Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 481
________________ ४७८ बृहत्कल्प-छेदसूत्रम् -२-३/९५ अथ यदुक्तम्-‘एकैकं पञ्चविधं ग्रहणं भवति' तत्र पुरुषविषयं तावदाह[भा.४३३६] आयरिए अभिसेगे, भिक्खू खुढे तहेव थेरे य। गहणं तेसिं इणमो, संजोगगमंतु वोच्छामि ॥ वृ-'आचार्य' गच्छाधिपति अभिषेकः' सूत्रा-ऽर्थ-तदुभयोपेतआचार्यपदस्थापनाह 'भिक्षुः' प्रतीतः क्षुल्लकः' बालः 'स्थविरः' वृद्धः, एतेषांपञ्चानामपि ग्रहणम् इदम् अनन्तरमेव वक्ष्यमाणं 'संयोगगम' संयोगतो गमाः-प्रकारा यस्य तत् तथा वक्ष्यामि॥ प्रतिज्ञातमेव निर्वाहयति[भा.४३३७] सब्वे वितारणिज्जा, संदेहाओ परक्कमे संते। - एकेकं अवणिज्जा, जाव गुरू तत्थिमो भेदो॥ वृ- 'पराक्रमे' शक्ती सत्यां 'सर्वेऽपि' आचार्यादयः ताशात् ‘सन्देहाद्' नध्याधुदकनिमज्जनलक्षणा तत् तारणीयाः। अथ नास्ति ताशः पराक्रमस्ततः स्थविरवर्जाश्चत्वारस्तारणीयाः, तत्राप्यशक्ती क्षुल्लक-स्थविरवर्जास्त्रयः, तत्राप्यसामर्थ्य आचार्या-अभिषेकौ द्वौ, तत्राप्यशक्ती एक एव आचार्यस्तारयितव्यः। आह च-“एकेकं" इत्यादि, सर्वान् तारयितुमशक्तौ स्थविरादिक-मेकैकमपनयेद् यावद् 'गुरु' आचार्य । तत्र चायं वक्ष्यमाणो भेदो भवति॥ [भा.४३३८] तरुणे निष्पन्न परिवारे, सलद्धिए जे यहोति अब्मासे। . अमिसेगम्मिय चउरो, सेसाणं पंचचेव गमा॥ वृ-इह द्वावाचार्यो-एकस्तरुणोऽपरः स्थविरः । यद्यस्तिशक्तिस्ततो द्वावपि तारणीयौ । अथ नास्तिततस्तरुणो निस्तारणीयः । अथ द्वावपितरुणौततोयस्तयोः निष्पन्नः सम्यक्सूत्रार्थकुशलः स तारयितव्यः । अथ द्वावपि निष्पन्नावनिष्पन्नौ वा ततो यः सपरिवारः स तारणीयः । अथ द्वावपिसपरिवारावपरिवारौवा ततोयातत्र 'सलब्धिकः' लब्धिसम्पन्नस्तंतारयेत्। अथ द्वावपि सलब्धिकावलब्धिको वा ततो यः 'अभ्यासे' आसन्ने स्थितः स निस्तारणीयः । अत्रायं विशेषसम्प्रदायः-द्वयोरभ्यासस्थितयोर्यस्तरीतुमशक्तः स तारणीयः । एवमेते आचार्यस्य पञ्च गमा अभिहिताः । अभिषेकस्तु नियमाद् निष्पन्नो भवति, अन्यथा तत्त्वत आचार्यपदस्थापनायोग्यत्वानुपपत्तेः । ततस्तस्मिन्नभिषेके निष्पन्ना-ऽनिष्पन्नगमाभावात् शेषाश्चत्वारोगमाएवमेव वक्तव्याः। शेषाणां भिक्षु-क्षलक-स्थविराणां पञ्चापिगमा भवन्ति, ते चाचार्यवद वक्तव्याः। नवरं बालस्य निष्पन्नता श्री वज्रस्वामिन इव भावनीया, तरुणता तु प्रथमकुमारत्वे वर्तमानस्यावसातव्या । एवं स्थविरस्यापिजघन्यवृद्धत्वे वर्तमानस्यतरुणता, शेषस्यतुवृद्धतामन्तव्या। त्रयाणामपिच भिक्षुप्रभृतीनांपरिवारोगुरुप्रदत्तोमाता-पितृ-भातृ-भगिनीप्रभृतिप्रव्रजितस्वजनवर्गो वा द्रष्टव्यः॥ अथ स्त्रीविषयं पञ्चविधं ग्रहणमुपदर्शयति[भा.४३३९] पवत्तिनि अभिसेगपत्ता, थेरी तह भिक्खुणी यखुड्डीय। गहणंतासिं इणमो, संजोगक(क)मंतुवोच्छामि॥ वृ-'प्रवर्तिनी' सकलसाध्वीनां नायिका, ‘अभिषेकप्राप्ता' प्रवर्तिनीपदयोग्या, 'स्थविरा' For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516