Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 486
________________ ४८३ उद्देशकः ३, मूलं-९५, [भा. ४३५९] प्रतिग्रहो मात्रकं वा गृहीतम् । तथा[भा.४३६०]पाणदय सीयमत्युय, पमज्ज चिलिमिलि निसिज कालगते। __. गेलन्न लज्ज असहू, छेअण सागारिए भोगो।। दृ-वर्षाकल्पादिकं 'प्राणिदयार्थम्' अकायादिजीवरक्षानिमित्तं परिभोक्तव्यम् । कल्पत्रयं शीतरक्षार्थम् । संस्तारकोत्तरपट्टको आस्तरणमास्तृतं तदर्थम् । रजोहरणंचप्रमार्जनार्थं गृह्यते। चिलिमिलिका ज्योतिशाला-दकतीरादावुपयुज्यते।रजोहरणस्यनिषद्याद्वयंनिषदनार्थमादीयते। "कालगए"त्ति कालगतस्याच्चादनार्थं नन्तकादिकं गृह्यते । ग्लानत्वं वा कस्यापि सजातं सः अप्रावृतः सुखेनास्तामिति कृत्वा तस्याग्रे चिलिमिलिका दीयते । “लज्ज"त्ति लज्जाव्यपगमार्थ चोलपट्टकः परिभुज्यते । “असहु"त्ति राजादिप्रव्रजिता असहिष्णवः ते कल्पादिकं प्रावृणीयुः। "छेदन"त्तिनखहरणिका-पिप्पलकादिनानखप्रलम्बादीनां छेदनं क्रियते। “सागारिए"त्ति शैक्षस्य त्ति नखहरणिका-पिप्पलकादिना नखप्रलम्बादीनां छेदनं क्रियते । “सागारिए"त्ति शैक्षस्य सज्ञातकानां सागारिकं ततः कल्पादिकं प्रावार्य प्रच्छन्ने स्थाप्यते । एवमादिकः सर्वोऽपि यथायोगमौधिकस्यौपग्रहिकस्य चोपधेः परिभोगो मन्तव्यः ।। उक्तं पुराणग्रहणम्।तदुक्तौ च समर्थितमचित्तग्रहणम् । एवं क्षपकेण त्रिविधे ग्रहणे प्ररूपिते सति इतरः प्राह[भा.४३६१] उवरिं कहेसि हिट्ठा, न याणसी वयणं न होइ एवं तु । चतुरो गुरुगा पुच्छा, नासेहिसितं जहा वेजो। वृ- यद् उपरि कथयितुं योग्यं तत् त्वम् ‘अधस्तात्' पूर्वं कथयसि । इयमत्र भावना-यद् भवता प्रथममेवाचार्यादिविषयं पुराणसचित्तग्रहणमभिहितं तदशैक्षलक्षणाभिनवसचित्तग्रहणप्ररूपणादूर्ध्व प्ररूपयितुं योग्यमासीत्, अभिनव-पुराणपर्याययोः पूर्व-पश्चात्कालभावित्वेन भावात; तस्य चाभिनवसचित्तगर्हणस्य भवताप्ररूपणैवनकृता, अत एवनजानासि ग्रहणस्वरूपम्। यथा च “वन्दित्वा विनयेन पृच्छ' इत्येवमहकारदूषितं वचनं त्वयोक्तम् एवमभिधियमानं न भवति, सतां पूजनीयमिति वाक्यशेषः। एवंचब्रुवाणस्य भवतश्चत्वारोगुरुकाः।क्षपकः पृच्छतिकिमत्र मम झूणमापतितं येनैवं प्रायश्चित्तं ? । इतरः प्राह-त्वं पल्लवग्राहितया सम्यक् सिद्धान्ताभिप्रायमविज्ञाय जल्पसि । एवं च प्रज्ञापयन् त्वमात्मना नष्टोऽन्यानपि नाशयिष्यसि, यथा स प्रथमोद्देशकमणितो वैद्यः पूर्वाह्ने वमनं दद्यादपराह्ने विरेचनम् । वातिकेष्वपि रोगेषु, पत्यमाहर्विशोषणम्॥ इति श्लोकमात्रं गृहीत्वा चिकित्सां कुर्वन् विनष्टः एवं भवानपीति चिरनतनगाथासमासार्थः । अथैनामेव किश्चिद् विवृणोति[भा.४३६२] वयणं न वि गव्वमालियं, एलिसयं कुलसेहि पूजियं। अहवा न वि एत्थ लूसिमो, पगई एस अजानुए जने ॥ वृ. इतरः क्षपकं ब्रूते-'ईशं' 'मां वन्दित्वा विनयेन पृच्छ' इत्येवंरूपं 'गर्वभारितम्' । अहङ्कारभारगुरुकं वचनं 'कुशलैः' विद्वद्भिः 'न पूजितं' नश्लाधितम्, अतो नैव भवतो वक्तुं युज्यते । अथवा नाप्यत्र वयं 'रुष्यामः' रोषं कर्तुमर्हामः । कुतः ? इत्याह-'अज्ञे' मूर्खे जने Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516