Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
बृहत्कल्प-छेदसूत्रम् - २-३/९५
अथ यदुक्तम् 'बाल-वृद्धादयो लोकेऽप्यनुकम्पनीयाः' ति तत्परिहाराय लौकिकमेव दृष्टान्तमाह[ भा. ४३४६] दुग्धासे खीरवती, गावी पुस्सइ कुटुंबभरणट्ठा । मोतु फलदं च रुक्खं, को मंदफला - Sफले पोसे ॥
४८०
वृ-दुर्ग्रासं दुर्भिक्षं तत्र यथा 'क्षीरवती' भूग्नि मतुप्रत्ययविधानाद् बहुक्षीरा गौः कुटुम्बभरणार्थं 'पोष्यते' चारीप्रदानादिना पुष्टिं नीयते, एवमस्माकमपि य आचार्यादिस्तरुणादिगुणोपेततयाऽऽत्मनः परेषां चोपग्रहं कर्तुं समर्थ स निस्तार्यते । तन्निस्तारणे हि बहूनां बाल-वृद्धादीनामपि तदाश्रितानामनुकम्पा कृता भवति । अथ तं परित्यज्य क्षुल्लक- स्थविरादिस्तस्या आपदस्तार्यते ततो बहवो बालादयस्तदाश्रिताः परित्यक्ता भवन्ति । अपि च- 'फलदं' प्रभूतफलदायिनं वृक्षं मुक्त्वा को नाम मन्दफलान् अफलान् वा वृक्षान् 'पुष्णीयात् ' सारणीसलिलसेचनादिना पुष्टिं प्रापयेत् ? न कोऽपीत्यर्थः । उपनययोजना प्राग्वद् द्रष्टव्या ॥
उक्तं सचित्तग्रहणम् । अथ मिश्रग्रहणमाह
[भा. ४३४७]
एमेव मीसए वी, नेयव्वं होइ आनुपुव्वीए । वोच्चत्थे चउगुरुगा, तत्थ वि आणाइणो दोसा ।।
वृ- एवमेव मिश्रविषयमपि ग्रहणम् ' आनुपूर्व्या' आचार्य - प्रवर्त्तिन्यादिपरिपाट्या ज्ञातव्यं भवति । अथ यथोक्तक्रममुल्लाय विपर्यासेन पुरुषाणां स्त्रीणां वा ग्रहणं करोति ततश्चतुर्गुरुकाः । तत्रापि चाज्ञादयो दोषा भवन्ति ॥
अथ मिश्रग्रहणं कीशं प्रतिपत्तव्यम् ? इति उच्यते
[भा. ४३४८] मीसगगहणं तत्थ उ, विनिवाओ जो सभंड- मत्ताणं ।
अहवा विमीयं खलु, उभओक्खऽच्चओ घोरो ॥
वृ- इह यः 'सभाण्ड - मात्राणां' पात्र मात्रकाद्युपकरणसहितानां साधूनां साध्वीनां वा 'विनिपातः' उदकवाहके निमज्जनं ‘तत्र' तद्विषयं यद् ग्रहणं तद् मिश्रग्रहणमुच्यते । अथवा यद् उभयोरपिसाधु-साध्वीलक्षणयोः पक्षयोः 'घोरः' रौद्रो युगपदुदकवाहकेनापहरणलक्षणः 'अत्ययः’ प्रत्यपायस्ततो यद् ग्रहणं तद् मिश्रग्रहणमिति मन्तव्यम् ॥ अथामुमेव द्वितीयव्याख्यानपक्षमङ्गीकृत्य निस्तारणविधिमाह[भा. ४३४९ ] सव्वत्थ वि आयरिओ, आयरियाओ पवत्तिनी होइ । तो अभिसेगप्पत्तो, सेसेसु तु इत्थिया पढमं ॥
वृ- द्वयोरपि पक्षयोरुदकेन ह्रियमाणयोर्यद्यस्ति शक्तिस्ततो युगपद् निस्तारणं कार्यम् । अथ नास्ति युगपद् निस्तारणसामर्थ्य ततः सर्वत्रापि प्रथममाचार्यो निस्तारणीयः । आचार्यानन्तरं प्रवर्त्तिनी तारयितव्या भवति । 'ततः' प्रवर्त्तिन्या अनन्तरमभिषेकपदप्राप्तः । ततः 'शेषेषु तु' भिक्षुप्रभृतिषु पदेषु प्रथमं स्त्री निस्तारयितव्या, ततः पुरुषः । तथाहि भिक्षु भिक्षुण्योर्मध्ये प्रथमं भिक्षुणी ततो भिक्षुस्तारणीयः, क्षुल्लक - क्षुल्लिकयोर्मध्ये प्रथमं क्षुल्लिका ततः क्षुल्लकः, स्थविर - स्थविरयोः प्रथमं स्थविरा ततः स्थविर इति ॥
अथ किमर्थमेषु प्रथमं स्त्र निस्तार्यते ? इत्याह[ भा. ४३५० ]
Jain Education International
अन्नस्स वि संदेहं दद्धुं कंपंति जा लयाओ वा ।
1
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6ccaed50bae7c539be4ed81cff3ad0dc545b0f8f6e97ab2e9e6002ec4297557b.jpg)
Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516