशन्ति । ततो वसतिं गृहीत्वा प्रमृज्य च चिलिमिलिकां च दत्त्वा सबालवृद्धमपि गच्छं तत्र प्रवेशयन्ति ॥
अथ 'विकालवेलायां न प्रवेष्टव्यम्' इति यदुक्तं तदपवदनाह[भा.४३८३] बिइयं ताहे पत्ता, पए व पत्ता उवस्सयं न लभे ।
सुन्नघर देउले वा, उज्जाने वा अपरिभोगे। वृ-द्वितीयपदमत्राभिधीयते-'तदानीं विकालवेलायामेव प्राप्ताः, यद्वा 'प्रगे' प्रभाते प्राप्ताः परमुपाश्रयं न लभन्ते ततो विकालेऽपि प्रविशेयुः । प्रभातप्राप्ताश्च दिवा शून्यगृहे देवकुले वा उद्याने वा 'अपरिभोग्ये' जनोपभोगरहिते तिष्ठन्ति, तत्रैव च समुद्देशनं कुर्वन्ति ॥ [भा.४३८४] आवाय चिलिमिणीए, रन्ने वा निभये समुद्दिसणं ।
सभए पच्छन्नाऽसइ, कमढग कुरुया य संतरिया। वृ-अथ शून्यगृहादौ सागारिकाणामापातो भवति ततश्चिलिमिलिकां दत्त्वा समुद्देष्टव्यम् । अरण्यं व यदि निर्भयं ततस्तत्र गत्वा समुद्दिशन्ति । अथारण्यं सभयं ततो वसिमसमीपे एव यः प्रच्छन्नः प्रदेशस्तत्रसमुद्देशनकर्त्तव्यम्। अथप्रच्छन्नस्थानं नास्ति ततस्तत्रैवशून्यगृहादौ 'कमठकेषु' शुक्ललेपेन सबाह्याभ्यन्तरंलिप्तेषु कांस्यकरोटकाकारेषुसमुद्दिशन्ति, कुरुकुचाच समुद्देशनानन्तरं पादप्रक्षालनादिका बहुना द्रवेण कर्तव्या, समुद्दिशन्तश्च “सान्तराः' सावकाशा बृहदन्तराला उपविशन्ति । एवं भुक्त्वा बहिरेवसंज्ञादि व्युत्सृज्य ततो ग्रामं प्रविशन्ति । प्रविष्टाश्च यापूर्वंभिक्षां हिण्डमानैर्वसति प्रत्युपेक्षिता तस्यां वसन्ति ।
कथम् ? इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f33a913a578f2d258a2b3d0c971ffb8f54bf0bfa3ef3f8a657208da2a7bf5084.jpg)
Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516